Sanskrit Avyaya Rules & Examples Class 9 Parishishtam 10 | अव्ययानि (इरावती)

Sooraj Krishna Shastri
By -
0

अव्ययानि (Indeclinables)

परिशिष्टम् १० — इरावती (कक्षा ९)
  • १. अव्यय-परिभाषा एवं श्लोकः (अपरिवर्तनीय-पदानां लक्षणम्)
  • २. स्थान-दिशा-स्थितिवाचक-अव्ययानि (उदाहरण-वाक्यैः सह)
  • ३. लघु-कथा एवं विपरीतार्थक-अव्ययानि (अव्यय-प्रयोगः एवं विलोमपदानि)

१. अव्यय-परिभाषा एवं प्रकाराः

भूमिका: संस्कृतभाषायाँ कानिचन तादृशानि पदानि भवन्ति, येषां रूपं कस्यामपि परिस्थितौ न परिवर्तते। एतानि पदानि अव्ययानि (Indeclinables) इति कथ्यते। स्थान-दिशादि-बोधक-अव्ययानां प्रयोगेण वाक्यरचना अतीव सरला भवति।

अव्यय-लक्षण-श्लोकः

"सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥"

अर्थात: तीनों लिंगों में समान रहने वाला, सभी विभक्तियों में समान रहने वाला तथा सभी वचनों में भी समान रहने वाला— जिस पद का कभी कोई रूप-परिवर्तन न हो, वही पद 'अव्यय' कहलाता है।

१. स्थानवाचक-अव्ययानि (स्थान/स्थिति बोधक)

अत्र (Here): भवान् अत्र उपविशतु। (You sit here.)

तत्र (There): तत्र एकः विशालः वृक्षः अस्ति। (There is a huge tree there.)

सर्वत्र (Everywhere): ईशः सर्वत्र विद्यते। (God is everywhere.)

अन्यत्र (Elsewhere): सः अत्र नास्ति, अन्यत्र गतः। (He is not here, he went elsewhere.)

एकत्र (Together): सर्वे छात्राः एकत्र मिलन्ति। (All students gather together.)

कुत्र (Where): भवतः गृहं कुत्र अस्ति? (Where is your house?)

२. दिशा-स्थितिवाचक-अव्ययानि

उपरि (Above/On top): वृक्षस्य उपरि खगाः कूजन्ति। (Birds are chirping on top of the tree.)

अधः (Below/Under): आसन्दस्य अधः बिडालः सुप्तः अस्ति। (The cat is sleeping under the chair.)

पुरतः (In front of): मम गृहस्य पुरतः उद्यानम् अस्ति। (There is a garden in front of my house.)

पृष्ठतः (Behind): गृहस्य पृष्ठतः कूपः वर्तते। (There is a well behind the house.)

वामतः (To the left): देवालयस्य वामतः नदी वहति। (The river flows to the left of the temple.)

दक्षिणतः (To the right): राजमार्गस्य दक्षिणतः चलतु। (Walk on the right side of the highway.)

२. लघु-कथा एवं विपरीतार्थक-अव्ययानि

लघु-कथा (अव्ययानां व्यावहारिकः प्रयोगः):
एकः काकः अस्ति। सः जलार्थं इतस्ततः भ्रमति। कुत्र अपि जलं नास्ति। सः एकस्य गृहस्य पृष्ठतः गच्छति। तत्र घटः अस्ति। घटस्य अधः लघुप्रस्तराः सन्ति। घटस्य उपरि काकः उपविशति। घटे जलम् अल्पम् आसीत्। सः प्रस्तरान् एकत्र करोति, घटे च क्षिपति। जलम् उपरि आगच्छति। काकः जलं पीत्वा गच्छति।

विपरीतार्थक (विलोम) अव्यय-सारणी

अव्ययपदम् अर्थः (English) विपरीतपदम् (विलोमम्) विपरीतार्थक अर्थः
अत्र यहाँ (Here) तत्र वहाँ (There)
उपरि ऊपर (Above) अधः नीचे (Below)
पुरतः सामने (In front) पृष्ठतः पीछे (Behind)
वामतः बाईं ओर (Left) दक्षिणतः दाहिनी ओर (Right)

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!