bhagwat chapter 9.4 |
श्रीशुक
उवाच
नाभागो नभगापत्यं यं ततं भ्रातरः
कविम् ।
यविष्ठं व्यभजन् दायं
ब्रह्मचारिणमागतम् ॥ १ ॥
भ्रातरोऽभाङ्क्त किं मह्यं भजाम
पितरं तव ।
त्वां ममार्यास्तताभाङ्क्षुः मा
पुत्रक तदादृथाः ॥ २ ॥
इमे अंगिरसः सत्रं आसतेऽद्य सुमेधसः ।
षष्ठं षष्ठं उपेत्याहः कवे मुह्यन्ति
कर्मणि ॥ ३ ॥
तांन् त्वं शंसय सूक्ते द्वे
वैश्वदेवे महात्मनः ।
ते स्वर्यन्तो धनं सत्र
परिशेषितमात्मनः ॥ ४ ॥
दास्यन्ति तेऽथ तान् गच्छ तथा स
कृतवान् यथा ।
तस्मै दत्त्वा ययुः स्वर्गं ते
सत्रपरिशेषणम् ॥ ५ ॥
तं कश्चित् स्वीकरिष्यन्तं पुरुषः
कृष्णदर्शनः ।
उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं
वसु ॥ ६ ॥
ममेदं ऋषिभिः दत्तं इति तर्हि स्म
मानवः ।
स्यान्नौ ते पितरि प्रश्नः पृष्टवान्
पितरं यथा ॥ ७ ॥
यज्ञवास्तुगतं सर्वं उच्छिष्टं ऋषयः
क्वचित् ।
चक्रुर्विभागं रुद्राय स देवः
सर्वमर्हति ॥ ८ ॥
नाभागस्तं प्रणम्याह तवेश किल
वास्तुकम् ।
इत्याह मे पिता ब्रह्मन् शिरसा त्वां
प्रसादये ॥ ९ ॥
यत् ते पितावदद् धर्मं त्वं च सत्यं
प्रभाषसे ।
ददामि ते मन्त्रदृशे ज्ञानं ब्रह्म
सनातनम् ॥ १० ॥
गृहाण द्रविणं दत्तं मत्सत्रे
परिशेषितम् ।
इत्युक्त्वान्तर्हितो रुद्रो भगवान्
सत्यवत्सलः ॥ ११ ॥
य एतत् संस्मरेत् प्रातः सायं च
सुसमाहितः ।
कविर्भवति मंत्रज्ञो गतिं चैव
तथाऽऽत्मनः ॥ १२ ॥
नाभागाद् अंबरीषोऽभूत् महाभागवतः कृती
।
नास्पृशद् ब्रह्मशापोऽपि यं न
प्रतिहतः क्वचित् ॥ १३ ॥
श्रीराजोवाच
भगवन् श्रोतुमिच्छामि राजर्षेः तस्य
धीमतः ।
न प्राभूद् यत्र निर्मुक्तो
ब्रह्मदण्डो दुरत्ययः ॥ १४ ॥
श्रीशुक उवाच
अंबरीषो महाभागः सप्तद्वीपवतीं महीम्
।
अव्ययां च श्रियं लब्ध्वा विभवं
चातुलं भुवि ॥ १५ ॥
मेनेऽतिदुर्लभं पुंसां सर्वं तत्
स्वप्नसंस्तुतम् ।
विद्वान् विभवनिर्वाणं तमो विशति यत्
पुमान् ॥ १६ ॥
वासुदेवे भगवति तद्भक्तेषु च साधुषु
।
प्राप्तो भावं परं विश्वं येनेदं
लोष्टवत् स्मृतम् ॥ १७ ॥
स वै मनः कृष्णपदारविन्दयोः
वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥ १८
॥
मुकुन्दलिंगालयदर्शने दृशौ
तद्भृत्यगात्रस्पर्शेङ्गसंगमम् ।
घ्राणं च तत्पादसरोजसौरभे
श्रीमत् तुलस्या रसनां तदर्पिते ॥
१९ ॥
पादौ हरेः क्षेत्रपदानुसर्पणे
शिरो हृषीकेश पदाभिवन्दने ।
कामं च दास्ये न तु कामकाम्यया
यथोत्तमश्लोक जनाश्रया रतिः ॥ २०
॥
एवं सदा कर्मकलापमात्मनः
परेऽधियज्ञे भगवत्यधोक्षजे ।
सर्वात्मभावं विदधन्महीमिमां
तन्निष्ठविप्राभिहितः शशास ह ॥ २१ ॥
ईजेऽश्वमेधैरधियज्ञमीश्वरं
महाविभूत्योपचितांगदक्षिणैः ।
ततैर्वसिष्ठासितगौतमादिभिः
धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ २२ ॥
यस्य क्रतुषु गीर्वाणैः सदस्या
ऋत्विजो जनाः ।
तुल्यरूपाः चानिमिषा व्यदृश्यन्त
सुवाससः ॥ २३ ॥
स्वर्गो न प्रार्थितो यस्य मनुजैः
अमरप्रियः ।
श्रृण्वद्भिः उपगायद्भिः
उत्तमश्लोकचेष्टितम् ॥ २४ ॥
समर्द्धयन्ति तान् कामाः
स्वाराज्यपरिभाविताः ।
दुर्लभा नापि सिद्धानां मुकुन्दं हृदि
पश्यतः ॥ २५ ॥
स इत्थं भक्तियोगेन तपोयुक्तेन
पार्थिवः ।
स्वधर्मेण हरिं प्रीणन् संगान्
सर्वान् शनैर्जहौ ॥ २६ ॥
गृहेषु दारेषु सुतेषु बन्धुषु
द्विपोत्तमस्यन्दन वाजिवस्तुषु ।
अक्षय्यरत्नाभरणाम्बरादिषु
अनन्तकोशेषु अकरोत् असन् मतिम् ॥ २७ ॥
तस्मा अदाद् हरिश्चक्रं
प्रत्यनीक-भयावहम् ।
एकान्तभक्तिभावेन प्रीतो
भृत्याभिरक्षणम् ॥ २८ ॥
आरिराधयिषुः कृष्णं महिष्या
तुल्यशीलया ।
युक्तः सांवत्सरं वीरो दधार
द्वादशीव्रतम् ॥ २९ ॥
व्रतान्ते कार्तिके मासि त्रिरात्रं
समुपोषितः ।
स्नातः कदाचित् कालिन्द्यां हरिं
मधुवनेऽर्चयत् ॥ ३० ॥
महाभिषेकविधिना सर्वोपस्करसम्पदा ।
अभिषिच्याम्बराकल्पैः
गन्धमाल्यार्हणादिभिः ॥ ३१ ॥
तद्गतान्तरभावेन पूजयामास केशवम् ।
ब्राह्मणांश्च महाभागान्
सिद्धार्थानपि भक्तितः ॥ ३२ ॥
गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां
सुवाससाम् ।
पयःशीलवयोरूप वत्सोपस्करसंपदाम् ॥ ३३
॥
प्राहिणोत् साधुविप्रेभ्यो गृहेषु
न्यर्बुदानि षट् ।
भोजयित्वा द्विजानग्रे स्वाद्वन्नं
गुणवत्तमम् ॥ ३४ ॥
लब्धकामैः अनुज्ञातः पारणायोपचक्रमे ।
तस्य तर्ह्यतिथिः साक्षात् दुर्वासा
भगवानभूत् ॥ ३५ ॥
तं आनर्चातिथिं भूपः प्रत्युत्थान्
आसनार्हणैः ।
ययाचेऽभ्यवहाराय पादमूलमुपागतः ॥ ३६ ॥
प्रतिनन्द्य स तां याच्ञां
कर्तुमावश्यकं गतः ।
निममज्ज बृहद् ध्यायन् कालिन्दीसलिले
शुभे ॥ ३७ ॥
मुहूर्तार्धावशिष्टायां द्वादश्यां
पारणं प्रति ।
चिन्तयामास धर्मज्ञो द्विजैः तद्
धर्मसंकटे ॥ ३८ ॥
ब्राह्मणातिक्रमे दोषो द्वादश्यां
यदपारणे ।
यत्कृत्वा साधु मे भूयाद् अधर्मो वा न
मां स्पृशेत् ॥ ३९ ॥
अम्भसा केवलेनाथ करिष्ये व्रतपारणम् ।
आहुरब्भक्षणं विप्रा हि अशितं नाशितं
च तत् ॥ ४० ॥
इत्यपः प्राश्य राजर्षिः चिन्तयन्
मनसाच्युतम् ।
प्रत्यचष्ट कुरुश्रेष्ठ द्विज आगमनमेव
सः ॥ ४१ ॥
दुर्वासा यमुनाकूलात् कृत आवश्यक आगतः
।
राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं
धिया ॥ ४२ ॥
मन्युना प्रचलद्गात्रो
भ्रुकुटीकुटिलाननः ।
बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥
४३ ॥
अहो अस्य नृशंसस्य श्रियोन्मत्तस्य
पश्यत ।
धर्मव्यतिक्रमं विष्णोः अभक्तस्य
ईशमानिनः ॥ ४४ ॥
यो मां अतिथिं आयातं आतिथ्येन
निमंत्र्य च ।
अदत्त्वा भुक्तवान् तस्य सद्यस्ते
दर्शये फलम् ॥ ४५ ॥
एवं ब्रुवाण उत्कृत्य जटां
रोषप्रदीपितः ।
तया स निर्ममे तस्मै कृत्यां
कालानलोपमाम् ॥ ४६ ॥
तां आपतन्तीं ज्वलतीं असिहस्तां पदा
भुवम् ।
वेपयन्तीं समुद्वीक्ष्य न चचाल
पदान्नृपः ॥ ४७ ॥
प्राग् दिष्टं भृत्यरक्षायां पुरुषेण
महात्मना ।
ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव
पावकः ॥ ४८ ॥
तद् अभिद्रवद् उद्वीक्ष्य स्वप्रयासं
च निष्फलम् ।
दुर्वासा दुद्रुवे भीतो दिक्षु
प्राणपरीप्सया ॥ ४९ ॥
तमन्वधावद्भगवद्रथांगं
दावाग्निः उद्धूतशिखो यथाहिम् ।
तथानुषक्तं मुनिरीक्षमाणो
गुहां विविक्षुः प्रससार मेरोः ॥
५० ॥
दिशो नभः क्ष्मां विवरान् समुद्रान्
लोकान् सपालान् त्रिदिवं गतः सः ।
यतो यतो धावति तत्र तत्र
सुदर्शनं दुष्प्रसहं ददर्श ॥ ५१ ॥
अलब्धनाथः स सदा कुतश्चित्
संत्रस्तचित्तोऽरणमेषमाणः
।
देवं विरिञ्चं समगाद्विधातः
त्राह्यात्मयोनेऽजिततेजसो माम् ॥
५२ ॥
श्रीब्रह्मोवाच
स्थानं मदीयं सहविश्वमेतत्
क्रीडावसाने द्विपरार्धसंज्ञे ।
भ्रूभंगमात्रेण हि संदिधक्षोः
कालात्मनो यस्य तिरोभविष्यति ॥ ५३
॥
अहं भवो दक्षभृगुप्रधानाः
प्रजेशभूतेश सुरेशमुख्याः ।
सर्वे वयं यत् नियमं प्रपन्ना
मूर्ध्न्यर्पितं लोकहितं वहामः ॥
५४ ॥
प्रत्याख्यातो विरिञ्चेन
विष्णुचक्रोपतापितः ।
दुर्वासाः शरणं यातः शर्वं
कैलासवासिनम् ॥ ५५ ॥
श्रीरुद्र उवाच
वयं न तात प्रभवाम भूम्नि
यस्मिन् परेऽन्येऽप्यजजीवकोशाः ।
भवन्ति काले न भवन्ति हीदृशाः
सहस्रशो यत्र वयं भ्रमामः ॥ ५६ ॥
अहं सनत्कुमारश्च नारदो
भगवानजः ।
कपिलो अपान्तरतमो देवलो धर्म आसुरिः ॥
५७ ॥
मरीचिप्रमुखाश्चान्ये सिद्धेशाः
पारदर्शनाः ।
विदाम न वयं सर्वे यन्मायां
माययाऽऽवृताः ॥ ५८ ॥
तस्य विश्वेश्वरस्येदं शस्त्रं
दुर्विषहं हि नः ।
तमेवं शरणं याहि हरिस्ते शं विधास्यति
॥ ५९ ॥
ततो निराशो दुर्वासाः पदं भगवतो ययौ ।
वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः
श्रिया सह ॥ ६० ॥
सन्दह्यमानोऽजितशस्त्रवह्निना
तत्पादमूले पतितः सवेपथुः ।
आहाच्युतानन्त सदीप्सित प्रभो
कृतागसं माव हि विश्वभावन ॥ ६१ ॥
अजानता ते परमानुभावं
कृतं मयाघं भवतः प्रियाणाम् ।
विधेहि तस्यापचितिं विधातः
मुच्येत यन्नाम्न्युदिते नारकोऽपि
॥ ६२ ॥
श्रीभगवानुवाच
अहं भक्तपराधीनो हि अस्वतंत्र इव
द्विज ।
साधुभिर्ग्रस्तहृदयो
भक्तैर्भक्तजनप्रियः ॥ ६३ ॥
नाहं आत्मानमाशासे मद्भक्तैः
साधुभिर्विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां
गतिः अहं परा ॥ ६४ ॥
ये दारागारपुत्राप्तान् प्राणान्
वित्तमिमं परम् ।
हित्वा मां शरणं याताः कथं तान्
त्यक्तुमुत्सहे ॥ ६५ ॥
मयि निर्बद्धहृदयाः साधवः समदर्शनाः ।
वशीकुर्वन्ति मां भक्त्या सत्स्त्रियः
सत्पतिं यथा ॥ ६६ ॥
मत्सेवया प्रतीतं च सालोक्यादि
चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्
कालविद्रुतम् ॥ ६७ ॥
साधवो हृदयं मह्यं साधूनां हृदयं
त्वहम् ।
मदन्यत् ते न जानन्ति नाहं तेभ्यो
मनागपि ॥ ६८ ॥
उपायं कथयिष्यामि तव विप्र श्रृणुष्व
तत् ।
अयं ह्यात्माभिचारस्ते यतस्तं याहि मा
चिरम् ।
साधुषु प्रहितं तेजः प्रहर्तुः
कुरुतेऽशिवम् ॥ ६९ ॥
तपो विद्या च विप्राणां निःश्रेयसकरे
उभे ।
ते एव दुर्विनीतस्य कल्पेते
कर्तुरन्यथा ॥ ७० ॥
ब्रह्मन् तद् गच्छ भद्रं ते नाभागतनयं
नृपम् ।
क्षमापय महाभागं ततः शान्तिर्भविष्यति
॥ ७१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
thanks for a lovly feedback