![]()  | 
| Bhagwat chapter 12.2 | 
              श्रीशुक
उवाच 
 ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया ।
कालेन बलिना राजन् नङ्क्ष्यत्यायुर्बलं स्मृतिः ॥ १ ॥
 वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।
 धर्मन्याय व्यवस्थायां कारणं बलमेव हि
॥ २ ॥
 दाम्पत्येऽभिरुचिर्हेतुः मायैव
व्यावहारिके ।
 स्त्रीत्वे पुंस्त्वे च हि रतिः
विप्रत्वे सूत्रमेव हि ॥ ३ ॥
 लिङ्गं एवाश्रमख्यातौ अन्योन्यापत्ति
कारणम् ।
 अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये
चापलं वचः ॥ ४ ॥
 अनाढ्यतैव असाधुत्वे साधुत्वे दंभ एव
तु ।
 स्वीकार एव चोद्वाहे स्नानमेव
प्रसाधनम् ॥ ५ ॥
 दूरे वार्ययनं तीर्थं लावण्यं
केशधारणम् ।
 उदरंभरता स्वार्थः सत्यत्वे
धार्ष्ट्यमेव हि ॥ ६ ॥
 दाक्ष्यं कुटुंबभरणं यशोऽर्थे
धर्मसेवनम् ।
 एवं प्रजाभिर्दुष्टाभिः आकीर्णे
क्षितिमण्डले ॥ ७ ॥
 ब्रह्मविट्क्षत्रशूद्राणां यो बली
भविता नृपः ।
 प्रजा हि लुब्धै राजन्यैः निर्घृणैः
दस्युधर्मभिः ॥ ८ ॥
 आच्छिन्नदारद्रविणा यास्यन्ति
गिरिकाननम् ।
 शाकमूलामिषक्षौद्र फलपुष्पाष्टिभोजनाः
॥ ९ ॥
 अनावृष्ट्या विनङ्क्ष्यन्ति
दुर्भिक्षकरपीडिताः
 शीतवातातपप्रावृड् हिमैरन्योन्यतः
प्रजाः ॥ १० ॥
 क्षुत्तृड्भ्यां व्याधिभिश्चैव
संतप्स्यन्ते च चिन्तया ।
 त्रिंशद्विंशति वर्षाणि परमायुः कलौ
नृणाम् ॥ ११ ॥
 क्षीयमाणेषु देहेषु देहिनां कलिदोषतः
।
 वर्णाश्रमवतां धर्मे नष्टे वेदपथे
नृणाम् ॥ १२ ॥
 पाषण्डप्रचुरे धर्मे दस्युप्रायेषु
राजसु ।
 चौर्यानृतवृथाहिंसा नानावृत्तिषु वै
नृषु ॥ १३ ॥
 शूद्रप्रायेषु वर्णेषु च्छागप्रायासु
धेनुषु ।
 गृहप्रायेष्वाश्रमेषु यौनप्रायेषु
बन्धुषु ॥ १४ ॥
 अणुप्रायास्वोषधीषु शमीप्रायेषु
स्थास्नुषु ।
 विद्युत्प्रायेषु मेघेषु
शून्यप्रायेषु सद्मसु ॥ १५ ॥
 इत्थं कलौ गतप्राये जने तु खरधर्मिणि
।
 धर्मत्राणाय सत्त्वेन भगवान्
अवतरिष्यति ॥ १६ ॥
 चराचर गुरोर्विष्णोः
ईश्वरस्याखिलात्मनः ।
 धर्मत्राणाय साधूनां जन्म
कर्मापनुत्तये ॥ १७ ॥
 संभलग्राम मुख्यस्य ब्राह्मणस्य
महात्मनः ।
 भवने विष्णुयशसः कल्किः
प्रादुर्भविष्यति ॥ १८ ॥
 अश्वं आशुगमारुह्य देवदत्तं जगत्पतिः
।
 असिनासाधुदमनं अष्टैश्वर्य गुणान्वितः
॥ १९ ॥
 विचरन् आशुना क्षौण्यां
हयेनाप्रतिमद्युतिः ।
 नृपलिङ्गच्छदो दस्यून् कोटिशो
निहनिष्यति ॥२०॥
 अथ तेषां भविष्यन्ति मनांसि विशदानि
वै ।
 वासुदेवाङ्गरागाति
पुण्यगंधानिलस्पृशाम् ।
 पौरजानपदानां वै हतेष्वखिलदस्युषु ॥
२१ ॥
 तेषां प्रजाविसर्गश्च स्थविष्ठः
संभविष्यति ।
 वासुदेवे भगवति सत्त्वमूर्तौ हृदि
स्थिते ॥ २२ ॥
 यदावतीर्णो भगवान्
कल्किर्धर्मपतिर्हरिः ।
 कृतं भविष्यति तदा प्रजासूतिश्च
सात्त्विकी ॥ २३ ॥
 यदा चन्द्रश्च सूर्यश्च तथा
तिष्यबृहस्पती ।
 एकराशौ समेष्यन्ति भविष्यति तदा कृतम्
॥ २४ ॥
 येऽतीता वर्तमाना ये भविष्यन्ति च
पार्थिवाः ।
 ते ते उद्देशतः प्रोक्ता वंशीयाः
सोमसूर्ययोः ॥ २५ ॥
 आरभ्य भवतो जन्म यावत् नन्दाभिषेचनम्
।
 एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम्
॥ २६ ॥
 सप्तर्षीणां तु यौ पूर्वौ दृश्येते
उदितौ दिवि ।
 तयोस्तु मध्ये नक्षत्रं दृश्यते
यत्समं निशि ॥ २७ ॥
 तेनैव ऋषयो युक्ताः तिष्ठन्त्यब्दशतं
नृणाम् ।
 ते त्वदीये द्विजाः काले अधुना
चाश्रिता मघाः ॥ २८ ॥
 विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ
दिवं गतः ।
 तदाविशत् कलिर्लोकं पापे यद् रमते जनः
॥ २९ ॥
 यावत् स पादपद्माभ्यां स्पृशनास्ते
रमापतिः ।
 तावत् कलिर्वै पृथिवीं पराक्रान्तुं न
चाशकत् ॥ ३० ॥
 यदा देवर्षयः सप्त मघासु विचरन्ति हि
।
 तदा प्रवृत्तस्तु कलिः द्वादशाब्द
शतात्मकः ॥ ३१ ॥
 यदा मघाभ्यो यास्यन्ति पूर्वाषाढां
महर्षयः ।
 तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं
गमिष्यति ॥ ३२ ॥
 यस्मिन् कृष्णो दिवं यातः तस्मिन् एव
तदाहनि ।
 प्रतिपन्नं कलियुगं इति प्राहुः
पुराविदः ॥ ३३ ॥
 दिव्याब्दानां सहस्रान्ते चतुर्थे तु
पुनः कृतम् ।
 भविष्यति तदा नॄणां मन आत्मप्रकाशकम्
॥ ३४ ॥
 इत्येष मानवो वंशो यथा सङ्ख्यायते
भुवि ।
 तथा विट्शूद्रविप्राणां तास्ता ज्ञेया
युगे युगे ॥ ३५ ॥
 एतेषां नामलिङ्गानां पुरुषाणां
महात्मनाम् ।
 कथामात्रावशिष्टानां कीर्तिरेव स्थिता
भुवि ॥ ३६ ॥
 देवापिः शान्तनोर्भ्राता
मरुश्चेक्ष्वाकुवंशजः ।
 कलापग्राम आसाते महायोगबलान्वितौ ॥ ३७
॥
 ताविहैत्य कलेरन्ते
वासुदेवानुशिक्षितौ ।
 वर्णाश्रमयुतं धर्मं पूर्ववत्
प्रथयिष्यतः ॥ ३८ ॥
 कृतं त्रेता द्वापरं च कलिश्चेति
चतुर्युगम् ।
 अनेन क्रमयोगेन भुवि प्राणिषु वर्तते
॥ ३९ ॥
 राजन् एते मया प्रोक्ता
नरदेवास्तथापरे ।
 भूमौ ममत्वं कृत्वान्ते हित्वेमां
निधनं गताः ॥ ४० ॥
 कृमिविड् भस्मसंज्ञान्ते राजनाम्नोऽपि
यस्य च ।
 भूतध्रुक् तत्कृते स्वार्थं किं वेद
निरयो यतः ॥ ४१ ॥
 कथं सेयमखण्डा भूः पूर्वैर्मे
पुरुषैर्धृता ।
 मत्पुत्रस्य च पौत्रस्य मत्पूर्वा
वंशजस्य वा ॥ ४२ ॥
 तेजोऽबन्नमयं कायं
गृहीत्वाऽऽत्मतयाबुधाः ।
 महीं ममतया चोभौ हित्वान्तेऽदर्शनं
गताः ॥ ४३ ॥
 ये ये भूपतयो राजन् भुंजते भुवमोजसा ।
 कालेन ते कृताः सर्वे कथामात्राः
कथासु च ॥ ४४ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥

