|  | 
| bhagwat chapter 9.1 | 
                राजोवाच
 मन्वन्तराणि सर्वाणि त्वयोक्तानि
श्रुतानि मे ।
 वीर्याणि अनन्तवीर्यस्य हरेस्तत्र
कृतानि च ॥ १ ॥
 योऽसौ सत्यव्रतो नाम राजर्षिः
द्रविडेश्वरः ।
 ज्ञानं योऽतीतकल्पान्ते लेभे
पुरुषसेवया ॥ २ ॥
 स वै विवस्वतः पुत्रो मनुः आसीद् इति
श्रुतम् ।
 त्वत्तस्तस्य सुताः प्रोक्ता
इक्ष्वाकुप्रमुखा नृपाः ॥ ३ ॥
 तेषां वंशं पृथग्ब्रह्मन्
वंशानुचरितानि च ।
 कीर्तयस्व महाभाग नित्यं शुश्रूषतां
हि नः ॥ ४ ॥
 ये भूता ये भविष्याश्च भवन्ति
अद्यतनाश्च ये ।
 तेषां नः पुण्यकीर्तीनां सर्वेषां वद
विक्रमान् ॥ ५ ॥
              
सूत उवाच
 एवं परीक्षिता राज्ञा सदसि
ब्रह्मवादिनाम् ।
 पृष्टः प्रोवाच भगवान् शुकः
परमधर्मवित् ॥ ६ ॥
             
श्रीशुक उवाच
 श्रूयतां मानवो वंशः प्राचुर्येण
परंतप ।
 न शक्यते विस्तरतो वक्तुं वर्षशतैरपि
॥ ७ ॥
 परावरेषां भूतानां आत्मा यः पुरुषः
परः ।
 स एवासीद् इदं विश्वं कल्पान्ते
अन्यत् न किञ्चन॥८॥
 तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः
।
 तस्मिन् जज्ञे महाराज स्वयंभूः
चतुराननः ॥ ९ ॥
 मरीचिः मनसस्तस्य जज्ञे तस्यापि
कश्यपः ।
 दाक्षायण्यां ततोऽदित्यां विवस्वान्
अभवत् सुतः॥१०॥
 ततो मनुः श्राद्धदेवः संज्ञायामास
भारत ।
 श्रद्धायां जनयामास दश पुत्रान् स
आत्मवान् ॥ ११ ॥
 इक्ष्वाकुनृगशर्याति दिष्टधृष्ट
करूषकान् ।
 नरिष्यन्तं पृषध्रं च नभगं च कविं
विभुः ॥ १२ ॥
 अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान्
किल ।
 मित्रावरुणयोः इष्टिं प्रजार्थं
अकरोद् विभुः ॥ १३ ॥
 तत्र श्रद्धा मनोः पत्नी होतारं
समयाचत ।
 दुहित्रर्थं उपागम्य प्रणिपत्य
पयोव्रता ॥ १४ ॥
 प्रेषितोऽध्वर्युणा होता ध्यायन् तत्
सुसमाहितः ।
 हविषि व्यचरत् तेन वषट्कारं गृणन्
द्विजः ॥ १५ ॥
 होतुस्तद् व्यभिचारेण कन्येला नाम
साभवत् ।
 तां विलोक्य मनुः प्राह नाति हृष्टमना
गुरुम् ॥ १६ ॥
 भगवन् किमिदं जातं कर्म वो
ब्रह्मवादिनाम् ।
 विपर्ययं अहो कष्टं मैवं स्याद्
ब्रह्मविक्रिया ॥ १७ ॥
 यूयं मंत्रविदो युक्ताः तपसा
दग्धकिल्बिषाः ।
 कुतः संकल्पवैषम्यं अनृतं विबुधेष्विव
॥ १८ ॥
 निशम्य तद्वचः तस्य भगवान् प्रपितामहः
।
 होतुर्व्यतिक्रमं ज्ञात्वा बभाषे
रविनन्दनम् ॥ १९ ॥
 एतत् संकल्पवैषम्यं होतुस्ते
व्यभिचारतः ।
 तथापि साधयिष्ये ते सुप्रजास्त्वं
स्वतेजसा ॥ २० ॥
 एवं व्यवसितो राजन् भगवान् स महायशाः
।
 अस्तौषीद् आदिपुरुषं इलायाः
पुंस्त्वकाम्यया ॥ २१ ॥
 तस्मै कामवरं तुष्टो भगवान्
हरिरीश्वरः ।
 ददौ इविलाभवत् तेन सुद्युम्नः
पुरुषर्षभः ॥ २२ ॥
 स एकदा महाराज विचरन् मृगयां वने ।
 वृतः कतिपयामात्यैः अश्वं आरुह्य
सैन्धवम् ॥ २३ ॥
 प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान्
।
 दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम्
॥ २४ ॥
 सु कुमातो वनं मेरोः अधस्तात्
प्रविवेश ह ।
 यत्रास्ते भगवान् शर्वो रममाणः सहोमया
॥ २५ ॥
 तस्मिन् प्रविष्ट एवासौ सुद्युम्नः
परवीरहा ।
 अपश्यत् स्त्रियमात्मानं अश्वं च
वडवां नृप ॥ २६ ॥
 तथा तदनुगाः सर्वे आत्मलिङ्ग
विपर्ययम् ।
 दृष्ट्वा विमनसोऽभूवन् वीक्षमाणाः
परस्परम् ॥ २७ ॥
               
राजोवाच
 कथं एवं गुणो देशः केन वा भगवन् कृतः
।
 प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि
नः ॥ २८ ॥
            
श्रीशुक उवाच
 एकदा गिरिशं द्रष्टुं ऋषयस्तत्र
सुव्रताः ।
 दिशो वितिमिराभासाः कुर्वन्तः
समुपागमन् ॥ २९ ॥
 तान् विलोक्य अंबिका देवी विवासा
व्रीडिता भृशम् ।
 भर्तुरङ्गात समुत्थाय नीवीमाश्वथ
पर्यधात् ॥ ३० ॥
 ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं
रममाणयोः ।
 निवृत्ताः प्रययुस्तस्मात्
नरनारायणाश्रमम् ॥ ३१ ॥
 तदिदं भगवान् आह प्रियायाः
प्रियकाम्यया ।
 स्थानं यः प्रविशेदेतत् स वै योषिद्
भवेदिति ॥ ३२ ॥
 तत ऊर्ध्वं वनं तद्वै पुरुषा
वर्जयन्ति हि ।
 सा चानुचरसंयुक्ता विचचार वनाद् वनम्
॥ ३३ ॥
 अथ तां आश्रमाभ्याशे चरन्तीं
प्रमदोत्तमाम् ।
 स्त्रीभिः परिवृतां वीक्ष्य चकमे
भगवान् बुधः ॥ ३४ ॥
 सापि तं चकमे सुभ्रूः सोमराजसुतं
पतिम् ।
 स तस्यां जनयामास पुरूरवसमात्मजम् ॥
३५ ॥
 एवं स्त्रीत्वं अनुप्राप्तः
सुद्युम्नो मानवो नृपः ।
 सस्मार स कुलाचार्यं वसिष्ठमिति
शुश्रुम ॥ ३६ ॥
 स तस्य तां दशां दृष्ट्वा कृपया
भृशपीडितः ।
 सुद्युम्नस्याशयन् पुंस्त्वं उपाधावत
शंकरम् ॥ ३७ ॥
 तुष्टस्तस्मै स भगवान् ऋषये
प्रियमावहन् ।
 स्वां च वाचं ऋतां कुर्वन् इदमाह
विशाम्पते ॥ ३८ ॥
 मासं पुमान् स भविता मासं स्त्री तव
गोत्रजः ।
 इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु
मेदिनीम् ॥ ३९ ॥
 आचार्यानुग्रहात् कामं लब्ध्वा
पुंस्त्वं व्यवस्थया ।
 पालयामास जगतीं नाभ्यनन्दन् स्म तं
प्रजाः ॥ ४० ॥
 तस्योत्कलो गयो राजन् विमलश्च
सुतास्त्रयः ।
 दक्षिणापथराजानो बभूवुः धर्मवत्सलाः ॥
४१ ॥
 ततः परिणते काले प्रतिष्ठानपतिः
प्रभुः ।
 पुरूरवस उत्सृज्य गां पुत्राय गतो
वनम् ॥ ४२ ॥
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां
 संहितायां नवमस्कन्धे प्रथमोध्याऽयः ॥ १ ॥
