न्याय और वैशेषिक दर्शन के पारिभाषिक पदों का लक्षण और हिन्दी अर्थ

Sooraj Krishna Shastri
By -
0

न्याय और वैशेषिक दर्शन के पारिभाषिक पदों का लक्षण और हिन्दी अर्थ 

यहां पर न्याय-वैशेषिक के पारिभाषिक पदों को एक स्पष्ट तालिका (Table) के रूप में प्रस्तुत कर रहा हूँ :-


क्रम पारिभाषिक पद परिभाषा (संस्कृत) हिन्दी अर्थ / उदाहरण
1 वस्तुसिद्धि लक्षणप्रमाणाभ्यां वस्तुसिद्धिः, न तु प्रतिज्ञामात्रेण। लक्षण और प्रमाण से वस्तु की सिद्धि होती है, केवल कथन से नहीं।
2 विशेषगुणत्वम् जातिमत्वे सति बाह्यैकेन्द्रियमात्रग्राह्यत्वं विशेषगुणत्वम्। जाति से युक्त होकर केवल एक बाह्य इन्द्रिय से ग्राह्य होना।
3 लक्षणम् असाधारणधर्मो लक्षणम् (गोः सास्नादिमत्वम्) – समानासमानजातीयव्यवच्छेदकत्वम्। किसी वस्तु का ऐसा धर्म जो केवल उसी में हो।
4 अव्याप्तिः लक्ष्यैकदेशवृत्तित्वम्। लक्ष्य का केवल एक अंश ही पकड़ना।
5 अतिव्याप्तिः लक्ष्यवृत्तित्वे सति अलक्ष्यवृत्तित्वम्। लक्षित के साथ अलक्षित में भी लागू होना।
6 असम्भवः लक्ष्यमात्रावृत्तित्वम्। केवल लक्ष्यमात्र में ही वर्तना, जो असम्भव हो।
7 द्रव्य-क्षणभाव उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति। नया द्रव्य क्षणभर बिना गुण और क्रिया के रहता है।
8 भ्रान्तिः अतस्मिन् तद्बुद्धिः। जहाँ वह न हो, वहाँ उसकी बुद्धि।
9 तुल्यत्वम् अन्यूनानतिरिक्तव्यक्तिकत्वम्। न कम, न अधिक – समानता।
10 सङ्करः परस्परात्यन्ताभावसमानाधिकरणयोः धर्मयोः एकत्र समावेशः। विरोधी धर्मों का एकत्र होना।
11 सामान्यत्वम् नित्यत्वे सति अनेकसमवेतत्वम्। नित्य होकर अनेक में विद्यमान होना।
12 विशेषत्वम् स्वपरव्यावर्तकस्वभावत्वम्। अपने और पर के बीच भेद करने वाला स्वभाव।
13 समवायत्वम् नित्यसम्बन्धत्वम्। नित्य और अविनाशी सम्बन्ध।
14 कारणत्वम् नियतपूर्ववृत्तित्वम्। कार्य से पूर्व निश्चित रूप से होना।
15 संशयः प्रतिपत्तुः सामान्याश्रयत्वेनावधारिते धर्मिणि विशेषावधारणात्मको यः प्रत्ययः। किसी विशेष के बारे में अनिश्चितता।
16 अभिव्यंग्यत्व-नियमः समानेन्द्रियग्राह्याणां समनियतानाम् एकव्यंजकाभिव्यंग्यत्वनियमः। समान इन्द्रिय से ग्राह्य वस्तुओं का एक-सा अभिव्यक्त होना।
17 सार्वत्रिक नियमः वस्तुस्वभावात् यो हि येन प्रतिबद्धः… स एव तस्य हेतु:। जो सदैव साथ होता है, वही हेतु।
18 एकार्थ-समवायित्वम् एकस्मिन् अर्थे समवायेन वृत्तिमत्वम्। एक ही अर्थ में समवाय से होना।
19 व्याप्तिः हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिसाध्यसामानाधिकरण्यम्। हेतु-साध्य के बीच आवश्यक सम्बन्ध।
20 इन्द्रियम् यद्धि शरीराश्रयं… तदिन्द्रियम्। शरीर से जुड़ा ज्ञानदायक साधन।
21 लक्षणाबीजम् अन्वयानुपपत्तिर्वा तात्पर्यानुपपत्तिर्वा। लक्षणा का कारण।
22 जातिग्रहण-नियमः येनेन्द्रियेण या व्यक्तिः… तेनैव जातिः। जिस इन्द्रिय से व्यक्ति का ज्ञान हो, उसी से जाति का भी।
23 शरीरम् भोक्तुर्भोगायतनम्… शरीरम्। जीव का भोगस्थान।
24 विषयः शरीरेन्द्रियव्यतिरिक्तत्वे… विषयः। इन्द्रियग्रह्य बाह्य वस्तु।
25 परिमाणम् मानव्यवहारासाधारणकारणम्। मापन का विशेष कारण।
26 बुद्धिः सर्वव्यवहारहेतुः ज्ञानम्। व्यवहार का मूल – ज्ञान।
27 विद्या तद्वति तत्प्रकारिकानुभूतिः। यथार्थ ज्ञान।
28 अविद्या तदभाववति तत्प्रकारिकानुभूतिः। मिथ्या ज्ञान।
29 संशयः (२) एकस्मिन् धर्मिणि नानाधर्मप्रकारकं ज्ञानम्। एक वस्तु में विभिन्न धर्मों का संदेह।
30 विपर्ययः अतस्मिन् तद्बुद्धिः। विपरीत ज्ञान।
31 इच्छा स्वार्थं वा परार्थं वा अप्राप्तार्थप्रार्थनम्। पाने की इच्छा।
32 शक्ति पदपदार्थयोः साक्षात् सम्बन्धः। शब्द का प्रत्यक्ष अर्थ सम्बन्ध।
33 लक्षणा पदपदार्थयोः परंपरासम्बन्धः। अप्रत्यक्ष अर्थ सम्बन्ध।
34 आप्तिः अर्थाव्यभिचारित्वम्। नित्य संगति।
35 आकाङ्क्षा येन पदेन विना… तस्याकांक्षा। वाक्य-पूर्णता की अपेक्षा।
36 समवायिकारणम् यत्समवेतमुत्पद्यते। कार्य का आधारभूत कारण।
37 असमवायिकारणम् समवायिकारणे प्रत्यासन्नं कारणम्। अप्रत्यक्ष कारण।
38 निमित्तकारणम् तदुभयभिन्नं कारणम्। सहायक कारण।
39 कार्यतावच्छेदकः यद्धर्मविशिष्टं कार्यं… कार्य को विशेष करने वाला धर्म।
40 कारणतावच्छेदकः यद्धर्मविशिष्टं कारणं… कारण को विशेष करने वाला धर्म।
41 प्रतियोगिता येन सम्बन्धेन यन्नास्ति… अभाव का सम्बन्ध।
42 विषयता विशेष्यता, प्रकारता, संसर्गता। विषयता के तीन प्रकार।
43 शाब्दबोधः खण्ड व अखण्ड रूपेण। शब्दार्थ ज्ञान के दो प्रकार।

न्यायवैशेषिके पारिभाषिकपदानि निर्वचनानि च –

१ लक्षणप्रमाणाभ्यां वस्तुसिद्दि: न तु प्रतिज्ञामात्रेण ।

२ जातिमत्वे सति बाह्यैकेन्द्रियमात्रग्राह्यत्वं विशेषगुणत्वम्।

३ असाधारणधर्मो लक्षणम्(गो: सास्नादिमत्वं लक्षणम्)।

(समानासमानजातीयव्यवच्छेदकत्वम्)

४ लक्ष्यैकदेशवृत्तित्वम् अव्याप्तिः (गो: कपिलत्वम्)।

५ लक्ष्यवृतित्वे सति अलक्ष्यवृत्तित्वम् अतिव्याति:। (गोः शृङ्गित्वम्)।

६ लक्ष्यमात्रावृतित्वमसम्भव: (गोः एकशफवत्त्वम्)।

७ उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति।

८ अतस्मिन् तद्बुद्धिः भ्रान्तिः।

९ अन्यूनानतिरिक्तव्यक्तिकत्वं तुल्यत्वम्।

१० परस्परात्यन्ताभावसमानाधिकरणयो: धर्मयो: एकत्र समावेश: सङ्कर: ।

११ नित्यत्वे सति अनेकसमवेतत्वं सामान्यत्वम् ।

१२ स्वपरव्यावर्तकस्वभावत्वं विशेषत्वम्।

१३ नित्यसंबन्धत्वं समवायत्वम्।

१४ नियतपूर्वंवृत्तित्वं कारणत्वम्।

१५ प्रतिपत्तु: सामान्याश्रयत्वेनावधारिते धर्मिणि विशेषावधारणात्मको य: प्रत्ययो जायते स एव संशय: ।

१६ समानेन्द्रियग्राह्याणां समनियतानाम् एकव्यंजकाभिव्यंग्यत्वनियम:।

१७ वस्तुस्वभावात् यो हि येन प्रतिबद्धस्सन् तद्भावे भवति तदभावे च न भवति स एव तस्य हेतुरिति सार्वत्रिको नियम:।

१८ एकार्थसमवायित्वं चैकस्मिन् अर्थे समवायेन वृत्तिमत्वम्।

१९ हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्ति: ।

२० यद्धि शरीराश्रयं सत् स्वसंयुक्तेऽर्थे ज्ञातुरपरोक्षप्रतीतिसाधनं द्रव्यं तदिन्द्रियमित्युच्यते।

२१ अन्वयानुपपत्तिर्वा तात्पर्यानुपपत्तिर्वा लक्षणाबीजम्।

२२ येनेन्द्रियेण या व्यक्तिर्गृह्यते तेनैव तद्गता जातिरिति।

२३ भोक्तुर्भोगायतनं चेष्टेन्द्रियार्थाश्रयो वा शरीरम्।

२४ शरीरेन्द्रियव्यतिरिक्तत्वे सति आत्मोपयोगसाधनं द्रव्यं विषय: ।

२५ मानव्यवहारासाधारणकारणं परिमाणम्।

२६ सर्वव्यवहारहेतु: ज्ञानं बुद्धिः।

२७ तद्वति तत्प्रकारिकानुभूति: विद्या।

२८तदभाववति तत्प्रकारिकानुभूति: अविद्या ।

२९ एकस्मिन् धर्मिणि नानाधर्मप्रकारकं ज्ञानं संशय:।

३० अतस्मिन् तद्बुध्दि: विपर्यय:।

३१ स्वार्थम् वा परार्थम् वा अप्राप्तार्थप्रार्थनम् इच्छा।

३२ पदपदार्थयो: साक्षात् सम्बन्ध: शक्ति:।

३३ पदपदार्थयो: परंपरासम्बन्ध: लक्षणा।

३४ अर्थाव्यभिचारित्वम् आप्ति:। तया वर्तते इति आप्त:।

३५ येन पदेन विना यस्य पदस्याननुभावकत्वम् तेन पदेन सह तस्याकांक्षा।

३६ यत्समवेतमुत्पद्यते तत्समवायिकारणम्।

३७ समवायिकारणे प्रत्यासन्नं यत्कारणं तदसमवायिकारणम्।

३८ तदुभयभिन्नं कारणं निमित्तकारणम्।

३९ यध्दर्मविशिष्टं कार्यं भवति स धर्म: कार्यतावच्धेदक: घटत्वविशिष्टं कार्यं , घटत्वं कार्यतावच्छेदकं, घटत्वावच्छिन्ना कार्यता

४० यध्दर्मविशिष्टं कारणं भवति स धर्म: कारणतावच्छेदक:। दण्डत्वविशिष्टं कारणं, दण्डत्वं कारणतावच्छेदकं, दण्डत्वावच्छिन्ना कारणता।

४१ येन सम्बन्धेन यन्नास्तीत्यु्च्यते तन्निष्ठा प्रतियोगिता तत्सम्बन्धावच्छिन्ना।

उदाहरणम् --

संयोगसम्बन्धेन घटो नास्ति।

संयोगसम्बन्ध: प्रतियोगितावच्छेदकसम्बन्ध: ।

संयोगसम्बन्धावच्छिन्ना प्रतियोगिता

४२ विषयता त्रिधा – विशेष्यता, प्रकारता, संसर्गताचेति । प्रकारतैव विशेषणता इत्युच्यते।

४३ शाब्दबोधो द्विविध: 🡪 खण्डशाब्दबोध:, अखण्डशाब्दबोधश्चेति

आद्य: - घटमानय इत्यत्र घट पदस्य घटो’र्थ:, द्वितीयाया: कर्मत्वमर्थ:,आङ्पूर्वकनीञ्धातो: आनयनम्, आख्यातस्य कृतिश्चार्थः,एवंरूप: खण्डशाब्दबोध:। द्वितीय: - घटकर्मकानयनानुकूलकृतिमान् चैत्र: इत्याकार:। आद्यस्य शाब्दबोधत्वव्यवहार: गौण: ।

यमते प्रथमान्तार्थमुख्यविशेव्यकशाब्दबोधोऽङ्गीक्रियते। यथा घटमानयेत्यत्र घटकर्मकानयनानुकूलकृतिमान् चैत्र इति। वैयाकरणमते, भावो नाम धात्वर्थ:प्रधानं विशेष्यम्,यथा तत्रैव चैत्रकर्तृकं घटकर्मकमानयनमिति।

मीमांसकमते चाख्यातार्थमुख्यविशेष्यकबोधो’ङ्गीक्रियते, यथा तत्रैव घटकर्मकानयनानुकूला चैत्रसमवेता कृतिरिति।

एतन्मते शक्तिर्लक्षणाचेति वृत्तिर्द्विविधैव न व्यंजनावृत्तिरपि तृतीया अभ्युपेयते, यत: शब्दशक्तिमूलव्यंजनावृत्तिश्शक्त्या, अर्थशक्तिमूलव्यंजनावृत्तिरनुमानेन च चरितार्या भवति , यथा दूरस्था भूधरा रम्या इत्यत्र भूधरपदस्य पर्वतनृपयोस्समाना शक्तिरेवाङ्गीक्रियते, गच्छ गच्छसि चेत्कान्त तत्रैव स्याज्जनिर्ममेत्यादौ इयं कान्ता भर्तृगमनोत्तरकालिकमरणव्यापारवती, एतादृशविलक्षणशब्दप्रयोगकर्तृत्वात् इत्यनुमानेनैवार्थशक्तिमूलव्यंजनया बोध्यस्य मरणरूपार्थस्य बोधनात् वृत्तिर्द्विविधैवेति सिध्दम्।

नानार्थकस्थले सैंधवमानयेत्यादावेव तात्पर्यज्ञानस्यावश्यकता, न सर्वत्र शब्दबोधे तस्यावश्यकतेति केषांचिदाशय:।शाब्दबोधमात्रं प्रति तात्पर्यज्ञानं कारणमिति अन्येषामाशय:।


Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!