नववर्षस्य शुभकामनाः , नव वर्ष की शुभकामनाएं संस्कृत में

Sooraj Krishna Shastri
By -
0

नववर्षमिदं मम देशकृते सुखशान्तियुतं कुरु मे भगवन्! 

धनधान्यवती धरणी भवतु कृषकाः श्रमिकाः ऋणिकाः न पुनः।।(1)

चरणेषु गुरोः जनकस्य तथा ननु मातुरहो प्रणुतिर्हि सदा।

निजसंस्कृतिरक्षणशक्तियुताः मम देशसुताः च भवन्तु पुनः।।(2)

पठने निपुणाः बटवः सकलाः गुरवः निजकार्यरताः मनसा

अमला च छविः मम नेतुरहो सबला अबलाः च भवन्तु पुनः।।(3)

कवयः गुरवः बटवः भिषजाःवणिजो सचिवाः कृषकाः श्रमिकाः।

रसिकाः सुहृदो रिपवोऽपि तथा सुखिनः सफलाः च भवन्तु पुनः।।(4)

छन्द ----तोटक 

रचयिता 

-रवीन्द्र:

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!