Class 9 Sanskrit Chapter 6 Na Gangadattah Punareti Koopam | हिन्दी अनुवाद एवं प्रश्नोत्तर (इरावती)

Sooraj Krishna Shastri
By -
0

न गङ्गदत्तः पुनरेति कूपम्

(षष्ठः पाठः) — इरावती (कक्षा ९)
  • १. पाठ-परिचयः एवं सारः (पंचतंत्र की नीति कथा का परिचय)
  • २. मूल-पाठः एवं हिन्दी अनुवादः (पैराग्राफ अनुसार)
  • ३. शब्द-कोषः (संस्कृत, हिन्दी एवं English अर्थ)
  • ४. व्याकरण-बोधः (धातु रूप एवं ल्यप् प्रत्ययः)
  • ५. अभ्यास-कार्यम् (प्रश्नोत्तर, रिक्तस्थान पूरयत एवं मेलनम्)

पाठ-परिचयः एवं सारः

हिन्दी सार: यह पाठ सुप्रसिद्ध नीतिग्रन्थ पञ्चतन्त्र से उद्धृत है, जहाँ गङ्गदत्त नामक मेंढक की कथा के माध्यम से हमें विवेकपूर्ण जीवन जीने की शिक्षा मिलती है। इसका मुख्य संदेश यह है कि अपने स्वार्थ या प्रतिशोध के लिए दुर्जनों की सहायता लेना कभी भी हितकारी नहीं होता। अतः एक बुद्धिमान व्यक्ति अपनी पूर्व में की गई गलती को समझकर, गङ्गदत्त की तरह पुनः उस कुएँ में नहीं जाता है।
English Summary: This text is excerpted from the renowned book of fables, the Panchatantra, which imparts a vital lesson in wisdom and self-preservation through the story of a frog named Gangadatta. The narrative profoundly highlights how seeking the alliance of the wicked for personal revenge or temporary gain ultimately leads to one's own ruin. Consequently, it teaches that a truly wise person learns from past mistakes and resolves never to step back into a dangerous situation.

मूल-पाठः सानुवादः (भाग १)

[१] गङ्गाम् उभयतः विविधैः वृक्षैः सुशोभिताः ग्रामाः आसन् । तत्र एकस्मात् ग्रामात् बहिः वृक्षस्य अधः एकः जीर्णः कूपः आसीत्। तस्मिन् कूपे मण्डूकानाम् अधिपतिः गङ्गदत्तः परिजनैः सह निवसति स्म। सः गङ्गदत्तः परिश्रमं विनैव प्रभुत्वं प्राप्नोत् । अतः गर्वितः अभवत्।
हिन्दी अनुवाद: गंगा के दोनों ओर अनेक प्रकार के वृक्षों से सुशोभित गाँव थे। वहाँ एक गाँव के बाहर वृक्ष के नीचे एक पुराना (जीर्ण) कुआँ था। उस कुएँ में मेंढकों का स्वामी (राजा) गंगदत्त अपने परिजनों के साथ रहता था। उस गंगदत्त ने बिना परिश्रम के ही प्रभुत्व (अधिकार) प्राप्त कर लिया था, इसलिए वह घमंडी हो गया।
[२] तस्य दुर्व्यवहारेण केचित् प्रमुखाः भेकाः रुष्टाः जाताः । ते गङ्गदत्तम् अधिकारेण हीनं कृत्वा कूपात् बहिः कर्तुम् उद्यताः अभवन् । तद् ज्ञात्वा गङ्गदत्तः विषादम् अनुभवति स्म । 'शत्रूणां नाशः कथं भवेत्' इति एकान्ते चाटुकारैः सह मन्त्रणाम् अकरोत्।
हिन्दी अनुवाद: उसके दुर्व्यवहार से कुछ प्रमुख मेंढक नाराज हो गए। वे गंगदत्त को अधिकार से रहित करके कुएँ से बाहर करने के लिए तैयार हो गए। यह जानकर गंगदत्त दुःख महसूस करने लगा। 'शत्रुओं का नाश कैसे हो?' इस विषय पर उसने एकांत में चाटुकारों (चापसूसों) के साथ परामर्श (सलाह) किया।
[३] एकः नष्टबुद्धिः नाम मण्डूकः नत्वा अकथयत्—'नीतिं विना किमपि न सिध्यति। शत्रुः शत्रुणा नाशयितव्यः इति नीतिः । एषां शत्रूणां नाशाय सर्पः सहायकः भविष्यति। यः वृक्षस्य कोटरे निवसति । एवं सङ्घर्षं विनैव शत्रुनाशः भविष्यति।'
हिन्दी अनुवाद: नष्टबुद्धि नामक एक मेंढक ने प्रणाम करके कहा—'नीति के बिना कुछ भी सिद्ध नहीं होता। शत्रु से ही शत्रु का नाश करवाना चाहिए, यह नीति है। इन शत्रुओं के नाश के लिए वह सांप सहायक होगा, जो वृक्ष के खोखल (कोटर) में रहता है। इस प्रकार बिना किसी संघर्ष के ही शत्रु का नाश हो जाएगा।'

मूल-पाठः सानुवादः (भाग २)

[४] ततः मूढः गङ्गदत्तः कूपात् बहिः आगत्य सर्पस्य समीपं गतः । सः सर्पं सादरम् उच्चैः अवदत् — 'नागराजाय नमः ।' विषधरः अवदत् – 'स्वागतं सखे ! किं ते प्रियं करवाणि? किमर्थम् आगतः असि?'
गङ्गदत्तः अवदत् — 'त्वया सह मैत्रीं कर्तुं तव द्वारम् उपागतः ।'
सर्पराजः तम् अपृच्छत् — 'भक्ष्यभक्षकयोः मध्ये कीदृशी मैत्री?'
गङ्गदत्तः अकथयत् — 'सत्यम्, परम् अधुना अपमानितः अहं तव साहाय्यम् अभिलषामि।'
हिन्दी अनुवाद: तब मूर्ख गंगदत्त कुएँ से बाहर आकर सांप के पास गया। उसने सांप से सादर और जोर से कहा— 'नागराज को नमस्कार है!' विषधर (सांप) ने कहा— 'मित्र! तुम्हारा स्वागत है, मैं तुम्हारा क्या प्रिय (भला) करूँ? किसलिए आए हो?' गंगदत्त ने कहा— 'तुमसे मित्रता करने के लिए तुम्हारे द्वार पर आया हूँ।' सर्पराज ने उससे पूछा— 'भक्ष्य (भोजन) और भक्षक (खाने वाले) के बीच कैसी मित्रता?' गंगदत्त ने कहा— 'सत्य है, परंतु इस समय अपमानित हुआ मैं आपकी सहायता चाहता हूँ।'
[५] सर्पः — 'कस्मात् ते परिभवः ?'
गङ्गदत्तः — 'स्वजनेभ्यः ।'
सर्पः — 'क्व ते निवासः, वाप्यां, कूपे, तडागे वा ?'
गङ्गदत्तः — 'कूपे। आगच्छ ! मया सह, कूपस्य अन्तः प्रविश्य मम शत्रून् नाशय।'
ततः सर्पराजः तस्य वचनं स्वीकृत्य अकथयत् — 'अलं चिन्तया। अन्धः अस्मि ! मां कूपं नय।'
हिन्दी अनुवाद: सांप— 'तुम्हारा अनादर (अपमान) किससे हुआ?' गंगदत्त— 'अपने ही लोगों से।' सांप— 'तुम्हारा निवास कहाँ है, बावड़ी में, कुएँ में या तालाब में?' गंगदत्त— 'कुएँ में। आओ! मेरे साथ, कुएँ के अंदर प्रवेश करके मेरे शत्रुओं का नाश करो।' तब सर्पराज ने उसकी बात स्वीकार करके कहा— 'चिंता मत करो। मैं अंधा हूँ! मुझे कुएँ में ले चलो।'
[६] तदा तत्र गत्वा गङ्गदत्तः तस्मै प्रतिदिनम् एकैकं मण्डूकं भोजनाय प्रयच्छति स्म। क्रमशः सः सर्पः सर्वान् भेकान् भुक्त्वा अकथयत्— 'बुभुक्षितः अस्मि । प्रयच्छ मे अन्यद् भोजनम्।'
गङ्गदत्तः अवदत्—'मार्गं देहि येन बहिः गत्वा अन्यस्मात् जलाशयात् मण्डूकान् आनयामि ।'
ततः सर्पः तस्मै मार्गं दत्तवान् । गङ्गदत्तः बहिः आगत्य सोल्लासम् अवदत्— "न गङ्गदत्तः पुनरेति कूपम्"
हिन्दी अनुवाद: तब वहाँ जाकर गंगदत्त उसे प्रतिदिन भोजन के लिए एक-एक मेंढक देता था। धीरे-धीरे उस सांप ने सभी मेंढकों को खाकर कहा— 'मैं भूखा हूँ, मुझे अन्य भोजन दो।' गंगदत्त ने कहा— 'मुझे रास्ता दो जिससे बाहर जाकर दूसरे जलाशय से मेंढकों को ला सकूँ।' तब सांप ने उसे रास्ता दे दिया। गंगदत्त बाहर आकर प्रसन्नतापूर्वक बोला— "गंगदत्त फिर से उस कुएँ में वापस नहीं आता"

शब्द-कोषः (शब्दार्थाः)

संस्कृत शब्दः संस्कृत अर्थः हिन्दी अर्थः English
उभयतः पार्श्वयोः दोनों ओर On both sides
बहिः बाह्यभागे बाहर Outside
अधः निम्नभागे नीचे Below
जीर्णः पुरातनः / परित्यक्तः पुराना Old
अधिपतिः स्वामी / राजा राजा / स्वामी King / Lord
परिजनैः स्वजनैः अपनों के साथ With relatives
गर्वितः अहङ्कारी घमण्डी Arrogant
रुष्टाः क्रुद्धाः नाराज Angry
कर्तुम् उद्यताः विधातुम् तत्पराः करने के लिए तैयार Ready to do
ज्ञात्वा अवगम्य / विज्ञाय जानकर Having known
विषादम् खिन्नताम् उदासी Sorrow / Sadness
चाटुकारैः स्तुतिपाठकैः चापलूसी करने वालों के द्वारा By flatterers
मन्त्रणाम् गुप्तपरामर्शम् सलाह / परामर्श Advice / Consultation
नत्वा प्रणामं कृत्वा नमस्कार करके Having bowed down
मूढः मूर्खः / अज्ञानी मूर्ख Foolish
उपागतः समीपं प्राप्तः समीप आया Approached
परिभवः तिरस्कारः अपमान Disgrace / Insult
वाप्याम् दीर्घकूपिकायाम् बावड़ी में In the stepped-well
अलम् पर्याप्तम् / वृथा व्यर्थ / बस Enough / Useless
सोल्लासम् हर्षसहितम् / सहर्षम् प्रसन्नतापूर्वक Joyfully
पुनरेति पुनः आगच्छति वापस आता है Comes back
भेकाः मण्डूकाः मेंढक Frogs

व्याकरण-बोधः (इदम् अवधेयम्)

धातवः मूलरूपाणि च (धातु पद)

पठति = मूल धातुः 'पठ्'

निवसन्ति = नि + वस् | भवन्ति = भू (भव्)

अवदत् = वद् | अपृच्छत् = प्रच्छ (पृच्छ्) | गच्छति = गम् (गच्छ्)

क्त्वा / ल्यप् प्रत्ययः (पूर्वकालिकक्रिया)

पाठे ज्ञात्वा, नत्वा, आगत्य, प्रविश्य इत्यादीनि पदानि प्रयुक्तानि सन्ति। एतानि पूर्वकालिकक्रियां बोधयन्ति।

ज्ञात्वा = जानकर / After knowing

नत्वा = प्रणाम करके / After saluting

आगत्य = आकर / After coming

प्रविश्य = प्रवेश करके / After entering

अभ्यास-कार्यम् : एकपदेन उत्तरत

क. गङ्गाम् उभयतः के आसन् ?
उत्तरः ग्रामाः (वृक्षाः)
ख. कूपे कः निवसति स्म ?
उत्तरः गङ्गदत्तः (मण्डूकः)
ग. गङ्गदत्तस्य दुर्व्यवहारेण के रुष्टाः अभवन् ?
उत्तरः प्रमुखाः भेकाः
घ. कूपात् बहिः आगत्य गङ्गदत्तः कस्य समीपं गतः ?
उत्तरः सर्पस्य (नागराजस्य)
ङ. सर्वान् भेकान् कः अभक्षयत् ?
उत्तरः सर्पः

अभ्यास-कार्यम् : रिक्तस्थानानि पूरयत

(अ) मंजूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत:

[विना, बहिः, प्रतिदिनम्, पुनः, क्व, ततः]

क. परिश्रमं विना न सुखम् ।

ख. सर्पः ततः पलायितः ।

ग. छात्रः प्रतिदिनम् विद्यालयं गच्छति ।

घ. क्व ते निवासः ?

ङ. वर्षाकाले बहिः मा गच्छ ।

च. गङ्गदत्तः कूपम् न पुनः एति।

(ब) कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत:

क. मार्गम् उभयतः वृक्षाः भवन्ति । (मार्गम्, मार्गे, मार्गस्य)

ख. वर्षाकाले गृहात् बहिः गन्तुं न शक्यम् । (गृहस्य, गृहात्, गृहे)

ग. दुष्टेन सह गमनं न युक्तम् । (दुष्टेन, दुष्टस्य, दुष्टेभ्यः)

अभ्यास-कार्यम् : मेलनम् (समानार्थक पदानि)

क-स्तम्भः ख-स्तम्भः (सही मेल)
क. मण्डूकः भेकाः
ख. सखा मित्रम्
ग. तडागः जलाशयः
घ. अपमानः पराभवः
ङ. रुष्टः क्रुद्धः

क्रियाकलापः एवं नीति-श्लोकः

श्लोकं स्मृत्वा समवयस्कान् श्रावयत चर्चयत च —
बुभुक्षितः किं न करोति पापं,क्षीणो जनाः निष्करुणा भवन्ति।
आख्याहि भद्रे प्रियदर्शनाय, न गङ्गदत्तः पुनरेति कूपम् ।।
संदेशः — आपत्काले अपि दुर्जनस्य साहाय्यं न स्वीकार्यम् ।
(संकट काल में भी दुष्ट व्यक्ति की सहायता नहीं लेनी चाहिए।)

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!