शिवराजविजयम्
सम्पूर्ण-प्रश्नोत्तर-कोशः (IMPORTANT MCQS)
सामान्य-परिचयः
शिवराजविजयः कीदृशी रचना वर्तते?
ऐतिहासिक-उपन्यासः।
शिवराजविजयस्य प्रणेता (लेखकः) कः?
अम्बिकादत्तव्यासः।
शिवराजविजयः कति भागेषु विभक्तः?
विराम-निःश्वासेषु।
अस्मिन् ग्रन्थे कति विरामाः कति निःश्वासाः च सन्ति?
त्रयो विरामाः, द्वादश निःश्वासाः च।
शिवराजविजयस्य अङ्गीरसः (प्रधानरसः) कः?
वीररसः।
अस्य ग्रन्थस्य उपजीव्यं किम्?
इतिहासप्रसिद्धं वृत्तम्।
शिवराजविजयस्य नायकः कः?
छत्रपति-शिवाजी (शिवराजः)।
अस्मिन् ग्रन्थे किं वर्णितम्?
शिवराजस्य जीवनचरितम्।
अस्य प्रमुखपात्राणां नामानि वद?
शिवाजी, गौरसिंहः, श्यामसिंहः, ब्रह्मचारीगुरुः, योगिराजः, अफजलखानः, शाइस्ताखानः, रघुवीरसिंहः, यवनयुवकः, यशवन्तसिंहः, औरंगजेबः, रसनारी (रोशनआरा) इत्यादयः।
शिवराजविजयस्य रचना कदा अभवत्?
१८७० (सप्तत्युत्तर-अष्टादशशततमे) ख्रीष्टाब्दे।
अस्य ग्रन्थस्य प्रकाशनं कदा कुतः च अभवत्?
१९०१ ख्रीष्टाब्दे, काश्याः (काशीतः)।
संस्कृतवाङ्मयस्य प्रथमः ऐतिहासिक-उपन्यासः कः?
शिवराजविजयम्।
अम्बिकादत्तव्यासस्य प्रियः अलङ्कारः कः?
विरोधाभासः।
अत्र कस्याः रीतेः प्रयोगः जातः?
पाञ्चाली-रीतेः।
अत्र कीदृशस्य समाजस्य वर्णनं विद्यते?
मुघलकालीन-समाजस्य।
कथानकम् (भागः - १)
यवनानां गतिविधि-निरीक्षणाय शिवाजी किं प्रबन्धं कृतवान्?
क्रोशद्वय-अंतराले (दो-दो कोस पर) आश्रमान् न्यर्मापयत्।
बीजापुर-शासकेन शिवराजं योद्धुं कः प्रेषितः?
अफजलखानः।
अफजलखानस्य आगमनसमये शिवाजी कुत्र आसीत्?
प्रतापदुर्गे।
अफजलखानेन कस्याः नद्याः तटे शिविरं स्थापितम्?
भीमानद्याः तटे।
कपट-सन्धिना शिवराजं कः ग्रहीतुम् ऐच्छत्?
बीजापुर-शासकः।
बीजापुर-दरबारस्य पत्रं कः नयति स्म?
एकः यवन-गूढचरः।
ब्राह्मणकन्यायाः अपहरणं केन कृतम्?
यवन-युवकेन।
यवन-युवकः कन्यां किमर्थं तत्याज?
भल्लुकस्य (ऋक्षस्य) आगमनेन।
भल्लुकभयात् स यवनः कम् वृक्षम् आरुरोह?
शाल्मली-वृक्षम्।
यवनात् तां कन्यां कः रक्षितवान्?
ब्रह्मचारि-गुरोः शिष्यौ 'गौरसिंह-श्यामसिंहौ'।
सः यवन-गुप्तचरः केन मारितः?
गौरसिंहेन।
बीजापुरस्य गुप्तसन्देशः कुतः प्राप्तः?
यवनयुवकस्य वस्त्रान्तरालात् गौरसिंहेन।
गुप्तसन्देशं ज्ञात्वा शिवराजेन किं कृतम्?
अफजलखानस्य वञ्चनायै (छलनाय) योजना निर्मिता।
बीजापुरात् सन्धिप्रस्तावं गृहीत्वा कः प्रेषितः?
पण्डित-गोपीनाथः।
अफजलखानेन सह मिलनार्थं कः स्थानः निश्चितः?
प्रतापदुर्गस्य उपत्यकायाम्।
भेदं ज्ञातुं गौरसिंहः कीदृशं वेशं धृत्वा गतवान्?
गायकस्य वेशम्।
शिवाजी कथं अफजलखानं मिलितुं गतवान्?
वस्त्राणाम् अन्तः कवचं, हस्तयोः 'व्याघ्रनखानि' च धृत्वा।
शिवाजी अफजलखानं कथं जघान?
आलिङ्गनसमये तस्य स्कन्धौ ग्रीवां च विदार्य।
रक्षितायाः ब्राह्मणकन्यायाः संरक्षकः कः आसीत्?
एकः वृद्ध-ब्राह्मणः।
सा कन्या का आसीत्?
गौरसिंह-श्यामसिंहयोः भगिनी 'सौवर्णी'।
सः वृद्ध-ब्राह्मणः कः आसीत्?
उदयपुर-जागीरदार-खड्गसिंहस्य पुरोहितः 'देवशर्मा'।
कस्य अनुरोधेन गौरसिंहेन स्ववृत्तान्तः श्रावितः?
ब्रह्मचारि-गुरोः अनुरोधेन।
खड्गसिंहस्य सन्तानाः के आसन्?
गौरसिंहः, श्यामसिंहः, सौवर्णी च।
पित्रोः मरणान्तरं त्रयः अपि कस्य संरक्षणे निवसन्ति स्म?
पुरोहितस्य संरक्षणे।
लुण्ठकैः कौ गृहीतौ?
मृगयार्थं गतौ गौरसिंह-श्यामसिंहौ।
पलायित्वा तौ कुत्र गतौ?
हनुमन्मन्दिरम्।
कस्य साहाय्येन तौ शिवराजेन मिलितौ?
हनुमन्मन्दिरस्य अध्यक्षस्य साहाय्येन।
तौ शिवराजेन कुत्र मिलितौ?
भीमानद्याः तटे।
शिवाजेः आदेशेन तौ कुत्र न्यवसताम्?
ब्रह्मचारि-गुरोः आश्रमे।
पूना-नगरे अधिकारं कृत्वा शिवराजस्य प्रासादे कः वसति स्म?
शाइस्ताखानः।
शिवराजेन 'सिंहदुर्गात्' सन्देशः रघुवीरसिंहद्वारा कस्य पार्श्वे प्रेषितः?
'तोरणदुर्गस्य' अध्यक्षस्य पार्श्वे।
रघुवीरसिंहः कस्य आज्ञया हनुमन्मन्दिरे अतिष्ठत्?
तोरणदुर्ग-अध्यक्षस्य आज्ञया।
देवशर्मा सौवर्णीं नीत्वा कुत्र वसति स्म?
तस्मिन्नेव हनुमन्मन्दिरे।
रघुवीरसिंहः सौवर्णीं कुत्र अपश्यत्?
मन्दिरसमीपस्थ-वाटिकायाम्।
युद्धस्य भविष्यं प्रष्टुं रघुवीरसिंहः कस्य पार्श्वे गतवान्?
देवशर्मणः पार्श्वे।
देवशर्मा कया रघुवीरसिंहस्य कण्ठे 'मालां' कारितवान्?
सौवर्ण्या।
पुरोहितः देवशर्मा किं भविष्यं कथितवान्?
यवनैः सह युद्धे विजयः, आर्यैः सह पराजयः।
शिवाजी केन वेशेन शाइस्ताखानस्य निवासं (पूना) निरीक्षणाय गतवान्?
पण्डित-वेशेन।
सन्देहे सति केन शिवराजस्य अनुधावनं कृतम्?
चाँदखानेन।
तदा शिवराजेन किं कृतम्?
चाँदखानस्य वधः कृतः।
शिवाजी पूना-नगरे कथं प्रविष्टः?
'वरयात्रा' (बारात) इति व्याजेन।
चाँदखानः शाइस्ताखानस्य पुत्रः च केन मारितौ?
रघुवीरसिंहेन।
छिन्न-अङ्गुलिः सन् कः पलायितः?
शाइस्ताखानः।
औरंगजेबस्य पुत्रीं 'रोशनआरां' केन बन्दीकृता?
रघुवीरसिंहेन।
ब्रह्मचारि-गुरोः पुत्रस्य नाम किम्?
वीरेन्द्रसिंहः।
ब्रह्मचारिगुरुणा स्वपुत्रस्य 'वीरेन्द्रस्य' वृत्तान्तः कस्मै कथितः?
गौरसिंहाय।
सौवर्ण्या क्रूरसिंह-कृतस्य अपमानस्य वार्ता कस्मै कथिता?
रघुवीरसिंहाय।
शिवाजेः प्रति प्रेम-प्रकटनं का करोति?
रोशनआरा।
शिवराजेन रोशनआरा कदा स्वीकृता?
यदा पिता (औरंगजेबः) दद्यात् तदा एव।
केन कारणेन शिवाजी मुघलैः सन्धिं कर्तुं विवशः जातः?
जयसिंहस्य आक्रमणेन।
शिवाजी रोशनआरां मुअज्जमं च किमर्थं प्रत्यर्पितवान्?
मुघलैः सह सन्धेः कारणात्।
बीजापुर-दुर्ग-विजये कस्य सहायता आसीत्?
रघुवीरसिंहस्य।
शिवाजेन रघुवीरसिंहः किमर्थं निष्कासितः?
रहमतखान-क्रूरसिंहयोः द्वारा राजद्रोही इति प्रमाणनेन।
शिवाजेः निष्कासनानंतरं रघुवीरसिंहः केन रूपेण उपकारं कृतवान्?
'राधास्वामी' (संन्यासी) वेषेण।
सौवर्ण्याः अपहरणस्य इच्छुकस्य क्रूरसिंहस्य वधः केन कृतः?
रघुवीरसिंहेन (राधास्वामिना)।
कस्य अनुसारेण शिवाजी औरंगजेबस्य सभायां (दिल्ली) उपस्थितः अभवत्?
जयसिंह-सन्धेः अनुसारेण।
तत्र गमनात् शिवाजी केन वारितः (रोका गया)?
राधास्वामिना (रघुवीरसिंहेन)।
औरंगजेबस्य कारागारे कः निरुद्धः (नजरबन्द) अभवत्?
शिवाजी।
तस्मात् पलायने कः साहाय्यम् अकरोत्?
रघुवीरसिंहः।
रघुवीरसिंहाय कः पदः प्रदत्तः?
मण्डलेश्वर-पदम्।
रघुवीरसिंहस्य विवाहः कया सह अभवत्?
सौवर्ण्या सह।
औरंगजेबस्य कारागारात् मुक्तः सन् शिवाजी कुत्र न्यवसत्?
सतारा-नगरे राजधानीं कृत्वा।
शनैः शनैः सम्पूर्ण-महाराष्ट्रस्य अधिकारः कस्य हस्ते जातः?
शिवाजेः।
औरंगजेब-प्रेषितः सेनापतिः 'मोहम्मदखानः' केन पराजितः?
शिवाजी-महाराजेन।
मूलपाठः - ऐतिहासिक-सन्दर्भाः
शिवराजविजयस्य मङ्गलाचरणं कुतः गृहीतम्?
श्रीमद्भागवतपुराणस्य दशमस्कन्धात्।
मङ्गलाचरणं किम् अस्ति?
"विष्णोर्माया भगवती यया सम्मोहितं जगत्" तथा "हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते"।
ग्रन्थस्य आरम्भः कस्य वर्णनेन भवति?
प्रातःकालीन-सूर्यस्य (भगवान् भास्करस्य) वर्णनेन।
विलम्बेन उत्थितं गौरसिंहं पुष्पचयनात् कः वारयति?
श्यामबटुः।
गुरोः (ब्रह्मचारिणः) सन्ध्योपासनायाः सामग्रीं कः आनीतवान्?
श्यामबटुः।
शिवराजविजयस्य मङ्गलाचरणं कीदृशम्?
नमस्कारात्मकं वस्तुनिर्देशात्मकं च।
कदलीदलानि (केले के पत्ते) संयोज्य पुष्पचयनं कः आरभते?
गौरसिंहः।
गौरबटु-श्यामबट्वोः आयुः कियती?
षोडश-वर्षाणि (१६)।
ब्रह्मचारिणः कुटीरं केन आवृतम् आसीत्?
कदलीवनेन।
कुटीरस्य परितः (चारों ओर) किं आसीत्?
पुष्पवाटिका।
कुटीरस्य पूर्वदिशि किं आसीत्?
तडागः (तालाब)।
कुटीरस्य दक्षिणदिशि किं विद्यते?
निर्झर-कन्दरा-युक्तः पर्वतखण्डः।
सप्तवर्षीयां कन्यां सान्त्वयन् गौरबटुः कियत् समयं यापितवान्?
रात्रेः यामत्रयम् (तीन पहर)।
यवनात् तां कन्यां कः रक्षितवान्?
गौरबटुः।
पर्वतकन्दरायां कः समाधिस्थः आसीत्?
योगिराजः।
ग्रामिणः ग्रामप्रधानाश्च कस्य पूजां कुर्वन्ति स्म?
तस्यैव महामुनेः (योगिराजस्य)।
जनाः तं महामुनिं किं मन्यन्ते स्म?
केचित् कपिलं, केचित् लोमशं, केचित् जैगीषव्यं, केचित् मार्कण्डेयम् इति।
योगिराजं शिखरात् अवतरन्तं सर्वप्रथमं कः अपश्यत्?
गौरबटु-श्यामबटू (ब्राह्मणबालकौ)।
आश्रमे आगत्य योगिराजः कुत्र उपविष्टः?
काष्ठासने।
काष्ठासने उपविष्टः योगिराजः कीदृशः प्रतिभाति स्म?
उदयाचलस्थः सूर्यः इव।
ब्रह्मचारि-गुरोः संभाषणसमये कस्याः करुण-क्रन्दनं श्रुतम्?
बालिकायाः।
ब्रह्मचारि-गुरुणा कन्यां शान्तयितुं कः प्रेषितः?
श्यामबटुः।
सर्वप्रथमं क्रन्दनं श्रुत्वा अन्वेषणाय कः प्रेषितः आसीत्?
स्वशिष्याः।
यवन-युवकः कन्यां कुतः अपहृतवान्?
मातुः हस्तात्।
यवनः कन्यां कथं तूष्णीं (चुप) कारयति स्म?
छुरिकां (छूरा) दर्शयित्वा।
भल्लुकभयात् स यवनः कम् वृक्षम् आरुरोह?
शाल्मली-वृक्षम्।
कन्या केन न्यायेन पलाश-कुञ्जे प्रविश्य आश्रमं प्राप्ता?
घुणाक्षर-न्यायेन।
विक्रमादित्यस्य राज्यात् कियत् वर्षं व्यतीतम्?
सप्तदशशत-वर्षाणि (१७००)।
"विक्रमराज्ये ईदृशः उपद्रवः?" इति कः उवाच?
योगिराजः।
ब्रह्मचारिगुरुणा योगिराजाय किं निवेदितम्?
"अद्य वेदाः विदीर्यन्ते, धर्मशास्त्राणि उड्डीयन्ते, पुराणानि पिष्यन्ते, भाष्याणि भृज्ज्यन्ते..." (म्लेच्छ-अत्याचार-वर्णनम्)।
विक्रमादित्येन 'शकानां' विजयं "ह्यः एव" (कल ही) इति कः मन्यते?
योगिराजः।
"भगवन्! भवता ये पुरुषाः दृष्टाः तेषां पञ्चाशत्तमः पुरुषः अपि न दृश्यते" इति केन उक्तम्?
ब्रह्मचारिगुरुणा योगिराजं प्रति।
कः 'युधिष्ठिर-समये' समाधिं कृत्वा 'विक्रम-समये' उत्तिष्ठति स्म, ततः विक्रमसमये समाधिं कृत्वा इदानीं उत्थितः?
योगिराजः।
शिवराजविजयानुसारं 'महमूद-गजनविना' भारतं कतिवारं लुण्ठितम्?
द्वादशवारम् (१२)।
गुजरात-देशस्थं 'सोमनाथ-मन्दिरं' केन ध्वस्तं कृतम्?
महमूद-गजनविना।
गजनविः रत्नानि कुत्र आरोप्य नीतवान्?
शतशः उष्ट्रेषु (सैकड़ों ऊंटों पर)।
सोमनाथस्य कपाटौ (किवाड़) कैः निर्मितौ आस्ताम्?
वैदूर्य-पद्मराग-हीरक-मुक्तादिभिः।
तत्रत्यः महाघण्टा कीदृश्यां शृङ्खलायां लम्बते स्म?
द्विशत-मन-सुवर्ण-शृङ्खलायाम् (२०० मन)।
पुजारिभिः गजनविः कियत् धनं दत्त्वा वारयितुं ईप्सितः?
कोटिद्वय-सुवर्णमुद्राः दत्त्वा।
"अहं मूर्तिविक्रेता न, किन्तु मूर्तिभेत्ता अस्मि" इति कस्य कथनम्?
महमूद-गजनविनः।
महादेवस्य मूर्तिं केन त्रोटिता?
महमूद-गजनविना।
गदाप्रहारेण मूर्तेः कति रत्नानि पतितानि?
अनेक-अरब-पद्म-मुद्रा-मूल्यकानि रत्नानि।
१०८७ संवत्सरे गजनी-देशे केन आक्रमणं कृतम्?
गोरदेशीय-शहाबुद्दीनेन (गोरी)।
१२५० संवत्सरे दिल्लीं केन अवरुद्धम्?
मुहम्मद-गोरी-इत्यनेन।
वाराणस्यां अस्थि-पर्वताः केन निर्मिताः?
मुहम्मद-गोरी-द्वारा।
मुहम्मद-गोरी-राज्यं कुत्र पर्यन्तम् आसीत्?
देहलीतः वाराणसी-पर्यन्तम्।
भारते यवन-शासनस्य बीजारोपणं केन कृतम्?
शहाबुद्दीनेन (गोरी)।
शहाबुद्दीनः दिल्ली-सम्राट् पदे कं स्थापितवान्?
'कुतुबुद्दीन' नामकं क्रीतदासम् (गुलाम)।
कः मुगलशासकः गूढशत्रुः अपि सन् विद्वान् शान्तप्रियश्च आसीत्?
अकबरः।
औरंगजेबेन का उपाधिः धृता?
'आलमगीर' इति।
औरंगजेबेन दक्षिणदेशस्य शासकरूपेण कः प्रेषितः?
शाइस्ताखानः।
विजयपुरस्य अपरं नाम किम्?
बीजापुरम्।
तस्मिन् समये शिवाजी कुत्र आसीत्?
पूना-नगर-निकटे 'सिंहदुर्गे'।
"कार्यं वा साधयेयम्, देहं वा पातयेयम्" इति कस्य प्रतिज्ञा?
शिवराजस्य।
"वीर शिवाजी ! विजयी भव, तव मनोरथाः सिद्धाः सन्तु" इति आशीर्वादः केन प्रदत्तः?
योगिराजेन।
"ईदृशं कदा द्रक्ष्यामि" इति गुरोः प्रश्नस्य योगिराजः किम् उत्तरं दत्तवान्?
"विवाह-समये द्रक्ष्यसि" इति।
अफजलस्य त्रीन् अश्वाान् अश्वारोहिणः च हत्वा पञ्च ब्राह्मणान् मोचयित्वा कः आनीतवान्?
गौरसिंहः।
गृहवाटिकायां कदलीवने कम्पनं केन दृष्टम्?
गौरसिंहेन।
गौरसिंहः खड्गं (तलवार) कुत्र गोपितवान् आसीत्?
कुटीरस्य वलभौ (बल्ली में)।
यवन-युवकस्य आयुः कियती आसीत्?
विंशति-वर्षीया (२०)।
निलीनस्य यवनयुवकस्य वस्त्रं कीदृशम् आसीत्?
नीलवस्त्रं (शिरसि), हरितकञ्चुकः, कटितटे श्यामवस्त्रं च।
श्यामबटुः खड्गं गृहीत्वा द्वारि किमर्थं स्थितः?
कन्यायाः रक्षणार्थम्।
गौरसिंहः यवनयुवकं हत्वा तस्य वस्त्रात् पत्रं निष्कास्य कुत्र प्रविष्टः?
कुटीरे।

TGT PGT ke liye bahut hi upyogi.. aur khas kar mere liye bahut hi upyogi... dhanyawad sir.
जवाब देंहटाएंthank you sir
जवाब देंहटाएं