Sanskrit Nouns Gender Rules Class 9 Parishishtam 7 | वस्तु-परिचयः (त्रिषु लिङ्गेषु)

Sooraj Krishna Shastri
By -
0

वस्तु-परिचयः (त्रिषु लिङ्गेषु)

परिशिष्टम् ७ — इरावती (कक्षा ९)
  • १. पुंलिङ्ग-शब्दाः (अकारान्ताः विसर्गयुक्ताः शब्दाः वाक्यप्रयोगश्च)
  • २. स्त्रीलिङ्ग-शब्दाः (आकारान्ताः/ईकारान्ताः शब्दाः वाक्यप्रयोगश्च)
  • ३. नपुंसकलिङ्ग-शब्दाः (प्रथमायाम् 'म्' युक्ताः शब्दाः वाक्यप्रयोगश्च)

१. पुंलिङ्ग एवं स्त्रीलिङ्ग वस्तूनां परिचयः

भूमिका: संस्कृतभाषायाँ त्रीणि लिङ्गानि भवन्ति— पुंलिङ्गम्, स्त्रीलिङ्गम्, नपुंसकलिङ्गम् च। वस्तूनां लिङ्गभेदः स्वरूपानुसारं व्याकरणनियमानुसारं च भवति।

१. पुंलिङ्गी-शब्दाः (अकारान्ताः - विसर्गयुक्ताः)

संस्कृत शब्दः English वाक्यप्रयोगः (संस्कृतम्)
चषकःGlassचषके जलम् अस्ति।
स्यूतःBagछात्रः स्यूतं गृह्णाति।
दीपःLampदीपः प्रकाशं ददाति।
घटःPotघटे जलं पूरितम् अस्ति।
कटःMatभूमौ कटः अस्ति।
दन्तफेनःToothpasteप्रातः दन्तफेनस्य आवश्यकता भवति।
दर्पणःMirrorबालकः दर्पणे मुखं पश्यति।
आसन्दःChairसः आसन्दे उपविशति।
उत्करःGarbageउत्करः अवकरिकायाम् अस्ति।
चमसःSpoonवयं चमसेन भोजनं कुर्मः।

२. स्त्रीलिङ्ग-शब्दाः (आकारान्ताः / ईकारान्ताः)

संस्कृत शब्दः English वाक्यप्रयोगः (संस्कृतम्)
उत्पीठिकाTableउत्पीठिकायां पुस्तकानि सन्ति।
लेखनीPenएषा मम नूतना लेखनी।
कङ्कतीCombसा कङ्कतया केशान् संस्करोति।
घटीClockघटी समयं दर्शयति।
कूर्चिकाBrushकूर्चिकया भित्तौ वर्णलेपनं भवति।
कुञ्चिकाKeyताले कुञ्चिका स्थापिता अस्ति।
मापिकाRuler/Scaleमापिकया रेखां रचयामि।
मार्जनीDuster/Eraserमार्जन्या कृष्णफलकस्य मार्जनं भवति।
दूरवाणीTelephoneदूरवाण्या वार्तालापः भवति।
पेटिकाBoxधनं पेटिकायां सुरक्षितं तिष्ठति।

२. नपुंसकलिङ्ग वस्तूनां परिचयः अभ्यासश्च

३. नपुंसकलिङ्ग-शब्दाः (अन्ते 'म्' युक्ताः)

संस्कृत शब्दः English वाक्यप्रयोगः (संस्कृतम्)
पुस्तकम्Bookएतत् ज्ञानवर्धकं पुस्तकम् अस्ति।
फलकम्Boardशिक्षकः फलके लिखति।
व्यजनम्Fanग्रीष्मकाले व्यजनं चलति।
द्वारम्Doorकृपया द्वारम् उद्घाटयतु।
वातायनम्Windowवातायनेन वायुः आगच्छति।
गृहम्Houseमम गृहम् सुन्दरं वर्तते।
वस्त्रम्Clothबालकः स्वच्छं वस्त्रं धरति।
छत्रम्Umbrellaवृष्टिकाले छत्रस्य उपयोगः भवति।
उपनेत्रम्Spectaclesपितामहः उपनेत्रं धारयति।
कन्दुकम्Ballबालाः कन्दुकेन क्रीडन्ति।

अभ्यासः (लिङ्गानुसारं प्रत्यय पहचान)

पुंलिङ्गः (:): दीपः (Lamp), स्यूतः (Bag), आसन्दः (Chair)

स्त्रीलिङ्गः (आ / ई): उत्पीठिका (Table), लेखनी (Pen), घटी (Clock)

नपुंसकलिङ्गः (म्): पुस्तकम् (Book), वस्त्रम् (Cloth), व्यजनम् (Fan)

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!