Sanskrit Dhaturoop Rules & Path Dhatu Class 9 Parishishtam 9 | धातूरूपपरिचयः (इरावती)

Sooraj Krishna Shastri
By -
0

धातूरूपपरिचयः (क्रियारूपाणि)

परिशिष्टम् ९ — इरावती (कक्षा ९)
  • १. धातूरूपस्य त्रयः स्तम्भाः (लकारः, पुरुषः, वचनम्)
  • २. लट्-लकारः (वर्तमान-कालः) (प्रत्यय-सूत्राणि, 'पठ्' धातुः एवं वाक्यप्रयोगः)
  • ३. लृट्-लकारः (भविष्यत्-कालः) (प्रत्यय-सूत्राणि, 'पठ्' धातुः एवं उदाहरणानि)

१. धातु-परिचयः एवं लट्-लकारः (वर्तमान-कालः)

भूमिका: संस्कृते क्रियापदस्य मूलरूपं 'धातुः' उच्यते। यथा— 'पठति' इति क्रियापदस्य मूलरूपं 'पठ्' (पढ़ना)। यदा एतैः धातुभिः सह काल-पुरुषयोः प्रत्ययस्य योजनं भवति तदा ते एव 'धातुरूपेण' ज्ञायन्ते।

धातूरूपस्य त्रयः स्तम्भाः

१. लकारः (कालाः/भावाः): संस्कृते १० लकाराः भवन्ति, किन्तु व्यवहारे ५ लकाराणां (लट्, लृट्, लङ्, लोट्, विधिलिङ्) प्रयोगः भवति।

२. पुरुषः: प्रथमः पुरुषः (उदा. नमति), मध्यमः पुरुषः (उदा. नमसि), उत्तमः पुरुषः (उदा. नमामि)।

३. वचनम्: एकवचनम्, द्विवचनम्, बहुवचनम् च।

लट्-लकारस्य (वर्तमान-कालस्य) प्रत्ययाः सूत्राणि च

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमः पुरुषः ति (तिप्) तः (तस्) अन्ति (झि)
मध्यमः पुरुषः सि (सिप्) थः (थस्) थ (थ)
उत्तमः पुरुषः आमि (मिप्) आवः (वस्) आमः (मस्)

उदाहरणम् — 'पठ्' धातुः (पढ़ना) : लट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठति (वह पढ़ता/पढ़ती है) पठतः (वे दोनों पढ़ते/पढ़ती हैं) पठन्ति (वे सब पढ़ते/पढ़ती हैं)
मध्यमपुरुषः पठसि (तुम पढ़ते/पढ़ती हो) पठथः (तुम दोनों पढ़ते/पढ़ती हो) पठथ (तुम सब पढ़ते/पढ़ती हो)
उत्तमपुरुषः पठामि (मैं पढ़ता/पढ़ती हूँ) पठावः (हम दोनों पढ़ते/पढ़ती हैं) पठामः (हम सब पढ़ते/पढ़ती हैं)

नोट: चल् (चलना), लिख् (लिखना), खाद् (खाना), हस् (हँसना) इत्यादि-धातूनां रूपाणि अपि समानानि एव भवन्ति।

२. लृट्-लकारः (भविष्यत्-कालः) वाक्यप्रयोगश्च

लृट्-लकारस्य (भविष्यत्-कालस्य) प्रत्ययाः सूत्राणि च

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमः पुरुषः (इ+ष्य/स्य)ति (इ+ष्य/स्य)तः (इ+ष्य/स्य)न्ति
मध्यमः पुरुषः (इ+ष्य/स्य)सि (इ+ष्य/स्य)थः (इ+ष्य/स्य)थ
उत्तमः पुरुषः (इ+ष्य/स्य)आमि (इ+ष्य/स्य)आवः (इ+ष्य/स्य)आमः

उदाहरणम् — 'पठ्' धातुः (पढ़ना) : लृट्-लकारः

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठिष्यति (वह पढ़ेगा/पढ़ेगी) पठिष्यतः (वे दोनों पढ़ेंगे/पढ़ेंगी) पठिष्यन्ति (वे सब पढ़ेंगे/पढ़ेंगी)
मध्यमपुरुषः पठिष्यसि (तुम पढ़ोगे/पढ़ोगी) पठिष्यथः (तुम दोनों पढ़ोगे/पढ़ोगी) पठिष्यथ (तुम सब पढ़ोगे/पढ़ेंगी)
उत्तमपुरुषः पठिष्यामि (मैं पढ़ूँगा/पढ़ूँगी) पठिष्यावः (हम दोनों पढ़ेंगे/पढ़ेंगी) पठिष्यामः (हम सब पढ़ेंगे/पढ़ेंगी)

नोट: चल् (चलना), भू-भव् (होना), खाद् (खाना), हस् (हँसना) इत्येतेषां रूपाणि अपि समानानि एव भवन्ति।

वाक्येषु प्रयोगः (नियमः: कर्तुः क्रियायाश्च वचनपुरुषौ समानौ भवतः)

• प्रथम-पुरुषः: बालकः पठति। (बालक पढ़ता है।) | बालकौ पठतः। (दो बालक पढ़ते हैं।) | बालकाः पठन्ति। (सब बालक पढ़ते हैं।)

• मध्यम-पुरुषः: त्वं पठसि। (तुम पढ़ते हो।) | युवां पठथः। (तुम दोनों पढ़ते हो।) | यूयं पठथ। (तुम सब पढ़ते हो।)

• उत्तम-पुरुषः: अहं पठामि। (मैं पढ़ता हूँ।) | आवां पठावः। (हम दोनों पढ़ते हैं।) | वयं पठामः। (हम सब पढ़ते हैं।)

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!