Sanskrit Counting 1 to 100 Class 9 Parishishtam 6 | संस्कृत-संख्याः १ तः १०० (इरावती)

Sooraj Krishna Shastri
By -
0

संस्कृत-संख्याः (१ तः १००)

परिशिष्टम् ६ — इरावती (कक्षा ९)
  • १. संस्कृत-संख्यावली (१-५०) (एक से पचास तक की संख्याएँ)
  • २. संस्कृत-संख्यावली (५१-१००) (इक्यावन से सौ तक की संख्याएँ)
  • ३. सङ्ख्यानां वर्गीकरणम् एवं परिचयः (संख्या नियम एवं वाक्य-प्रयोगः)

१. संस्कृत-संख्याः (१ तः ५०)

संख्या संस्कृत रूपम् संख्या संस्कृत रूपम् संख्या संस्कृत रूपम्
१.एकः/एका/एकम् १८.अष्टादश ३५.पञ्चत्रिंशत्
२.द्वौ/द्वे/द्वे १९.नवदश / एकोनविंशतिः ३६.षट्त्रिंशत्
३.त्रयः/तिस्रः/त्रीणि २०.विंशतिः ३७.सप्तत्रिंशत्
४.चत्वारः/चतस्रः/चत्वारि २१.एकविंशतिः ३८.अष्टात्रिंशत्
५.पञ्च २२.द्वाविंशतिः ३९.नवत्रिंशत् / एकोनचत्वारिंशत्
६.षट् २३.त्रयोविंशतिः ४०.चत्वारिंशत्
७.सप्त २४.चतुर्विंशतिः ४१.एकचत्वारिंशत्
८.अष्ट / अष्टौ २५.पञ्चविंशतिः ४२.द्विचत्वारिंशत् / द्वाचत्वारिंशत्
९.नव २६.षड्विंशतिः ४३.त्रिचत्वारिंशत् / त्रयश्चत्वारिंशत्
१०.दश २७.सप्तविंशतिः ४४.चतुश्चत्वारिंशत्
११.एकादश २८.अष्टाविंशतिः ४५.पञ्चचत्वारिंशत्
१२.द्वादश २९.नवविंशतिः / एकोनत्रिंशत् ४६.षट्चत्वारिंशत्
१३.त्रयोदश ३०.त्रिंशत् ४७.सप्तचत्वारिंशत्
१४.चतुर्दश ३१.एकत्रिंशत् ४८.अष्टचत्वारिंशत् / अष्टाचत्वारिंशत्
१५.पञ्चदश ३२.द्वात्रिंशत् ४९.नवचत्वारिंशत् / एकोनपञ्चाशत्
१६.षोडश ३३.त्रयस्त्रिंशत् ५०.पञ्चाशत्
१७.सप्तदश ३४.चतुस्त्रिंशत् -

२. संस्कृत-संख्याः (५१ तः १००)

संख्या संस्कृत रूपम् संख्या संस्कृत रूपम् संख्या संस्कृत रूपम्
५१.एकपञ्चाशत् ६८.अष्टषष्टिः / अष्टाषष्टिः ८५.पञ्चाशीतिः
५२.द्विपञ्चाशत् / द्वापञ्चाशत् ६९.नवषष्टिः / एकोनसप्ततिः ८६.षडशीतिः
५३.त्रिपञ्चाशत् / त्रयःपञ्चाशत् ७०.सप्ततिः ८७.सप्ताशीतिः
५४.चतुःपञ्चाशत् ७१.एकसप्ततिः ८८.अष्टाशीतिः
५५.पञ्चपञ्चाशत् ७२.द्विसप्ततिः / द्वासप्ततिः ८९.नवाशीतिः / एकोननवतिः
५६.षट्पञ्चाशत् ७३.त्रिसप्ततिः / त्रयस्सप्ततिः ९०.नवतिः
५७.सप्तपञ्चाशत् ७४.चतुस्सप्ततिः ९१.एकनवतिः
५८.अष्टपञ्चाशत् / अष्टापञ्चाशत् ७५.पञ्चसप्ततिः ९२.द्विनवतिः / द्वानवतिः
५९.नवपञ्चाशत् / एकोनषष्टिः ७६.षट्सप्ततिः ९३.त्रिनवतिः / त्रयोनवतिः
६०.षष्टिः ७७.सप्तसप्ततिः ९४.चतुर्नवतिः
६१.एकषष्टिः ७८.अष्टसप्ततिः / अष्टासप्ततिः ९५.पञ्चनवतिः
६२.द्विषष्टिः / द्वाषष्टिः ७९.नवसप्ततिः / एकोनाशीतिः ९६.षण्णवतिः
६३.त्रिषष्टिः / त्रयःषष्टिः ८०.अशीतिः ९७.सप्तनवतिः
६४.चतुष्षष्टिः ८१.एकाशीतिः ९८.अष्टनवतिः / अष्टानवतिः
६५.पञ्चषष्टिः ८२.द्व्यशीतिः ९९.नवनवतिः / एकोनशतम्
६६.षट्षष्टिः ८३.त्र्यशीतिः १००.शतम्
६७.सप्तषष्टिः ८४.चतुरशीतिः -

३. सङ्ख्यानां वर्गीकरणम् व्यावहारिक-प्रयोगश्च

सङ्ख्यानां लिङ्गानुसारं वर्गीकरणम्

१ तः ४ पर्यन्तम् (1-4): एताः सङ्ख्याः त्रिषु लिङ्गेषु भिन्नाः भवन्ति। (यथा: एकः बालकः, एका बालिका, एकं फलम्)

५ तः १८ पर्यन्तम् (5-18): एताः सङ्ख्याः त्रिषु लिङ्गेषु समानाः भवन्ति। (यथा: पञ्च बालकाः, पञ्च बालिकाः, पञ्च फलानि)

२० तः ९९ पर्यन्तम् (20-99): एताः सङ्ख्याः नित्यं स्त्रीलिङ्गे एकवचने च भवन्ति।

शतम् (100): एषा सङ्ख्या नित्यं नपुंसकलिङ्गे भवति।

सङ्ख्यानां व्यावहारिकः परिचयः (वाक्य-प्रयोगः):
एकस्मिन् वर्षे द्वादश (१२) मासाः भवन्ति। एकस्मिन् मासे त्रिंशत् (३०) अथवा एकत्रिंशत् (३१) दिनानि भवन्ति। फरवरी-मासे अष्टाविंशतिः (२८) अथवा नवविंशतिः (२९) दिनानि भवन्ति। एकस्मिन् सप्ताहे सप्त (७) दिनानि भवन्ति। एकस्मिन् दिने चतुर्विंशतिः (२४) होराः भवन्ति। पञ्चदश (१५) दिनानाम् एकः पक्षः भवति। एकस्मिन् विद्यालये पञ्चाशत् (५०) शिक्षिकाः पाठयन्ति। तत्र द्विपञ्चाशत् (५२) प्रकोष्ठाः सन्ति। क्रीडाङ्गणे चतुःषष्टिः (६४) छात्राः क्रीडन्ति। पुस्तकालये पञ्चसप्ततिः (७५) आसन्दाः सन्ति। परीक्षायाः पूर्णाङ्कः शतम् (१००) आसीत्।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!