Shree Shukla Yajurvediya Rudrashtadhyayi Sस्वर Path | श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी| pdf download|

Sooraj Krishna Shastri
By -
0

Shree Shukla Yajurvediya Rudrashtadhyayi Sस्वर Path | श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी|pdf download|

श्रीशुक्लयजुर्वेदीय सस्वर रुद्राष्टाध्यायी

      ॥ ॐ श्री गणेशाय नमः ॥

             अथ ध्यानम् -

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु चन्द्रवतंसम् 

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।

पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृतिं वसानम् 

विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ २॥

Shree Shukla Yajurvediya Rudrashtadhyayi Sस्वर Path | श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी
Shree Shukla Yajurvediya Rudrashtadhyayi Sस्वर Path | श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी


अथ प्रथमोऽध्यायः

हरिः॑ ॐ ग॒णानां॑ त्वा ग॒णप॑तिꣳ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिꣳ हवामहे

नि॒धीनां॑ त्वा॑ निधि॒पति॑ꣳ हवामहे वसो मम ।

आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥ १॥


गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह ।

बृ॒ह॒त्युष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ॥ २॥


द्विप॑दा॒याश्चतु॑ष्पदा॒स्त्रिप॑दा॒याश्च॒षट्प॑दाः ।

विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ॥ ३॥


स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः ।

पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो न र॒श्मीन् ॥ ४॥


        शिवसङ्कल्पसूक्तम् ।

यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।

दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ १॥


येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ ।

यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ २॥


यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।

यस्मा॒न्नऽऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ३॥


येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।

येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ४॥


यस्मि॒न्नृचः॒ साम॒ यजू॑ꣳषि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।

यस्मि॑ꣳश्चि॒त्तꣳ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ५॥


सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव ।

हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ६॥


इति रुद्रे प्रथमोऽध्यायः ॥  १॥


अथ द्वितीयोऽध्यायः


        (पुरुषसूक्तम् ।)

          हरिः॑ ॐ

स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।

स भूमि॑ꣳ स॒र्वतः॑ स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥ १॥


पुरु॑ष ए॒वेदꣳ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॒म् ।

उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥ २॥


ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।

पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ ३॥


त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ ।

ततो॒ विष्व॒ङ् व्य॒क्रामत्साशनानश॒ने अ॒भि ॥ ४॥


ततो॑ वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।

स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ ५॥


तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् ।

प॒शूँस्ताँश्च॑क्रे वाय॒व्या॒नार॒ण्या ग्रा॒म्याश्च॒ ये ॥ ६॥


तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे ।

छन्दा॑ꣳसि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥ ७॥


तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।

गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥ ८॥


तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।

तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥ ९॥


यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।

मुखं॒ किम॑स्यासी॒त् किं बा॒हू किमू॒रू पादा॑ उच्येते ॥ १०॥


ब्रा॒ह्म॒णो॒ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॒ कृ॒तः ।

ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्याꣳ शू॒द्रो अ॑जायत ॥ ११॥


च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।

श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ॥ १२॥


नाभ्या॑ आसीद॒न्तरि॑क्षꣳ शी॒र्ष्णो द्यौः॒ सम॑वर्तत ।

प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ२ ॥ अ॑कल्पयन् ॥ १३॥


यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।

व॒स॒न्तो॒ऽस्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ १४॥


स॒प्तास्या॑सन्परि॒धय॒स्त्रिःस॒प्त स॒मिधः॑ कृ॒ताः ।

दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न् पुरु॑षं प॒शुम् ॥ १५॥


य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।

ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ १६॥


अ॒द्भ्यः सम्भृ॑तः पृथिव्यै॒ रसा॑च्च वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे॑ ।

तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ॥ १७॥


वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।

तमे॒व वि॑दि॒त्वाऽति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥ १८॥


प्र॒जाप॑तिश्च॒रति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते ।

तस्य॒ योनिं॒ परि॑पश्यन्ति॒ धीरा॒स्तस्मि॑न्ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ॥ १९॥


यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः ।

पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ २०॥


रु॒चं ब्रा॒ह्म्यं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् ।

यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न्वशे॑ ॥ २१॥


श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्त॑म् ।

इ॒ष्णन्नि॑षाणा॒मुं म॑ इषाण सर्वलो॒कं म॑ इषाण ॥ २२॥


इति रुद्रे द्वितीयोऽध्यायः ॥  २॥


अथ तृतीयोऽध्यायः 


(अप्रतिरथसूक्तम् ।)

          हरि॑ ॐ

आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।

सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥ १॥


सं॒क्रन्द॑नेनाऽनिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।

तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥ २॥


स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सꣳस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।

स॒ꣳसृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥ ३॥


बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हामित्रा॑ँ२ अप॒बाध॑मानः ।

प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ ४॥


ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।

अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥ ५॥


गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।

इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ꣳ सखायो॒ अनु॒ सꣳर॑भध्वम् ॥ ६॥


अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ ।

दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्योऽस्माक॒ꣳ सेना॑ अवतु॒ प्र यु॒त्सु ॥ ७॥


इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।

दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥ ८॥


इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ꣳ शर्ध॑ उ॒ग्रम् ।

म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ ९॥


उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मना॑ꣳसि ।

उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ॥ १०॥


अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।

अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ२ उ॑ देवा अवता॒ हवे॑षु ॥ ११॥


अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।

अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥ १२॥


अव॑सृष्टा॒ परा॑पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिते ।

गच्छा॒मित्रा॒न्प्रप॑द्यस्व॒ मामीषाङ्कञ्चनोच्छि॑षः ॥ १३॥


प्रेता॒ जय॑ता नर॒ इन्द्रो॑ वः॒ शर्म॑ यच्छतु ।

उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥ १४॥


असौ॒ या सेना॑ मरुतः॒ परे॑षाम॒भ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना ।

तां गू॑हत॒ तम॒साऽप॑व्रतेन॒ यथा॒मी अ॒न्यो अ॒न्यं न जा॒नन् ॥ १५॥


यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।

तन्न॒ इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ १६॥


मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॒नानु॑वस्ताम् ।

उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥ १७॥


इति रुद्रे तृतीयोऽध्यायः ॥ ३॥


अथ चतुर्थोऽध्यायः


(सौरसूक्तम् / सूर्यसूक्तम् / मित्रसूक्तम् / मैत्रसूक्तम् ।)

          हरिः॑ ॐ

वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।

वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥ १॥


उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।

दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ २॥


येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒२ ॥ अनु॑ ।

त्वं व॑रुण॒ पश्य॑सि ॥ ३॥


दैव्या॑वध्वर्यू॒ आग॑त॒ꣳ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञꣳ सम॑ञ्जाथे ।

तं प्र॒त्नथा॒ऽयं वे॒नश्चि॒त्रं दे॒वाना॑म् ॥ ४॥


तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षद॑ꣳस्व॒र्विद॑म् ।

प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥ ५॥


अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।

इ॒मम॒पाꣳस॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ ६॥


चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।

आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षꣳ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ ७॥


आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।

अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥ ८॥


यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।

सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥ ९॥


त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।

विश्व॒मा भा॑सि रोच॒नम् ॥ १०॥


तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ꣳ सं ज॑भार ।

य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ ११॥


तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।

अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥ १२॥


बण्म॒हाँ२ ॥ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ२ ॥ अ॑सि ।

म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ ॥ अ॑सि ॥ १३॥


बट् सू॑र्य॒ श्रव॑सा म॒हाँ२ ॥ अ॑सि । स॒त्रा दे॑व म॒हाँ२ ॥ अ॑सि ।

म॒ह्ना दे॒वाना॑मसु॒र्यः॒ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥ १४॥


श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।

वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥ १५॥


अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरꣳह॑सः पिपृ॒ता निर॑व॒द्यात् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १६॥


आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।

हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥ १७॥


इति रुद्रे चतुर्थोऽध्यायः ॥ ४॥


अथ पञ्चमोऽध्यायः


        (रुद्रसूक्तम् / नीलसूक्तम् ।)

          हरिः॑ ॐ

नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ ।

बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ १॥


या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।

तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ॥ २॥


यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे ।

शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ꣳसीः॒ पुरु॑षं॒ जग॑त् ॥ ३॥


शि॒वेन॒ वच॑सा त्वा गिरि॒शाऽच्छा॑वदामसि ।

यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ ४॥


अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।

अही॑ꣳश्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राचीः॒ परा॑सुव ॥ ५॥


असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ ।

ये चै॑नꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ हेड॑ ईमहे ॥ ६॥


असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।

उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ॥ ७॥


नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ ।

अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑ ॥ ८॥


प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् ।

याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ॥ ९॥


विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ ॥ उ॒त ।

अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ॥ १०॥


या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।

तया॒स्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ॥ ११॥


परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ।

अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥ १२॥


अ॒व॒तत्य॒ धनु॒ष्ट्वꣳ सह॑स्राक्ष॒ शते॑षुधे ।

नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥ १३॥


नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ ।

उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥ १४॥


मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।

मा नो॑ वधीः पि॒तरं॒ मोत॑ मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ॥ १५॥


मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।

मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ॥ १६॥


नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒

नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒

नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒

नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ॥ १७॥


नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒

नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒

नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒

नमः॑ सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नमः॑ ॥ १८॥


नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒

नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒

नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒

नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमः॑ ॥ १९॥


नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒

नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒

नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒

नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमः॑ ॥ २०॥


नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒

नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒

नमः॑ सृका॒यिभ्यो॒ जिघा॑ꣳसद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒

नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ॥ २१॥


नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒

नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒

नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒

नम॑ आ॒यच्छ॒द्भ्योऽस्य॑द्भ्यश्च वो॒ नमः॑ ॥ २२॥


नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒

नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒

नमः॒ शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒

नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ॥ २३॥


नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒

नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒

नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒

नम॒ उग॑णाभ्यस्तृꣳह॒तीभ्य॑श्च वो॒ नमः॑ ॥ २४॥


नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒

नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒

नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒

नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ॥ २५॥


नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒

नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒

नमः॑ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒

नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नमः॑ ॥ २६॥


नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒

नमः॒ कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒

नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒

नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ॥ २७॥


नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒

नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒

नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒

नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ॥ २८॥


नमः॑ कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒

नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒

नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒

नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ॥ २९॥


नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒

नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒

नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒

नमोऽग्र्या॑य च प्रथ॒माय॑ च ॥ ३०॥


नम॑ आ॒शवे॑ चाजि॒राय॑ च॒

नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒

नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒

नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ॥ ३१॥


नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒

नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒

नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒

नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ॥ ३२॥


नमः॒ सोभ्या॑य च प्रतिस॒र्या॒य च॒

नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒

नमः॒ श्लोक्या॑य चावसा॒न्या॒य च॒

नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ॥ ३३॥


नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒

नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒

नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒

नमः॒ शूरा॑य चावभे॒दिने॑ च ॥ ३४॥


नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒

नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒

नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒

नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ॥ ३५॥


नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒

नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒

नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒

नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ॥ ३६॥


नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒

नमः॒ काट्या॑य च॒ नीप्या॑य च॒

नमः॒ कुल्या॑य च सर॒स्या॒य च॒

नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ॥ ३७॥


नमः॒ कूप्या॑य चाव॒ट्या॑य च॒

नमो॒ वीध्र्या॑य चात॒प्या॒य च॒

नमो॒ मेघ्या॑य च विद्यु॒त्या॒य च॒

नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ॥ ३८॥


नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒

नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒

नमः॒ सोमा॑य च रु॒द्राय॑ च॒

नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ॥ ३९॥


नमः॑ श॒ङ्गवे॑ च पशु॒पत॑ये च॒

नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒

नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒

नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒

नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ॥ ४०॥


नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒

नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒

नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ ४१॥


नमः॒ पार्या॑य चावा॒र्या॒य च॒

नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒

नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒

नमः॒ शष्प्या॑य च॒ फेन्या॑य च ॥ ४२॥


नमः॑ सिक॒त्या॒य च प्रवा॒ह्या॒य च॒

नमः॑ किꣳशि॒लाय॑ च क्षय॒णाय॑ च॒

नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒

नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ॥ ४३॥


नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒

नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒

नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒

नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च ॥ ४४॥


नमः॒ शुष्क्या॑य च हरि॒त्या॒य च॒

नमः॑ पाꣳस॒व्या॒य च रज॒स्या॒य च॒

नमो॒ लोप्या॑य चोल॒प्या॒य च॒

नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ॥ ४५॥


नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒

नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒

नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒

नमः॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒

नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ हृद॑येभ्यो॒ नमो॑

विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ॥ ४६॥


द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्रं॒ नील॑लोहित ।

आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रोङ्भो च॑ नः॒ किञ्च॒नाम॑मत् ॥ ४७॥


इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।

यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥ ४८॥


या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी ।

शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ॥ ४९॥


परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।

अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ॥ ५०॥


मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।

प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥ ५१॥


विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।

यास्ते॑ स॒हस्र॑ꣳ हे॒तयो॒ऽन्यम॒स्मन्निव॑पन्तु॒ ताः ॥ ५२॥


स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑ ।

तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ ५३॥


असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५४॥


अ॒स्मिन्म॑ह॒त्य॒र्ण॒वेऽन्तरि॑क्षे भ॒वा अधि॑ ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५५॥


नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ꣳ रु॒द्रा उप॑श्रिताः ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५६॥


नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑माच॒राः ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५७॥


ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५८॥


ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५९॥


ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युधः॑ ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ६०॥


ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑ ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ६१॥


येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ६२॥


य ए॒ताव॑न्तश्च॒ भूया॑ꣳसश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।

तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ६३॥


नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वस्तेभ्यो॒

दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒

नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं

द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ ६४॥


नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वस्तेभ्यो॒

दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒

नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं

द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ ६५॥


नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वस्तेभ्यो॒

दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒

नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं

द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ ६६॥


इति रुद्रे पञ्चमोऽध्यायः ॥  ५॥


अथ षष्ठोऽध्यायः


(महच्छिर / सोमस्तवन / त्र्यम्बक यजनम् ।)

          हरिः॑ ॐ

व॒यꣳसो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः ।

प्र॒जाव॑न्तः सचेमहि ॥ १॥


ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ॥ २॥


अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् ।

यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ नः॒ श्रेय॑स॒स्कर॒द्यथा॑ नो व्यवसा॒यया॑त् ॥ ३॥


भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् ।

सु॒खं मे॒षाय॑ मेष्यै ॥ ४॥


त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑त् ।

त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् ।

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ॥ ५॥


ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि ।

अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ अहि॑ꣳसन्नः शि॒वोऽती॑हि ॥ ६॥


त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् ।

यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ अस्तु त्र्यायु॒षम् ॥ ७॥


शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।

निव॑र्तयाम्यायु॑षे॒ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ ८॥


इति रुद्रे षष्ठोऽध्यायः ॥  ६॥


अथ सप्तमोऽध्यायः


        (जटाऽध्याय ।)

          हरिः॑ ॐ

उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॒न्तश्च॒ धुनि॑श्च ।

सा॒स॒ह्वांश्चा॑भियु॒ग्वा च॑ वि॒क्षिपः॒ स्वाहा॑ ॥ १॥


अ॒ग्निꣳ हृद॑येना॒शनि॑ꣳ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना ।

श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तः पर्श॒व्येनो॒ग्रं

दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ॥ २॥


उ॒ग्रं ल्लोहि॑तेन मि॒त्रꣳ सौ॑व्रत्येन रु॒द्रं दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान्प्र॒मुदा॑ ।

भ॒वस्य॒ कण्ठ्य॑ꣳ रु॒द्रस्या॑न्तः पा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पतेः॑ पुरी॒तत् ॥ ३॥


लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒

लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॑ ।

मा॒ꣳसेभ्यः॒ स्वाहा॑ मा॒ꣳसेभ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒

अस्थभ्यः॒ स्वाहा॒ अस्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ ।

रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ॥ ४॥


आ॒या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ ।

शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ॥ ५॥


तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ ।

निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ॥ ६॥


य॒माय॒ स्वाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ ।

विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ꣳ स्वाहा॑ ॥ ७॥


इति रुद्रे सप्तमोऽध्यायः ॥  ७॥


अथ अष्टमोऽध्यायः


        (चमकप्रश्नः ।)

          हरिः॑ ॐ

वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे

धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे

श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॒श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १॥


प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे

चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒

चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २॥


ओज॑श्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒

शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च॒ मेऽस्थी॑नि च मे॒

परू॑ꣳषि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ ३॥


ज्यै॑ष्ठ्यं च म आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे

जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे

वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ ४॥


स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒

विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे

जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ ५॥


ऋ॒तं च॑ मेऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे

जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे

सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ ६॥


य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒

विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒

सूश्च॑ मे प्र॒सूशच॒॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ ७॥


शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒

काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे

भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ ८॥


ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे

घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे

कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ ९॥


र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे

वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒

कुय॑वं च॒ मेऽक्षि॑तं च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १०॥


वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे

सु॒गं च॑ मे सुप॒थ्यं॒ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे

क्लृ॒प्तं च॑ मे॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ ११॥


व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे

मु॒द्राश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे

श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १२॥


अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒

सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे

श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १३॥


अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे

कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे

वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १४॥


वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒

शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १५॥


अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे

सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे

पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १६॥


मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे

धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे

म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १७॥


पृ॒थि॒वी च॑ म॒ इन्द्र॑श्च॒ मेऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒

द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒

नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १८॥


अ॒ꣳशुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ꣳशुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे

मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ १९॥


आ॒ग्र॒या॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे

वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे

म॒हावै॑श्वदेश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे

सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २०॥


स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॒नि च मे द्रोणकल॒शश्च॑ मे॒

ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒

वेदि॑श्च मे ब॒र्हिश्च॑ मेऽवभृ॒तश्च॑ मे स्वगाका॒रश्च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २१॥


अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे

प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒

दिति॑श्च मे॒ द्यौश्च॑ मे॒ऽङ्गुल॑य॒: शक्व॑रयो॒ दिश॑श्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २२॥


व्र॒तं च॑ म ऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मे

अहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २३॥


एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे

स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒

त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒

नव॑दश च मे॒ नव॑दश च म॒ एक॑विꣳशतिश्च म॒ एक॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒

पञ्च॑विꣳशतिश्च मे॒ पञ्च॑विꣳशतिश्च मे स॒प्तवि॑ꣳशतिश्च मे प्तवि॑ꣳशतिश्च मे॒

नव॑विꣳशतिश्च मे॒ नव॑विꣳशतिश्च म॒ एक॑त्रिꣳशच्च म॒ एक॑त्रिꣳशच्च मे॒ त्रय॑स्त्रिꣳशच्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २४॥


चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒

षोड॑श च मे॒ षोड॑श च मे विꣳश॒तिश्च॑ मे विꣳशतिश्च॑ मे॒

चतु॑र्विꣳशतिश्च मे॒ चतु॑र्विꣳश॒तिश्च॑ मे॒ऽष्टावि॑ꣳशतिश्च मे॒ऽष्टावि॑ꣳशतिश्च मे॒

द्वात्रि॑ꣳशच्च मे॒ द्वात्रि॑ꣳशच्च मे॒ षट्त्रि॑ꣳशच्च मे॒ षट्त्रि॑ꣳशच्च मे

चत्वारि॒ꣳशच्च॑ मे चत्वारि॒ꣳशच्च॑ मे॒ चतु॑श्चत्वारिꣳशच्च मे॒ चतु॑श्चत्वारिꣳशच्च मे॒ऽष्टाच॑त्वारिꣳशच्च मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २५॥


त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे

पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे

तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २६॥


प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे

वे॒हच्च॑ मेऽन॒ड्वांश्च॑ मे धे॒नुश्च॑ मे

य॒ज्ञेन॑ कल्पन्ताम् ॥ २७॥


वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ऽह॒र्पत॑ये॒ स्वाहाह्ने॑

मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनꣳशि॒नाय॒ स्वाहा॑ विन॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य

भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।

इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्ताऽसि॒ यम॑न ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाधि॑पत्याय ॥ २८॥


आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ꣳश्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒

वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒

ज्योति॑र्य॒ज्ञेन॑ कल्पतां॒ स्व॒र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।

स्तोम॑श्च यजु॑श्च॒ ऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ ।

स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट् स्वाहा॑ ॥ २९॥


इति रुद्रेऽष्टमोऽध्यायः ॥  ८॥


अथ शान्त्यध्यायः 


॥ हरिः॑ ॐ ॥ 

ऋचं॒ वाचं॒ प्रप॑द्ये॒ मनो॒ यजुः॒ प्रप॑द्ये॒ साम॑ प्रा॒णं प्रप॑द्ये॒ चक्षुः॒ श्रोत्रं॒ प्रप॑द्ये ।

वागोजः॑ स॒हौजो॒ मयि॑ प्राणापा॒नौ ॥ १॥


यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु ।

शं नो॑ भवतु॒ भुव॑नस्य॒ यस्पतिः॑ ॥ २॥


भूर्भुवः॒ स्वः॒ तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ ३॥


कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ ।

कया॒ शचि॑ष्ठया वृ॒ता ॥ ४॥


कस्त्वा॑ स॒त्यो मदा॑नां॒ मꣳहि॑ष्ठो मत्स॒दन्ध॑सः ।

दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ॥ ५॥


अ॒भीषुणः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् ।

श॒तं भ॑वास्यू॒तिभिः॑ ॥ ६॥


कया॒ त्वं न ऊ॒त्याभि प्रम॑न्दसे वृषन् ।

कया॑ स्तो॒तृभ्य॒ आभ॑र ॥ ७॥


इन्द्रो॒ विश्व॑स्य राजति ।

शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ८॥


शं नो॑ मि॒त्र: शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा ।

शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥ ९॥


शं नो॒ वातः॑ पवता॒ꣳ शं न॑स्तपतु॒ सूर्यः॑ ।

शं नः॒ कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ अ॒भिव॑र्षतु ॥ १०॥


अहा॑नि॒ शं भव॑न्तु नः॒ शꣳ  रात्रीः॒ प्रति॑धीयताम् ।

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।

शं न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः ॥ ११॥


शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।

शं योर॒भिस्र॑वन्तु नः ॥ १२॥


स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी ।

यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑ ॥ १३॥


आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।

म॒हे रणा॑य॒ चक्ष॑से ॥ १४॥


यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।

उ॒श॒तीरि॑व मा॒तरः॑ ॥ १५॥


तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।

आपो॑ ज॒नय॑था च नः ॥ १६॥


द्यौ: शान्ति॑र॒न्तरि॑क्ष॒ꣳ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑ ।

वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ꣳ शान्तिः॒

शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि ॥ १७॥


दृते॒ दृꣳह॑ मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् ।

मि॒त्रस्या॒हं चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षे ।

मि॒त्रस्य॒ चक्षु॑षा॒ समी॑क्षामहे ॥ १८॥


दृते॒ दृꣳह॑ मा   मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् ।

ज्योक्ते॑ स॒न्दृशि॑ जीव्यासं॒ ज्योक्ते॑ स॒न्दृशि॑ जीव्यासम् ॥ १९॥


नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ ।

अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ꣳ शि॒वो भ॑व ॥ २०॥


नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑ ।

नम॑स्ते भगवन्नस्तु॒ यतः॒ स्वः॒ स॒मीह॑से ॥ २१॥


यतो॑ यतः स॒मीह॑से॒ ततो॑ नो॒ अभ॑यं कुरु ।

शं नः॑ कुरु प्र॒जाभ्योऽभ॑यं नः प॒शुभ्यः॑ ॥ २२॥


सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥ २३॥


तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमुच्च॑रत् ।

पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तꣳ श‍ृणु॑याम श॒रदः॑ श॒तं

प्रब्र॑वाम श॒रदः॑ श॒तमदी॑नाः स्याम श॒रदः॑ श॒तं भूय॑श्च श॒रदः॑ श॒तात् ॥ २४॥


इति रुद्रे शान्त्यध्यायः ॥  ९॥


अथ स्वस्तिप्रार्थनामन्त्रः ।


          हरिः॑ ॐ

ॐ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।

स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।

स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ १॥


ॐ पयः॑ पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्यन्तरि॑क्षे॒ पयो॑ धाः ।

पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म् ॥ २॥


ॐ विष्णो॑ र॒राट॑मसि॒ विष्णोः॒ श्नप्त्रे॑ स्थो विष्णोः॒ स्यूर॑सि॒ विष्णो॑र्ध्रु॒वो॒ऽसि ।

वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ ३॥


ॐ अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑

रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑दे॒वा देवता॒

बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥ ४॥


ॐ स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ ।

भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् ।

भ॒वोद्भ॑वाय॒ नमः॑ ॥ ५॥


वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒

काला॑य नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒

बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑

म॒नोन्म॑नाय॒ नमः॒ ॥ ६॥


अ॒घोरे॑भ्योऽथ॒ घोरे॑भ्यो॒ घोर॒घोर॑तरेभ्यः ।

स॒र्वेभ्यः सर्व॒ श॑र्वेभ्यो॒ नम॑स्तेऽस्तु रु॒द्ररू॑पेभ्यः ॥ ७॥ 

(स॒र्वतः॑ शर्व॒ सर्वे॑भ्यो॒)


तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।

तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥ ८॥


ईशानस्सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ।

ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ऽस्तु सदाशि॒वोम् ॥ ९॥


ॐ शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।

निव॑र्तयाम्यायु॑षे॒ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ १०॥


ॐ विश्वा॑नि देव सवितर्दुरि॒तानि॒ परासुव ।

यद्भ॒द्रं तन्न॒ आसुव ॥ ११॥


ॐ द्यौः शान्ति॑र॒न्तरि॑क्ष॒ꣳ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑ ।

वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ꣳ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि ॥ १२॥


ॐ सर्वेषां वा एष वेदानाꣳरसो यत्सामः ।

सर्वेषामेवैनमेतद् वेदानाꣳ रसेनाभिषिञ्चति ॥ १३॥


ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

यदक्षरपदभ्रष्टं मात्राहीनञ्च यद्भवेत् । तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ।।

अनेन श्री रुद्राभिषेककर्मणा श्री भवानीशङ्कर महारुद्राः प्रीयतां न मम ।


इति श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी समाप्ता ।

 ॥  ॐ साम्ब सदाशिवार्पणमस्तु ॥


रुद्राष्टाध्यायी PDF DOWNLOAD

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!