Bhagwat chapter 11.02 |
श्रीशुक
उवाच
गोविन्दभुजगुप्तायां द्वारवत्यां
कुरूद्वह ।
अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १ ॥
को नु राजन्निन्द्रियवान्
मुकन्दचरणम्बुजम् ।
न भजेत् सर्वतोमृत्युः
उपास्यममरोत्तमैः ॥ २ ॥
तमेकदा तु देवर्षिं वसुदेवो गृहागतम्
।
अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥
३ ॥
श्रीवसुदेव उवाच
भगवन् भवतो यात्रा स्वस्तये
सर्वदेहिनाम् ।
कृपणानां यथा पित्रोः
उत्तमश्लोकवर्त्मनाम् ॥ ४ ॥
भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखायैव हि साधूनां
त्वादृशामच्युतात्मनाम् ॥ ५ ॥
भजन्ति ये यथा देवान् देवा अपि तथैव
तान् ।
छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥
६ ॥
ब्रह्मन् तथापि पृच्छामो धर्मान्
भागवतांस्तव ।
यान् श्रुत्वा श्रद्धया मर्त्यो
मुच्यते सर्वतो भयात् ॥ ७ ॥
अहं किल पुरानन्तं प्रजार्थो भुवि
मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८
॥
यथा विचित्रव्यसनाद् भवद्भिः
विश्वतोभयात् ।
मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि
सुव्रत ॥ ९ ॥
श्रीशुक उवाच
राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता ।
प्रीतस्तमाह देवर्षिः हरेः संस्मारितो
गुणैः ॥ १० ॥
श्रीनारद उवाच
सम्यगेतद्व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मान् त्वं
विश्वभावनान् ॥ ११ ॥
श्रुतोऽनुपठितो ध्यात आदृतो
वानुमोदितः ।
सद्यः पुनाति सद्धर्मो देव
विश्वद्रुहोऽपि हि ॥ १२ ॥
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।
स्मारितो भगवानद्य देवो नारायणो मम ॥
१३ ॥
अत्राप्युदाहरन्तीमम् इतिहासं
पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः
॥ १४ ॥
प्रियव्रतो नाम सुतो मनोः
स्वायंभुवस्य यः ।
तस्याग्नीध्रस्ततो नाभिः
ऋषभस्तत्सुतस्स्मृतः ॥ १५ ॥
तमाहुः वासुदेवांशं मोक्षधर्मविवक्षया
।
अवतीर्णं सुतशतं तस्यासीद्
ब्रह्मपारगम् ॥ १६ ॥
तेषां वै भरतो ज्येष्ठो नारायणपरायणः
।
विख्यातं वर्षमेतद्यत् नाम्ना भारतमद्भुतम्
॥ १७ ॥
स भुक्तभोगां त्यक्त्वेमां
निर्गतस्तपसा हरिम् ।
उपासीनस्तत्पदवीं लेभे वै
जन्मभिस्त्रिभिः ॥ १८ ॥
तेषां नव नवद्वीप-पतयोऽस्य समन्ततः ।
कर्मतन्त्रप्रणेतार
एकाशीतिर्द्विजातयः ॥ १९ ॥
नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः ।
श्रमणा वातरशना आत्मविद्याविशारदाः ॥
२० ॥
कविर्हरिरन्तरिक्षः प्रबुद्धः
पिप्पलायनः ।
आविहोत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥
२१ ॥
त एते भगवद्रूपं विश्वं सदसदात्मकम्
।
आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन्
महीम् ॥ २२ ॥
अव्याहतेष्टगतयः सुरसिद्धसाध्य-
गन्धर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताश्चरन्ति मुनि-चारण-भूतनाथ-
विद्याधर-द्विज-गवां भुवनानि कामम् ॥ २३ ॥
त एकदा निमेः सत्रं उपजग्मुः यदृच्छया ।
वितायमानं ऋषिभिः अजनाभेर्महात्मनः ॥
२४ ॥
तान् दृष्ट्वा सूर्यसङ्काशान्
महाभागवतान् नृप ।
यजमानोऽग्नयो विप्राः सर्व
एवोपतस्थिरे ॥ २५ ॥
विदेहस्तानभिप्रेत्य नारायणपरायणान् ।
प्रीतः संपूजयाञ्चक्रे आसनस्थान्
यथार्हतः ॥ २६ ॥
तान् रोचमानान् स्वरुचा
ब्रह्मपुत्रोपमान् नव ।
पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः
॥ २७ ॥
विदेह उवाच
मन्ये भगवतः साक्षात् पार्षदान् वो
मधुद्विषः ।
विष्णोर्भूतानि लोकानां पावनाय चरन्ति
हि ॥ २८ ॥
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः
।
तत्रापि दुर्लभं मन्ये
वैकुण्ठ-प्रियदर्शनम् ॥ २९ ॥
अत आत्यन्तिकं क्षेमं पृच्छामो
भवतोऽनघाः ।
संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः
शेवधिर्नृणाम् ॥ ३०॥
धर्मान् भागवतान् ब्रूत यदि नः
श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय, दास्यत्यात्मानमप्यजः
॥ ३१ ॥
श्रीनारद उवाच
एवं ते निमिना
पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्याब्रुवन् प्रीत्या
ससदस्यर्त्विजं नृपम् ॥ ३२ ॥
कविरुवाच
मन्येऽकुतश्चिद्भयमच्युतस्य
पादाम्बुजोपासनमत्र नित्यम् ।
उद्विग्नबुद्धेः असदात्मभावात्
विश्वात्मना यत्र निवर्तते भीः ॥ ३३ ॥
ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।
अञ्जः पुंसामविदुषां विद्धि भागवतान्
हि तान् ॥ ३४ ॥
यानास्थाय नरो राजन् न प्रमाद्येत
कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन्न
पतेदिह ॥ ३५ ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वानुसृतस्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेत्तत् ॥ ३६ ॥
भयं द्वितीयाभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययोऽस्मृतिः
।
तन्माययातो बुध आभजेत्तं
भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७ ॥
अविद्यमानोऽप्यवभाति हि द्वयोः
ध्यातुर्धिया स्वप्नमनोरथौ यथा ।
तत्कर्मसङ्कल्पविकल्पकं मनो
बुधो निरुंध्याद् अभयं ततः स्यात्
॥ ३८ ॥
श्रृण्वन् सुभद्राणि रथाङ्गपाणेः
जन्मानि कर्माणि च यानि
लोके ।
गीतानि नामानि तदर्थकानि
गायन् विलज्जो विचरेदसङ्गः ॥ ३९ ॥
एवंव्रतः स्वप्रियनामकीर्त्या
जातानुरागो द्रुतचित्त उच्चैः ।
हसत्यथो रोदिति रौति गाय-
त्युन्मादवत् नृत्यति
लोकबाह्यः ॥ ४० ॥
खं वायुमग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशो
द्रुमादीन् ।
सरित्समुद्रांश्च हरेः शरीरं
यत्किं च भूतं प्रणमेदनन्यः ॥ ४१ ॥
भक्तिः परेशानुभवो विरक्तिः
अन्यत्र चैष त्रिक एककालः ।
प्रपद्यमानस्य यथाश्नतस्स्युः
तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२ ॥
इति अच्युताङ्घ्रिं भजतोऽनुवृत्त्या
भक्तिर्विरक्तिर्भगवत्प्रबोधः ।
भवन्ति वै भागवतस्य राजन्
ततः परां शान्तिमुपैति साक्षात् ॥ ४३ ॥
श्रीराजोवाच
अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् ।
यथाचरति यद् ब्रूते यैर्लिङ्गैः
भगवत्प्रियः ॥ ४४ ॥
हरिरुवाच
सर्वभूतेषु यः
पश्येद्भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः
।। ४५ ॥
ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च
।
प्रेममैत्रीकृपोपेक्षा यः करोति स
मध्यमः ॥ ४६ ॥
अर्चायामेव हरये पूजां यः श्रद्धयेहते
।
न तद्भक्तेषु चान्येषु स भक्तः
प्राकृतः स्मृतः ॥ ४७ ॥
गृहीत्वापीन्द्रियैरर्थान् यो न
द्वेष्टि न हृष्यति ।
विष्णोर्मायामिदं पश्यन् स वै
भागवतोत्तमः ॥ ४८ ॥
देहेन्द्रिप्राणमनोधियां यो
जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।
संसारधर्मैरविमुह्यमानः
स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥
न कामकर्मबीजानां यस्य चेतसि संभवः ।
वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५०
॥
न यस्य जन्मकर्मभ्यां न
वर्णाश्रमजातिभिः ।
सज्जतेऽस्मिन्नहं भावो देहे वै स हरेः
प्रियः ॥ ५१ ॥
न यस्य स्वः पर इति वित्तेष्वात्मनि
वा भिदा ।
सर्वभूतसमश्शान्तः स वै भागवतोत्तमः ॥
५२ ॥
त्रिभुवन-विभवहेतवेऽप्यकुण्ठ-
स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
न चलति भगवत्पादारविन्दात् ।
लव निमिषार्धमपि यः स
वैष्णवाग्र्यः ॥ ५३ ॥
भगवत उरुविक्रमाङ्घ्रिशाखा-
नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथमुपसीदतां पुनः स
प्रभवति चन्द्र इवोदितेऽर्कतापः
॥ ५४ ॥
विसृजति हृदयं न यस्य साक्षाद्
हरिः अवशाभिहितोऽप्यघौघनाशः ।
प्रणयरशनया घृताङ्घ्रिपद्मः
स भवति भागवतप्रधान उक्तः ॥ ५५ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
thanks for a lovly feedback