चौराष्टकम्

Sooraj Krishna Shastri
By -
0
krishna image by AI tool
krishna image by AI tool



व्रजे प्रसिद्धं नवनीतचौरं

     गोपाङ्गनानां च दुकूलचौरम् ।

अनेकजन्मार्जितपापचौरं

    चौराग्रगण्यं पुरुषं नमामि ।।१॥


श्रीराधिकाया हृदयस्य चौरं

     नवाम्बुदश्यामलकान्तिचौरम् ।

पदाश्रितानां च समस्तचौरं

   चौराग्रगण्यं पुरुषं नमामि ॥ २॥


अकिञ्चनीकृत्य पदाश्रितं यः

     करोति भिक्षुं पथि गेहहीनम् ।

केनाप्यहो भीषणचौर ईदृग्-

 दृष्टःश्रुतो वा न जगत्त्रयेऽपि॥ ३॥


यदीय नामापि हरत्यशेषं

    गिरिप्रसारान् अपि पापराशीन्।

आश्चर्यरूपो ननु चौर ईदृग्

 दृष्टः श्रुतो वा न मया कदापि॥४॥


धनं च मानं च तथेन्द्रियाणि

     प्राणांश्च हृत्वा मम सर्वमेव ।

पलायसे कुत्र धृतोऽद्य चौर

 त्वं भक्तिदाम्नासि मयानिरुद्धः।।५॥


छिनत्सि घोरं यमपाशबन्धं

    भिनत्सि भीमं भवपाशबन्धम् ।

छिनत्सि सर्वस्य समस्तबन्धं

 नैवात्मनो भक्तकृतं तु बन्धम्॥६॥


मन्मानसे तामसराशिघोरे

     कारागृहे दुःखमये निबद्धः ।

लभस्व हे चौर! हरे! चिराय

  स्वचौर्यदोषोचितमेव दण्डम्॥७॥


कारागृहे वस सदा हृदये मदीये

मद्भक्तिपाशदृढबन्धननिश्चलः सन्।

त्वां कृष्ण हे!प्रलयकोटिशतान्तरेऽपि

सर्वस्वचौर! हृदयान् न हि मोचयामि ॥ ८॥


॥ इति श्रीबिल्वमङ्गलठाकूरविरचितं चौराष्टकं सम्पूर्णम् ॥

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!