धीरसमीरे यमुनातीरे वसति वने वनमाली,जयदेव,गीत गोविन्द

Sooraj Krishna Shastri
By -
0

रतिसुखसारे गतमभिसारे भुवनमनोहरवेषम् । 

न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ 

धीरसमीरे यमुनातीरे वसति वने वनमाली 

पीनपयोधरपरिसरमर्वनचञ्चलकरयुगशाली ॥ध्रुवम्॥


नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम् । 

बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥धीर०॥


पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् । 

रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥धीर०॥


मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् । 

चल सखि कुञ्जं सतिमिरपुचं शीलय नीलनिचोलम् ॥धीर०॥


उरसि मुरारेरुपहितहारे घन इव तरलबलाके।

तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥धीर०॥


विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । 

किसलयशयने पङ्कजनयने निधिमिव हर्षनिधानम् ॥धीर०॥


हरिरभिमानी रजनिरिदानीमियमपि याति विरामम । 

प्रमुदितहवयं हरिमतिसवयं नमत सुकृतकमनीयम् ॥धीर०॥


कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् 

श्रीजयदेवं कृतहरिसेवे भणति परमरमणीयम्॥धीर०॥

(जयदेव गीत-गोविन्द)

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!