Home सूरज कृष्ण शास्त्री भागवत प्रथम स्कन्ध षष्ठम अध्याय (bhagwat 1.6) भागवत प्रथम स्कन्ध षष्ठम अध्याय (bhagwat 1.6) By -Sooraj Krishna Shastri January 29, 2022 0 bhagwat chapter 1.6 सूत उवाचएवं निशम्य भगवान् देवर्षेर्जन्म कर्म च ।भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥। १ ॥ व्यास उवाचभिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ॥। २ ॥स्वायंभुव कया वृत्त्या वर्तितं ते परं वयः ।कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥। ३ ॥प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥। ४ ॥ नारद उवाचभिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।वर्तमानो वयस्याद्ये तत एतदकारषम् ॥। ५ ॥एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबंधनम् ॥। ६ ॥सास्वतंत्रा न कल्पासीद् योगक्षेमं ममेच्छती ।ईशस्य हि वशे लोको योषा दारुमयी यथा ॥। ७ ॥अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया ।दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥। ८ ॥एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९ ॥तदा तदहमीशस्य भक्तानां शमभीप्सतः ।अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् ।जलाशयान् शिवजलान् नलिनीः सुरसेविताः ॥ १२ ॥चित्रस्वनैः पत्ररथैः विभ्रमद् भ्रमरश्रियः ।नलवेणुशरस्तम्ब कुशकीचकगह्वरम् ॥ १३ ॥एक एवातियातोऽहं अद्राक्षं विपिनं महत् ।घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४ ॥परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः ।स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५ ॥तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः ।आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६ ॥ध्यायतश्चरणांभोजं भावनिर्जितचेतसा ।औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७ ॥प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः ।आनंदसंप्लवे लीनो नापश्यमुभयं मुने ॥ १८ ॥रूपं भगवतो यत्तन् मनःकान्तं शुचापहम् ।अपश्यन् सहसोत्तस्थे वैक्लव्याद् दुर्मना इव ॥ १९ ॥दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।वीक्षमाणोऽपि नापश्यं अवितृप्त इवातुरः ॥ २० ॥एवं यतन्तं विजने मामाहागोचरो गिराम् ।गंभीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१ ॥हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुमिहार्हति ।अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२ ॥सकृद् यद् दर्शितं रूपं एतत्कामाय तेऽनघ ।मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३ ॥सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः ।हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४ ॥मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५ ॥एतावदुक्त्वोपरराम तन्महद् भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकंपितः ॥ २६ ॥नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् ।गां पर्यटन् तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७ ॥एवं कृष्णमतेर्ब्रह्मन् असक्तस्यामलात्मनः ।कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८ ॥प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।आरब्धकर्मनिर्वाणो न्यपतत् पांचभौतिकः ॥ २९ ॥कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः ।शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३० ॥सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः ।मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१ ॥अंतर्बहिश्च लोकान् त्रीन् पर्येम्यस्कन्दितव्रतः ।अनुग्रहात् महाविष्णोः अविघातगतिः क्वचित् ॥ ३२ ॥देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३ ॥प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४ ॥एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः ।भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५ ॥यमादिभिर्योगपथैः कामलोभहतो मुहुः ।मुकुंदसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ ३६ ॥सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७ ॥ सूत उवाचएवं संभाष्य भगवान् नारदो वासवीसुतम् ।आमंत्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८ ॥अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः ।गायन्माद्यन्निदं तंत्र्या रमयत्यातुरं जगत् ॥ ३९ ॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायांप्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥। ६ ॥ Tags: भागवत पाठभागवत प्रथम स्कन्धभागवत मूल श्लोक वाचनसूरज कृष्ण शास्त्री Facebook Twitter Whatsapp Newer Older