Ugc net Sanskrit code 73: ऋग्वेदसंहितायां सर्गविचारः (सृष्टिविज्ञानम्)

Sooraj Krishna Shastri
By -
0

ऋग्वेदसंहितायां सर्गविचारः (सृष्टिविज्ञानम्) अतीव गहनः, वैज्ञानिकः दार्शनिकश्च वर्तते। ऋग्वेदस्य ऋषिभिः जगतः मूलकारणम् अन्वेष्टुं विविधाः कल्पनाः कृताः। अत्र बहुदेववादात् अद्वैतवादं प्रति वैचारिकः विकासः दृश्यते। ऋग्वेदे सर्गप्रक्रिया मुख्यरूपेण नासदीय, पुरुष, हिरण्यगर्भ, विश्वकर्मा प्रभृतिभिः सूक्तैः अवगन्तुं शक्यते।

१. नासदीयसूक्तम् (१०.१२९) - दार्शनिकः अद्वैतवादश्च

इदं सूक्तं सृष्टिविद्यायाः सर्वोच्चं शिखरं मन्यते। अत्र परमेष्ठी प्रजापतिः सृष्टेः मूलम् अन्विष्यति। इदं सूक्तं भारतीयदर्शनस्य, विशेषतः अद्वैतवेदान्तस्य मूलबीजं मन्यते।

दार्शनिकं विश्लेषणम्

  • अनिर्वचनीयता (सद्-असद्-विलक्षणत्वम्): सृष्टेः प्राक् न 'सत्' आसीत् न वा 'असत्'। न मृत्युः आसीत् न वा अमृतम्। सा अवस्था तर्कबुद्धेः परे आसीत्।
  • तमः सलिलं च: आदि-अवस्थायां सर्वत्र अन्धकारः (तमः) आसीत्, सर्वं च अप्रज्ञातं सलिलम् इव आसीत्। वेदान्ते इदमेव 'मूल-अविद्या' अथवा 'माया' इति कथ्यते।
  • 'तदेकम्' (The One Absolute): "अनीदवातं स्वधया तदेकम्" - तत् परमतत्त्वं वायुं विना एव श्वसिति स्म। इदं 'निर्गुण-ब्रह्मणः' द्योतकम् अस्ति।
  • तपः कामश्च: तस्मिन् शून्ये 'तदेकम्' तत्त्वं तपसः महिम्ना अजायत। तस्य मनसि सर्वप्रथमं 'कामः' (सृष्टेः इच्छा) समवर्तत, यत् मनसः रेतः (बीजम्) आसीत्।
  • संशयवादः: अन्ते ऋषिः वदति यत् इयं विसृष्टिः कुतः आगता, तत् को वेद? देवानां उत्पत्तिः अपि सृष्टेः अनन्तरं जाता, अतः परमात्मा अपि तत् जानाति न वा इति सन्देहः अत्र दृश्यते।

मूलमन्त्राः सरलार्थसहिताः

ऋषिः: प्रजापतिः परमेष्ठी | देवता: भाववृत्तम्

१. नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत्।
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम्॥ १॥
अर्थ: सृष्टेः उत्पत्तेः पूर्वं न 'असत्' (अभावः) आसीत्, न च 'सत्' (भावः/दृश्यजगत्) आसीत्। तदानीं न लोकः (रजः) आसीत्, न च तस्मात् परं आकाशः (व्योम) आसीत्। तदा (तत् तत्त्वं) किम् आवृतवान्? कुत्र? कस्य सुखाय (शर्मन्)? किं तदा गहनं गभीरं जलम् (अम्भः) आसीत्? (अर्थात् तदा सर्वं शून्यमिव अनिर्वचनीयम् आसीत्।)
२. न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः।
आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किञ्च॒नास॑॥ २॥
अर्थ: तस्मिन् काले न मृत्युः आसीत्, न च अमृतत्वं (जीवनम्) आसीत्। रात्र्याः दिनस्य च कोऽपि ज्ञानं (प्रकेतः) न आसीत्। तत् एकं (परब्रह्म) वायुं विना (अवातम्) स्वशक्त्या (स्वधया) प्राणिति स्म (चेष्टते स्म)। तस्मात् एकस्मात् तत्त्वात् अतिरिक्तं परं किञ्चिदपि न आसीत्।
३. तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इदम्।
तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म्॥ ३॥
अर्थ: सृष्टेः आरम्भे अन्धकारः (तमः) अन्धकारेण आवृतः आसीत्। इदं सर्वं जगत् चिह्नरहितं (अप्रकेतं) जलमिव (सलिलम्) आसीत्। यत् (ब्रह्म) तुच्छेन (अज्ञानेन/आवरणेन) आवृतम् आसीत्, तत् 'एकं' तपसः महिम्ना (ज्ञानशक्त्या) प्रकटम् अभवत्।
४. काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेत॑: प्रथ॒मं यदासी॑त्।
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा॥ ४॥
अर्थ: सृष्टेः आदौ तस्मिन् (परमात्मनि) 'कामः' (सृष्टेः इच्छा) समवर्तत। एषः कामः एव मनसः प्रथमं रेतः (बीजम्) आसीत्। क्रान्तदर्शिनः ऋषयः (कवयः) स्वहृदये बुद्ध्या (मनीषा) विचार्य असति (अव्यक्ते) सतः (व्यक्तस्य/जगतः) बन्धुं (सम्बन्धं/कारणम्) प्राप्तवन्तः।
५. ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दासी॒३दु॒परि॑ स्वि॑दासी॒३त्।
रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त्॥ ५॥
अर्थ: तेषां (सृष्टि-शक्तीनां) रश्मिः (प्रकाशः) तिर्यक् (तिरश्चीनः) सर्वत्र विस्तृतः अभवत्। (सः रश्मिः) किं अधः आसीत्? उत उपरि आसीत्? तत्र केचन रेतोधाः (बीजस्थाः जीवादयः) आसन्, केचन महिमानः (विराट्-स्वरूपाः) आसन्। अधः स्वधा (भोग्या प्रकृतिः) आसीत्, उपरि प्रयतिः (भोक्ता ईश्वरः/प्रयत्नः) आसीत्।
६. को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः।
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑॥ ६॥
अर्थ: (सृष्टिविषये) कः सत्यं जानाति? कः अत्र प्रकर्षण वक्तुं शक्नोति यत् इयं विविधा सृष्टिः कुतः उत्पन्ना (आजाता)? देवाः तु अस्य जगतः निर्माणस्य (विसर्जनस्य) पश्चात् उत्पन्नाः (अर्वाक्), अतः कः जानाति यत् इयं सृष्टिः कुतः प्रादुर्भूता?
७. इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न।
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑॥ ७॥
अर्थ: इयं सृष्टिः यस्मात् (कारणात्) उत्पन्ना, (तेन ईश्वरेण इयं सृष्टिः) धृता (निर्मिता) वा न वा? (इति सन्देहः)। यो अस्य जगतः अध्यक्षः (स्वामी) सर्वोच्चे आकाशे (परमे व्योमन्) विराजते, (हे अङ्ग!) सः एव (तत् रहस्यं) जानाति, अथवा सोऽपि न जानाति!

२. पुरुषसूक्तम् (१०.९०) - यज्ञीयः सिद्धान्तः

अस्मिन् सूक्ते ऋषिः नारायणः एकस्य 'विराट्-पुरुषस्य' कल्पनां करोति। अत्र सृष्टिः एकस्य 'दैवीय-यज्ञस्य' परिणामः अस्ति। नासदीयसूक्ते यत्र दार्शनिकः विचारः प्रधानः अस्ति, तत्र पुरुषसूक्ते 'यज्ञः' एव सृष्टेः मूलप्रक्रिया इति प्रतिपादितम्।

यज्ञीयं विश्लेषणम्

  • विराट्-स्वरूपम्: सः पुरुषः सहस्रशीर्षा, सहस्राक्षः, सहस्रपात् च अस्ति। सः भूमिं विश्वतः वृत्वा दशाङ्गुलम् अतिरिच्यत।
  • यज्ञात् सृष्टिः: देवैः तस्य आदिपुरुषस्य मानसिकः यज्ञः कृतः। तस्मात् 'सर्वहुतः' यज्ञात् ऋचः, सामानि, छन्दांसि, यजूंषि, पशवः च जातानि।
  • प्राकृतिक-उत्पत्तिः: तस्य मनसः चन्द्रमाः, चक्षोः सूर्यः, मुखाद् इन्द्रः अग्निश्च, प्राणाद् वायुः अजायत।
  • सामाजिक-व्यवस्था: तस्य मुखाद् ब्राह्मणः, बाहूभ्यां क्षत्रियः, ऊरुभ्यां वैश्यः तथा पद्भ्यां शूद्रः अजायत। इदं समाजस्य एकात्मतायाः प्रतीकम्।

मूलमन्त्राः सरलार्थसहिताः

ऋषिः: नारायणः | देवता: पुरुषः

प्रथमानुवाकः (विराट्-पुरुषस्य स्वरूपवर्णनम्)

१. स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम्॥ १॥
अर्थ: सः विराट्-पुरुषः अनन्तशिराः, अनन्तनेत्रः, अनन्तपादः च अस्ति। सः सम्पूर्णं ब्रह्माण्डं (भूमिं) सर्वतः व्याप्य अपि दशाङ्गुलम् (ब्रह्माण्डात् बहिः अपि) अवशिष्टः अस्ति।
२. पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म्।
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति॥ २॥
अर्थ: यत् अतीतम्, यत् भविष्यत् च अस्ति, तत् सर्वं पुरुषः एव। सः अमृतत्वस्य स्वामी अस्ति, यः अन्नेन (दृश्यजगद्रूपेण) वृद्धिं प्राप्नोति।
३. ए॒तावा॑नस्य महि॒मातो॒ ज्यायां॑श्च॒ पूरु॑षः।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि॥ ३॥
अर्थ: अस्य दृश्यमानजगतः विस्तारः तस्य पुरुषस्य केवलं महिमा अस्ति, सः पुरुषः तु एतस्मादपि श्रेष्ठः अस्ति। समस्तपाणिनः तस्य केवलम् एकपाद् (चतुर्थांशः) सन्ति, तस्य त्रिपाद् (तीन भागः) अमृतं सत् द्युलोके स्थितम् अस्ति।
४. त्रि॒पादूर्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑।
ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि॥ ४॥
अर्थ: त्रिपाद् (विराट्) पुरुषः ऊर्ध्वलोके उदितः (स्थितः) अस्ति। तस्य एकः पादः पुनः पुनः अत्र (संसारे) प्रकटीभवति। ततः सः चेतन-अचेतनरूपेण सर्वत्र व्याप्तः अभवत्।

द्वितीयानुवाकः (सृष्टि-यज्ञः)

५. तस्मा॑द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः॥ ५॥
अर्थ: तस्मात् आदिपुरुषात् 'विराट्' अजायत। तस्य विराजः आश्रयेण पुरुषः अजायत। सः उत्पन्नः सन् अतिरिक्तोऽभवत्, तदनन्तरं भूमिं शरीरं च निर्मितवान्।
६. यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत।
व॒सन्तो॑ अ॒स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः॥ ६॥
अर्थ: यदा देवाः पुरुषरूपेण हविषा (मानसिकं) यज्ञं कृतवन्तः, तदा तस्य यज्ञस्य वसन्त-ऋतुः 'आज्यं' (घृतम्), ग्रीष्म-ऋतुः 'इन्धनम्' तथा शरद्-ऋतुः 'हविः' आसीत्।
७. तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॒ पुरु॑षं जा॒तम॑ग्र॒तः।
तेन॑ दे॒वा अय॑जन्त सा॒ध्या ऋष॑यश्च॒ ये॥ ७॥
अर्थ: सृष्टेः आदौ उत्पन्नं तं यज्ञरूपं पुरुषं देवेहिः यज्ञवेदिकायां प्रोक्षितवन्तः। तेन पुरुषेण देवाः, साध्याः, ऋषयः च यज्ञं निष्पन्नवन्तः।

तृतीयानुवाकः (वेदानां प्राणिनां च उत्पत्तिः)

८. तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम्।
प॒शूंस्तांश्च॑क्रे वाय॒व्यािनार॒ण्यान्ग्रा॒म्याश्च॒ ये॥ ८॥
अर्थ: तस्मात् यज्ञात् 'पृषद-आज्यम्' प्राप्तम्। तेन वायुचारिणः (पक्षिणः), वनचारिणः, ग्रामवासिनः (गवादयः) पशवः निर्मिताः।
९. तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे।
छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत॥ ९॥
अर्थ: तस्मात् यज्ञात् ऋग्वेदस्य मन्त्राः (ऋचः), सामवेदस्य मन्त्राः (सामानि) उत्पन्नाः। तस्मात् एव गायत्री-आदि छन्दांसि तथा यजुर्वेदः उत्पन्नः।
१०. तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑॥ १०॥
अर्थ: तस्मात् यज्ञात् अश्वाः, उभयादतः (येषाम् उभयत्र दन्ताः सन्ति), गावः, अजाः, अवयः च उत्पन्नाः।

चतुर्थानुवाकः (वर्ण-व्यवस्था उत्पत्तिः)

११. यत्पुरु॑षं॒ व्य॑दधुः क॒तिधा व्य॑कल्पयन्।
मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते॥ ११॥
अर्थ: (प्रश्नः) यदा देवाः तस्य पुरुषस्य संकल्पं कृतवन्तः, तदा कति प्रकारैः कल्पनां कृतवन्तः? तस्य मुखं किम् आसीत्? बाहू, ऊरू, पादौ च कौ उच्येते?
१२. ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत॥ १२॥
अर्थ: (उत्तरम्) ब्राह्मणः अस्य मुखम् आसीत्। बाहू क्षत्रियः (राजन्यः) कृतः। यत् ऊरू तद् वैश्यः आसीत्। पादाभ्यां शूद्रः उत्पन्नः।

पञ्चमानुवाकः (लोक-रचना)

१३. च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत॥ १३॥
अर्थ: तस्य मनसः चन्द्रमाः, चक्षोः सूर्यः, मुखाद् इन्द्रः तथा अग्निः, प्राणाद् वायुः च अजायत।
१४. नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒कां अ॑कल्पयन्॥ १४॥
अर्थ: तस्य नाभ्याः अन्तरिक्षम्, शिरसः द्यौः, पादाभ्यां भूमिः, श्रोत्रात् दिशः उत्पन्नाः। एवं देवाः लोकान् अकल्पयन्।

उपसंहारः

१५. स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम्॥ १५॥
अर्थ: अस्य यज्ञस्य सप्त परिधयः आसन्। त्रिः सप्त (२१) समिधः आसन्। यदा देवाः इमं मानसं यज्ञं कृतवन्तः, तदा तं विराट्-पुरुषं पशु-रूपेण बद्धवन्तः।
१६. य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः॥ १६॥
अर्थ: अनेन प्रकारेण देवाः यज्ञेन (यज्ञस्वरूपम् ईश्वरं) यज्ञं (यज्ञद्वारा) पूजितवन्तः। तानि एव सृष्टेः प्रथमानि धर्माणि (नियमाः) आसन्। ते महानुभावाः तं नाकं (स्वर्गं/मोक्षपदं) प्राप्तवन्तः, यत्र पुरातनाः साध्याः देवाः निवसन्ति।

३. हिरण्यगर्भसूक्तम् (१०.१२१) - एकेश्वरवादः

अत्र 'हिरण्यगर्भः' (Golden Embryo) सृष्टेः रचयिता पालयिता च वर्णितः।

  • एषः एव पतिः: सृष्टेः आरम्भे हिरण्यगर्भः समवर्तत। सः एव भूतस्य (प्राणिजातस्य) एकमात्रः पतिः आसीत्।
    "हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।"
  • धारणशक्तिः: तेन एव द्यौः उग्रा पृथ्वी च दृढा कृता। सः आत्मदाः बलदाः च अस्ति।
  • उपासना: सूक्तस्य अन्ते प्रश्नः अस्ति- "कस्मै देवाय हविषा विधेम?" अर्थात् तस्य प्रजापतेः अतिरिक्तं कस्य देवस्य पूजां कुर्याम?

मूलमन्त्राः सरलार्थसहिताः

ऋषिः: हिरण्यगर्भः प्राजापत्यः | देवता: क (प्रजापतिः) | छन्दः: त्रिष्टुप्

अस्मिन् सूक्ते प्रजापतेः (परमात्मनः) एकाधिपत्यं वर्णितम् अस्ति। अत्र 'कस्मै देवाय हविषा विधेम' इति प्रश्नेन प्रजापतेः सर्वश्रेष्ठत्वं प्रतिपादितम्।

१. हिर॑ण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ १॥
संस्कृतार्थः: सृष्टेः आरम्भे हिरण्यगर्भः (परमात्मा) समभवत्। सः उत्पन्नानां प्राणिनां (भूतस्य) एकमात्रः स्वामी (पतिः) आसीत्। तेन एव इयं द्यौः (आकाशः) पृथिवी च धृता (धारिता)। तस्मै प्रजापतये (कस्मै देवाय) वयं हविः दद्मः (विधेम)।
२. य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ २॥
संस्कृतार्थः: यः आत्मज्ञानं ददाति (आत्मदा), यः बलं ददाति (बलदा), यस्य आज्ञां (प्रशिषं) सर्वे प्राणिनः देवाः च उपासते (पालयन्ति)। यस्य छाया अमृतम् (मोक्षः) अस्ति, यस्य च छाया मृत्युः अस्ति। तस्मै प्रजापतये देवाय वयं हविषा विधेम।
३. यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ ३॥
संस्कृतार्थः: यः स्वमहिम्ना श्वसताम् (प्राणतः) तथा निमिषताम् (जाग्रताम्) जगतः अद्वितीयः राजा अभवत्। यः अस्य द्विपादां (मनुष्यादीनां) चतुष्पादां (पश्वादीनां) च ईशः (स्वामी) अस्ति। तस्मै प्रजापतये देवाय वयं हविषा विधेम।
४. यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ ४॥
संस्कृतार्थः: यस्य महिम्ना इमे हिमवन्तः (पर्वताः) सन्ति, यस्य महिम्ना नदीभिः (रसया) सह समुद्रः वर्तते इति वदन्ति (आहुः)। इमाः प्रदिशः (दिशाः) यस्य बाहू (भुजे) स्थः। तस्मै प्रजापतये देवाय वयं हविषा विधेम।
५. येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढा येन॒ स्व॑ स्तभि॒तं येन॒ नाकः॑।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ ५॥
संस्कृतार्थः: येन (परमात्मना) द्यौः उग्रा (प्रबला) पृथिवी च दृढा कृता। येन स्वः (स्वर्गः) तथा नाकः (मोक्षधाम/सूर्यः) स्तम्भितः (धृतः)। यः अन्तरिक्षे रजसः (लोकानां/वृष्टिजलस्य) निर्माता (विमानः) अस्ति। तस्मै प्रजापतये देवाय वयं हविषा विधेम।
६. यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने।
यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ ६॥
संस्कृतार्थः: यं (परमात्मानं) रक्षणाय (अवसे) युद्धमानौ (क्रन्दसी) द्यावापृथिव्यौ मनसा पश्यतः। यस्य आधारे सूर्यः उदितः सन् प्रकाशते (विभाति)। तस्मै प्रजापतये देवाय वयं हविषा विधेम।
७. आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम्।
ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ ७॥
संस्कृतार्थः: यदा बृहत्यः आपः (जलानि) गर्भं (हिरण्यगर्भं) दधानाः अग्निं च जनयन्त्यः विश्वम् आगच्छन् (आयन्), तदा देवानां यः एकः असुः (प्राणः) आसीत्, सः समवर्तत। तस्मै प्रजापतये देवाय वयं हविषा विधेम।
८. यश्चि॒दापो॑ महि॒ना प॑र्य॒पश्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम्।
यो दे॒वेष्वधि॑ दे॒व एक॑ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ ८॥
संस्कृतार्थः: यः महिम्ना ताः अपः (जलानि) परितः अपश्यत्, याः (आपः) दक्षं (प्रजापतिं) धारयन्त्यः यज्ञं जनयन्ति स्म। यः देवेषु अद्वितीयः (एकः) देवः आसीत्। तस्मै प्रजापतये देवाय वयं हविषा विधेम।
९. मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑।
यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ ९॥
संस्कृतार्थः: यः पृथिव्याः जनिता (पिता) अस्ति, यः सत्यधर्मा अस्ति, येन द्यौः (आकाशः) निर्मिता (जजान), येन च बृहत्यः आनन्दमय्यः (चन्द्राः) आपः निर्मिताः, सः अस्मान् मा हिंसीत् (नाशं मा करोतु)। तस्मै प्रजापतये देवाय वयं हविषा विधेम।
१०. प्र॑जापते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम्॥ १०॥
संस्कृतार्थः: हे प्रजापते! त्वत् अन्यः कश्चिदपि इमानि सर्वाणि (विश्वा) जातानि (भूतानि) न परि बभूव (न व्याप्नोति/न तिरस्करोति)। वयं यत्कामाः (यया कामनया) तुभ्यं जुहुमः (हविः दद्मः), सा अस्माकं (कामना) पूर्णा अस्तु। वयं धनानां (रयीणाम्) पतयः (स्वामिनः) भवेम (स्याम)।

४. विश्वकर्मासूक्तम् (१०.८१, १०.८२) - वास्तुशिल्पसिद्धान्तः

अत्र परमात्मा एकः 'शिल्पी' (Architect) इव कल्पितः अस्ति। विश्वकर्मा न केवलं शिल्पी, अपितु सः प्रथमः होता (ऋत्विक्) अपि अस्ति। विश्वकर्मासूक्तं भारतीयवास्तुशास्त्रस्य, शिल्पशास्त्रस्य, दर्शनशास्त्रस्य च मूलम् अस्ति।

प्रथमं विश्वकर्मासूक्तम् (१०.८१) - स्रष्टुः प्रक्रिया

ऋषिः: विश्वकर्मा भौवनः | देवता: विश्वकर्मा

१. य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑।
स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथ॒मच्छदव॑राँ॒ आ वि॑वेश॥ १॥
अर्थ: यः अस्माकं पिता, द्रष्टा तथा होता अस्ति, यः इमानि सर्वाणि भुवनानि अग्नौ क्षिप्तवान्, सः ऐश्वर्यम् इच्छन् परवर्तिषु शरीरेषु प्रविष्टवान्।
२. किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त्।
यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः॥ २॥
अर्थ: (तस्य निर्माणकार्यस्य) अधिष्ठानं (आधारः) किं खलु आसीत्? साधनसामग्री किम् आसीत्? यतः सः विश्वकर्मा भूमिं जनयन् आकाशम् अपि प्रकाशितवान्।
३. वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मु॒खो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात्।
सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एकः॑॥ ३॥
अर्थ: सः एकः देवः सर्वतः चक्षुः, सर्वतः मुखः, सर्वतः बाहुः, सर्वतः पादः च अस्ति। सः द्यावापृथिव्यौ जनयन् स्वस्य बाहुभ्यां तथा वायुना संयोजयति।
४. किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न्॥ ४॥
अर्थ: तत् वनं किं खलु आसीत्? सः वृक्षः कः आसीत्? यस्मात् (काष्ठात्) विश्वकर्मणा द्यावापृथिव्यौ तक्षितौ? (अस्य उत्तरं ब्रह्म एव अस्ति। ब्रह्म एव वनं, ब्रह्म एव वृक्षः)।
५. या ते॒ धामा॑नि पर॒मानि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा।
शि॒क्षा सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः॥ ५॥
अर्थ: हे विश्वकर्मन्! तव यानि उत्तमानि, यानि अधमानि, यानि च मध्यमानि स्थानानि सन्ति, तानि हविर्दात्रे (सखिभ्यः) शिक्षय। हे अन्नवन्! त्वं स्वशरीरं वर्धयन् स्वयं यजस्व।
६. वि॒श्वक॑र्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम्।
मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु॥ ६॥
अर्थ: हे विश्वकर्मन्! हविषा वर्धमानः त्वं स्वयं पृथिवीम् आकाशं च यजस्व (निर्महि)। अन्ये शत्रवः मोहं प्राप्नुवन्तु। अत्र अस्माकं रक्षकः त्वमेव अस्तु।
७. वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनोजु॒वं वाजे॑ अ॒द्या हु॑वेम।
स नो॒ विश्वा॑नि॒ हव॑नानि जोष॒द्विश्व॑श॒म्भूरव॑से सा॒धुक॑र्मा॥ ७॥
अर्थ: अद्य वयं रक्षणाय वाचस्पतिं, मनसोऽपि वेगवन्तं विश्वकर्माणं आह्वयामः। सः विश्वशम्भुः तथा साधुकर्मा अस्माकं सर्वाणि हवनानि सेवताम्।

द्वितीयं विश्वकर्मासूक्तम् (१०.८२) - स्रष्टुः स्वरूपम्

अस्मिन् सूक्ते विश्वकर्मणः 'परमेश्वर' रूपं स्पष्टं भवति। सः जलात् (Water Cosmology) प्राक् अपि आसीत्।

१. चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नम्न॑माने।
य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम्॥ १॥
अर्थ: (यः) चक्षुषः पिता, मनसा धीरः अस्ति, सः (सृष्टेः पूर्वं) जलरूपं घृतं (तेजः) उत्पन्नं कृतवान्। यदा एते निश्चले अभवताम्, तदा पूर्वं (सः) आकाशं पृथिवीं च विस्तारयामास।
२. वि॒श्वक॑र्मा वि॒मना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक्।
तेषा॑मि॒ष्टाानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः॥ २॥
अर्थ: विश्वकर्मा विशेष-ज्ञानवान् तथा सर्वव्यापकः अस्ति। सः एव धाता, विधाता तथा परमः द्रष्टा अस्ति। यत्र सप्तऋषीन् परः 'एकम्' (अद्वितीयं तत्त्वं) वदन्ति, तत्र तेषां कामनाः पूर्णतां गच्छन्ति।
३. यो नः॑ पि॒ता ज॒निता॒ यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑।
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं सं॒प्रश्नं॒ भुव॑ना यन्त्य॒न्या॥ ३॥
अर्थ: यः अस्माकं पिता, जनिता, यः विधाता, यः सर्वाणि स्थानानि जानाति। यः एकः एव सन् देवानां नामानि धारयति, तं प्रति एव अन्ये सर्वे प्राणिनः प्रश्नं पृच्छन्तः गच्छन्ति।
४. त आ॒यज॑न्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना।
अ॒सूर्ते सू॒र्ते रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑॥ ४॥
अर्थ: ये प्राचीनाः ऋषयः इमानि भूतानि समकृण्वन्, ते स्तोतारः इव तस्मिन् प्रकाशमये तथा अप्रकाशमये लोके स्थिताः सन्तः, तस्मै हविरूपं धनं समर्पितवन्तः।
५. प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑।
कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑॥ ५॥
अर्थ: यत् आकाशात् परम्, पृथिव्याः परम्, देवेभ्यः असुरेभ्यः च परं वर्तते, तत् किं खलु प्रथमं गर्भम् आपः दधुः? यत्र सर्वे देवाः समगच्छन्त?
६. तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑।
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वानि॒ भुव॑नानि त॒स्थुः॥ ६॥
अर्थ: तम् एव प्रथमं गर्भम् आपः धारितवत्यः। तत् 'एकम्' (अण्डम्) अजस्य (जन्मरहितस्य परमेश्वरस्य) नाभौ अर्पितम् आसीत्, यस्मिन् सर्वाणि भुवनानि स्थितानि आसन्।
७. न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माकमन्त॑रं बभूव।
नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति॥ ७॥
अर्थ: (हे मनुष्याः!) यूयं तं (विश्वकर्माणं) न जानीथ; यतः युष्माकं मध्ये 'अन्यत्' (अविद्या) आगतम् अस्ति। (अतः लोकाः) नीहारेण (अज्ञानेन) आवृताः सन्तः, असुतृपः (प्राणपोषणे रताः), जल्प्याः (व्यर्थभाषिणः) संसारे भ्रमन्ति।

५. अन्ये सृष्टिसिद्धान्ताः

ऋग्वेदसंहितायां प्रमुखसूक्तानाम् अतिरिक्तं सृष्टि-उत्पत्तेः अन्येऽपि केचन महत्त्वपूर्णाः सिद्धान्ताः सन्ति।

१. ऋतस्य सिद्धान्तः (Cosmic Order/Truth) - १०.१९०

ऋग्वेदे 'ऋत' (Rta) इति अत्यन्तं महत्त्वपूर्णं तत्त्वम् अस्ति। सृष्टिः केवलं जडपदार्थानां समूहः नास्ति, अपितु सा एकया 'नियम-शक्त्या' बद्धा अस्ति।

"ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः॥"
अर्थ: प्रदीप्तात् 'तपसः' सर्वप्रथमं 'ऋत' (विश्व-नियमः) तथा 'सत्य' (यथार्थता) अजायत। तदनन्तरं रात्रिः उत्पन्ना, ततः जलमयः समुद्रः (अर्णवः) उत्पन्नः।

२. ब्रह्मणस्पतिः / शब्द-ब्रह्म सिद्धान्तः - १०.७२

अस्मिन् सिद्धान्ते सृष्टिः 'शब्दात्' अथवा 'मन्त्रशक्त्या' उत्पन्ना इति मन्यते। अत्र ब्रह्मणस्पतिः (बृहस्पतिः) सृष्टेः कारणम् अस्ति।

"ब्रह्म॑ण॒स्पति॑रे॒ता सं क॑र्मार इ॒वाध॑मत्।
दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत॥"
अर्थ: यथा लोहकारः लोहं धमति, तथैव ब्रह्मणस्पतिः इमां सृष्टिं रचितवान्। देवानां पूर्वयुगे 'असतः' (अव्यक्तात्) 'सत्' (व्यक्तं जगत्) अजायत।

३. अदितेः सिद्धान्तः (The Infinite/Pantheism) - १.८९

'अदिति' ऋग्वेदस्य एका रहस्यात्मिका देवी अस्ति। सा न केवलं देवानां माता, अपितु 'अनन्ततायाः' (Infinity) प्रतीकम् अस्ति।

"अदि॑ति॒र्द्यौरदि॑ति॒रन्त॑रि॒क्षमदि॑ति॒र्माता स पि॒ता स पु॒त्रः।
विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिजा॒तमदि॑ति॒र्जनि॑त्वम्॥"
अर्थ: अदितिः एव द्यौः, अदितिः एव अन्तरिक्षम्। सा एव माता, सा पिता, सा पुत्रः च। सर्वे देवाः, पञ्च जनाः, यत् उत्पन्नं, यत् भविष्यति, तत् सर्वं अदितिः एव।

४. द्वैतभावः - द्यावापृथिव्यौ

अयं सिद्धान्तः सरलतमः प्राकृतिकश्च अस्ति। यथा जीवजगतः उत्पत्तिः माता-पित्रोः संयोगात् भवति, तथैव विश्वस्य उत्पत्तिः 'द्यौः' (आकाशः - पिता) तथा 'पृथ्वी' (माता) इत्यनयोः संयोगात् अभवत्। तयोः मध्ये वृष्टिः (Rain) रेतसः (Seed) कार्यं करोति।

५. त्वष्टा (The Divine Artisan)

विश्वकर्मा इव 'त्वष्टा' अपि एकः निर्माता देवः अस्ति। सः जीवानां रूपाणि (Forms) रचयति। सः गर्भे स्थितस्य शिशोः अङ्गानां निर्माणं करोति तथा सः 'विश्वरूपः' अस्ति।

निष्कर्षः (Summary)

ऋग्वेदसंहितायां सर्गविचारस्य विकासक्रमः एवं दृश्यते—

  1. जैविकः (Biological): द्यावापृथिव्यौ (माता-पिता)।
  2. यांत्रिकः (Mechanical/Artistic): विश्वकर्मा/त्वष्टा (शिल्पी)।
  3. यज्ञीयः (Sacrificial): पुरुषसूक्तम् (बलिदानम्)।
  4. भाषाशास्त्रीयः (Linguistic): ब्रह्मणस्पतिः (शब्दः)।
  5. दार्शनिकः (Philosophical): नासदीयसूक्तम् (अनिर्वचनीयता), अघमर्षणसूक्तम् (ऋत/तपः)।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!