मन्दिरं भव्यभव्यं त्वयोध्यातटे

Sooraj Krishna Shastri
By -
0

जन्मदं देहदं पुष्टिदं तुष्टिदं

ज्ञानदं मानदं सृष्टिदं हृष्टिदम् । 

भूमिदं वारिदं वायुदं वह्निदं 

त्वां नभोदं विभो ! देव ! नित्यं नमः ।।


प्राप्य मोदाङ्गणं ते प्रहृष्टा वयं 

त्वद्रसास्वादनैरत्र पुष्टा वयम्। 

वीक्ष्य ते रम्यकं स्नेहपूर्णाननं 

हर्षिताः स्मो वयं देव! तुभ्यं नमः ।।


लोकतंत्रायितं सांप्रतं ते गृहं, 

किन्तु लोकाः सदा न्यक्कृताः सन्त्यहो ! 

उत्फणाः काद्रवेयाः सरन्त्यङ्गणे 

वैनतेयस्त्वदीयोs त्र सज्जीभवेत् ।।


शासनासन्दिकामेत्य यष्ट्यान्विताः 

रावणत्वं। गता नो भवेयुः प्रभो ! 

मन्दिरं भव्यभव्यं त्वयोध्यातटे, 

निर्मितः स्यादिदं देव काङ्क्षे सदा ।।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!