माँ अन्नपूर्णा स्तुति

Sooraj Krishna Shastri
By -
0

ऊँ नमोन्नपूर्णायै ...


प्रभाते प्रभा ते सुरक्ते सुरक्ते

शिवे त्वं शिवे! मानसे मे प्रविष्टा ।

प्रशीते सरे मानसे स्नातगात्र

शिवस्य क्षुधापूरणायान्नदासि ।।


जगत्प्राणभूतं सदन्नं त्वदीये

भृशं हर्षदे वामपाणौ यदस्ति ।

तदास्वादनायैव रक्तो विरक्त:

शिवस्ते समक्षं मुदा नर्तते सौ ।। 


अये ! विश्वपालिन्यमी जीवसंघाः

तवद्वार देशं समागत्य नित्यम् । 

बुभुक्षातृषापीडिता त्वान्नमन्ति

प्रदायान्नसत्त्वं सुखं देहि मात: ।।


त्वया नाथिते संस्थिते विश्वगोले

क्षुधाभिः पिपासादिभिर्नो धरित्र्यां । 

जनिं सन्त्यजेज्जीवमेकोपि मात:

इदं मे वचः सर्वदाकर्णनीयम् ।।

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!