भागवत माहात्म्य पद्म पुराण अध्याय 4 (गोकर्णोपाख्यान और विप्रमोक्ष) | Srimad Bhagwat Mahatmyam

Sooraj Krishna Shastri
By -
0

श्रीमद्‌भागवतमाहात्म्यम् - चतुर्थोऽध्यायः

सप्ताहकथायां भगवतः प्रादुर्भावः, गोकर्णोपाख्यानारम्भश्च

सूत उवाच
अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिं अलौकिकीम् । निजलोकं परित्यज्य भगवान् भक्तवत्सलः ॥ १ ॥
वनमाली घनश्यामः पीतवासा मनोहरः । काञ्चीकलापरुचिरो लसन् मुकुटकुण्डलः ॥ २ ॥
त्रिभङ्‌गललितश्चारु कौस्तुभेन विराजितः । कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ॥ ३ ॥
A serene and spiritual depiction of the divine emergence of Bhagavan and Gokarna Upakhyana
परमानन्द चिन्मूर्तिः मधुरो मुरलीधरः । आविवेश स्वभक्तानां हृदयानि अमलानि च ॥ ४ ॥
वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः । तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः ॥ ५ ॥
तदा जयजयारावो रसपुष्टिरलौकिकी । चूर्णप्रसून वृष्टिश्च मुहुः शंखरवोऽप्यभूत् ॥ ६ ॥
तत् सभासंस्थितानां च देहगेहात्मविस्मृतिः । दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत् ॥ ७ ॥
अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योऽद्य विलोकितो मया । मूढाः शठा ये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतमा भवन्ति ॥ ८ ॥
अतो नृलोके ननु नास्ति किंचित् चित्तस्य शोधाय कलौ पवित्रम् । अघौघविध्वंसकरं तथैव कथासमानं भुवि नास्ति चान्यत् ॥ ९ ॥
के के विशुद्ध्यन्ति वदन्तु मह्यं सप्ताहयज्ञेन कथामयेन । कृपालुभिर्लोकहितं विचार्य प्रकाशितः कोऽपि नवीनमार्गः ॥ १० ॥
कुमारा ऊचुः
ये मानवाः पापकृतस्तु सर्वदा सदा दुराचाररता विमार्गगाः । क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ ११ ॥
सत्यन हीना पितृमातृदूषकाः तृष्णाकुलाचाश्रमधर्मवर्जिताः । ये दाम्भिका मत्सरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १२ ॥
पञ्चोग्रपापात् छलछद्मकारिणः क्रूराः पिशाचा इव निर्दयाश्च ये । ब्रह्मस्वपुष्टा व्यभिचारकारिणः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १३ ॥
कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वन्ति शठा हठेन ये । परस्वपुष्टा मलिना दुराशयाः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १४ ॥
अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् । यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥ १५ ॥
तुंगभद्रातटे पूर्वं अभूत् पत्तनमुत्तमम् । यत्र वर्णाः स्वधर्मेण सत्यसत्कर्मतत्पराः ॥ १६ ॥
आत्मदेवः पुरे तस्मिन् सर्ववेद विशारदः । श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्करः ॥ १७ ॥
भिक्षुको वित्तवान् लोके तत्प्रिया धुन्धुली स्मृता । स्ववाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्‌भवा ॥ १८ ॥
लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका । शूरा च गृहकृत्येषु कृपणा कलहप्रिया ॥ १९ ॥
एवं निवसतोः प्रेम्णा दंपत्यो रममाणयोः । अर्थाः कामास्तयोरासन् न सुखाय गृहादिकम् ॥ २० ॥
पश्चात् धर्माः समारब्धाः ताभ्यां संतानहेतवे । गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा ॥ २१ ॥
धनार्धं धर्ममार्गेण ताभ्यां नीतं तथापि च । न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम् ॥ २२ ॥
एकदा स तु द्विजो दुःखाद् गृहं त्यक्त्वा वनं गतः । मध्याह्ने तृषितो जातः तडागं समुपेयिवान् ॥ २३ ॥
पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः । मुहूर्तादपि तत्रैव संन्यासी कश्चित् आगतः ॥ २४ ॥
दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् । नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः ॥ २५ ॥
यतिरुवाच
कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी । वद त्वं सत्वरम् मह्यं स्वस्य दुःखस्य कारणम् ॥ २६ ॥
ब्राह्मण उवाच
किं ब्रवीमि ऋषे दुःखं पूर्वपापेन संचितम् । मदीयाः पूर्वजास्तोयं कवोष्णं उपभुञ्जते ॥ २७ ॥
मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः । प्रजादुःखेन शून्योऽहं प्राणान् त्यक्तुं इहागतः ॥ २८ ॥
धिक् जीवितं प्रजाहीनं धिक् गृहं च प्रजां विना । धिक् धनं चानपत्यस्य धिक्कुलं संततिं विना ॥ २९ ॥
पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् । यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत् ॥ ३० ॥
यत्फलं मद्‌गृहायातं तच्च शीघ्रं विनश्यति । निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥ ३१ ॥
इत्युक्त्वा स रुरोदोच्चैः तत्पार्श्वं दुःखपीडितः । तदा तस्य यतेश्चित्ते करुणाभूत् गरीयसी ॥ ३२ ॥
तद्‌भालाक्षरमालां च वाचमायास योगवान् । सर्वं ज्ञात्वा यतिः पश्चात् विप्रं ऊचे सविस्तरम् ॥ ३३ ॥
यतिरुवाच
मुञ्च अज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः । विवेकं तु समासाद्य त्यज संसारवासनाम् ॥ ३४ ॥
श्रुणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम् । सप्तजन्मावधि तव पुत्रो नैव च नैव च ॥ ३५ ॥
संततेः सगरो दुःखं अवाप अङ्‌गः पुरा तथा । रे मुञ्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम् ॥ ३६ ॥
ब्राह्मण उवाच
विवेकेन भवेत्किं मे पुत्रं देहि बलादपि । नो चेत् त्यजाम्यहं प्राणान् त्वदग्रे शोकमूर्छितः ॥ ३७ ॥
पुत्रादिसुखहीनोऽयं संन्यासः शुष्क एव हि । गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः ॥ ३८ ॥
इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपोधनः । चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात् ॥ ३९ ॥
न यास्यसि सुखं पुत्रात् यथा दैवहतोद्यमः । अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम् ॥ ४० ॥
तस्याग्रहं समालोक्य फलमेकं स दत्तवान् । इदं भक्षय पत्‍न्या त्वं ततः पुत्रो भविष्यति ॥ ४१ ॥
सत्यं शौचं दया दानं एकभक्तं तु भोजनम् । वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः ॥ ४२ ॥
एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः । पत्‍न्याः पाणौ फलं दत्त्वा स्वयं यातस्तु कुत्रचित् ॥ ४३ ॥
तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह । अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्ष्यये ॥ ४४ ॥
फलभक्षेण गर्भः स्याद् गर्भेण उदरवृद्धिता । स्वल्पभक्षं ततोऽशक्तिः गृहकार्यं कथं भवेत् ॥ ४५ ॥
दैवाद् धाटी व्रजेद्‌ग्रामे पलायेद्‌गर्भिणी कथम् । शुकवत् निवसेत् गर्भः तं कुक्षेः कथमुत्सृजेत् ॥ ४६ ॥
तिर्यक् चेदागतो गर्भः तदा मे मरणं भवेत् । प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे ॥ ४७ ॥
मन्दायां मयि सर्वस्वं ननान्दा संहरेत् तदा । सत्यशौचादिनियमो दुराराध्यः स दृश्यते ॥ ४८ ॥
लालने पालने दुःखं प्रसूतायाश्च वर्तते । वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः ॥ ४९ ॥
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् । पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम् ॥ ५० ॥
एकदा भगिनी तस्याः तद्‌गृहः स्वेच्छयाऽऽगता । तदग्रे कथितं सर्वं चिन्तेयं महती हि मे ॥ ५१ ॥
दुर्बला तेन दुःखेन ह्यनुजे करवाणि किम् । साब्रवीत् मम गर्भोस्ति तं दास्यामि प्रसूतितः ॥ ५२ ॥
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् । वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम् ॥ ५३ ॥
षण्मासिको मृतो बाल इति लोको वदिष्यति । तं बालं पोषयिष्यामि नित्यमागत्य ते गृहे ॥ ५४ ॥
फलमर्पय धेन्वै त्वं परीक्षार्थं तु साम्प्रतम् । तत् तद् आचरितं सर्वं तथैव स्त्रीस्वभावतः ॥ ५५ ॥
अथ कालेन सा नारी प्रसूता बालकं तदा । आनीय जनको बालं रहस्ये धुन्धुलीं ददौ ॥ ५६ ॥
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः । लोकस्य सुखमुत्पन्नं आत्मदेव प्रजोदयात् ॥ ५७ ॥
ददौ दानं द्विजातिभ्यो जातकर्म विधाय च । गीतवादित्रघोषोऽभूत् तद्‌द्वारं मंगलं बहु ॥ ५८ ॥
भर्तुरग्रेऽब्रवीत् वाक्यं स्तन्यं नास्ति कुचे मम । अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम् ॥ ५९ ॥
मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते । तामाकार्य गृहे रक्ष सा तेऽर्भं पोषयिष्यति ॥ ६० ॥
पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे । पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितन् ॥ ६१ ॥
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् । सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम् ॥ ६२ ॥
दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे । मत्वा‌ऽऽश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः ॥ ६३ ॥
भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत । धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम् ॥ ६४ ॥
न ज्ञातं तद्‍रहस्यं तु केनापि विधियोगतः । गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत् ॥ ६५ ॥
कियत्कालेन तौ जातौ तरुणौ तनयावुभौ । गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः ॥ ६६ ॥
स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्जितः । दुष्परिग्रहकर्ता च शवहस्तेन भोजनम् ॥ ६७ ॥
चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः । लालनायार्भकान् धृत्वा सद्यः कूपे न्यपातयत् ॥ ६८ ॥
हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः । चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः ॥ ६९ ॥
तेन वेश्याकुसंगेन पित्र्यं वित्तं तु नाशितम् । एकदा पितरौ ताड्य पात्राणि स्वयमाहरत् ॥ ७० ॥
तत्पिता कृपणः प्रोच्चैः धनहीनो रुरोद ह । वध्यतवं तु समीचीनं कुपुत्रो दुःखदायकः ॥ ७१ ॥
क्व तिष्ठामि क्व गच्छामि को मे दुःखं व्यपोहयेत् । प्राणान् त्यजामि दुःखेन हा कष्टं मम संस्थितम् ॥ ७२ ॥
तदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः । बोधयामास जनकं वैराग्यं परिदर्शयन् ॥ ७३ ॥
असारः खलु संसारो दुःखरूपी विमोहकः । सुतः कस्य धनं कस्य स्नेहवान् ज्वलतेऽनिशम् ॥ ७४ ॥
न चेन्द्रस्य सुखं किंचित् न सुखं चक्रवर्तिनः । सुखमस्ति विरक्तस्य मुनेः एकान्तजीविनः ॥ ७५ ॥
मुञ्च अज्ञानं प्रजारूपं मोहतो नरके गतिः । निपतिष्यति देहोऽयं सर्वं त्यक्त्वा वनं व्रज ॥ ७६ ॥
तद्वाक्यं तु समाकर्ण्य गन्तुकामः पिताब्रवीत् । किंकर्तव्यं वने तात तत्त्वं वद सविस्तरम् ॥ ७७ ॥
अन्धकूपे स्नेहपाशे बद्धः पंगुरहं शठः । कर्मणा पतितो नूनं मामुद्धर दयानिधे ॥ ७८ ॥
देहेऽस्थिमांसरुधिरेऽभिमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुञ्च । पश्यानिशं जगदिदं क्षणभंगनिष्ठं वैराग्यरागरसिको भव भक्तिनिष्ठः ॥ ७९ ॥
धर्म भजस्व सततं त्यज लोकधर्मान् सेवस्व साधुपुरुषान् ‍जहि कामतृष्णाम् । अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा सेवाकथारसमहो नितरां पिब त्वम् ॥ ८० ॥
एवं सुतोक्तिवशतोऽपि गृहं विहाय यातो वनं स्थिरमतिर्गतषष्टिवर्षः । युक्तो हरेरनुदिनं परिचर्ययासौ श्रीकृष्णमाप नियतं दशमस्य पाठात् ॥ ८१ ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!