Home सूरज कृष्ण शास्त्री भागवत प्रथम स्कन्ध चतुर्दश अध्याय (bhagwat 1.14) भागवत प्रथम स्कन्ध चतुर्दश अध्याय (bhagwat 1.14) By -Sooraj Krishna Shastri January 29, 2022 0 bhagwat chapter 1.14 सूत उवाचसम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥व्यतीताः कतिचिन्मासाः तदा नायात् ततोऽर्जुनः ।ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ २ ॥कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः ।पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् ।पितृमातृसुहृद्भ्रातृ दम्पतीनां च कल्कनम् ॥ ४ ॥निमित्तान्यत्यरिष्टानि काले तु अनुगते नृणाम् ।लोभादि अधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ ५ ॥ युधिष्ठिर उवाचसम्प्रेषितो द्वारकायां जिष्णुर्बन्धु दिदृक्षया ।ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥गताः सप्ताधुना मासा भीमसेन तवानुजः ।नायाति कस्य वा हेतोः नाहं वेदेदमञ्जसा ॥ ७ ॥अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः ।यदाऽऽत्मनोऽङ्गमाक्रीडं भगवान् उत्सिसृक्षति ॥ ८ ॥यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् ।दारुणान्शंसतोऽदूराद् भयं नो बुद्धिमोहनम् ॥ १० ॥ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः ।वेपथुश्चापि हृदये आरात् दास्यन्ति विप्रियम् ॥ ११ ॥शिवैषोद्यन्तं आदित्यं अभिरौति अनलानना ।मामङ्ग सारमेयोऽयं अभिरेभत्यभीरुवत् ॥ १२ ॥शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥मृत्युदूतः कपोतोऽयं उलूकः कम्पयन् मनः ।प्रत्युलूकश्च कुह्वानैः अनिद्रौ शून्यमिच्छतः ॥ १४ ॥धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः ।निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ॥ १५ ॥वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः ।असृग् वर्षन्ति जलदा बीभत्सं इव सर्वतः ॥ १६ ॥सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।ससङ्कुलैर्भूतगणैः ज्वलिते इव रोदसी ॥ १७ ॥नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च ।न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः ।रुदन्त्यश्रुमुखा गावो न हृष्यन्ति ऋषभा व्रजे ॥ १९ ॥दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः ।भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥ २० ॥मन्य एतैर्महोत्पातैः नूनं भगवतः पदैः ।अनन्यपुरुषश्रीभिः हीना भूर्हतसौभगा ॥ २१ ॥इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ २२ ॥तं पादयोः निपतितं अयथापूर्वमातुरम् ।अधोवदनं अब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ २३ ॥विलोक्य उद्विग्नहृदयो विच्छायं अनुजं नृपः ।पृच्छति स्म सुहृत् मध्ये संस्मरन् नारदेरितम् ॥ २४ ॥ युधिष्ठिर उवाचकच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥ २५ ॥शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः ।मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः ॥ २६ ॥सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः ।आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम् ॥ २७ ॥कच्चित् राजाऽऽहुको जीवति असत्पुत्रोऽस्य चानुजः ।हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥ २८ ॥आसते कुशलं कच्चित् ये च शत्रुजिदादयः ।कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ २९ ॥प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः ।गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३० ॥सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ ३१ ॥तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः ।सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ ३२ ॥अपि स्वस्त्यासते सर्वे रामकृष्ण भुजाश्रयाः ।अपि स्मरन्ति कुशलं अस्माकं बद्धसौहृदाः ॥ ३३ ॥भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४ ॥मङ्गलाय च लोकानां क्षेमाय च भवाय च ।आस्ते यदुकुलाम्भोधौ आद्योऽनन्तसखः पुमान् ॥ ३५ ॥यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः ।क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥यत् पादशुश्रूषणमुख्य कर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः ।निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः ॥ ३७ ॥यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः ।अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥कच्चित् नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः ।न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ ४१ ॥कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् ।पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ ४२ ॥अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् ।जुगुप्सितं कर्म किञ्चित् कृतवान्न यदक्षमम् ॥ ४३ ॥कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४ ॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायांप्रथमस्कन्धे युधिष्टिरवितर्को नाम चतुर्दशोऽध्यायः ॥ १४ ॥ Tags: भागवत पाठभागवत प्रथम स्कन्धभागवत मूल श्लोक वाचनसूरज कृष्ण शास्त्री Facebook Twitter Whatsapp Newer Older