Madhavasya Priyam Angam Class 6 Sanskrit Chapter 15 Question Answers | माधवस्य प्रियम् अङ्गम् अभ्यास प्रश्नोत्तर

Sooraj Krishna Shastri
By -
0

१. मूल पाठः एवं भावार्थः

माधवनामकः एकः बालकः आसीत्। सः स्वप्ने स्वशरीरस्य अङ्गानि दृष्टवान्। तानि परस्परं चर्चां कुर्वन्ति स्म।
हिन्दी अर्थ: माधव नाम का एक बालक था। उसने सपने में अपने शरीर के अंगों को देखा। वे आपस में चर्चा (बातचीत) कर रहे थे।

हस्तः अनुक्षणं वदति – अरे अरे! मम कारणेन माधवः लिखति, गृहकार्यं करोति, वस्तूनि आनयति च। अतः अहम् एव श्रेष्ठः।
हिन्दी अर्थ: हाथ तुरंत बोलता है – अरे अरे! मेरे कारण ही माधव लिखता है, घर का काम करता है, और वस्तुएँ (सामान) लाता है। इसलिए मैं ही सबसे श्रेष्ठ हूँ।

पादः वदति – अहं श्रेष्ठः। मम कारणेन माधवः चलति।
हिन्दी अर्थ: पैर बोलता है – मैं श्रेष्ठ हूँ। मेरे कारण माधव चलता है।

मां विना माधवः किमपि द्रष्टुं शक्नोति किम्? इति नयनं वदति।
हिन्दी अर्थ: आँख (नयन) कहती है - मेरे बिना माधव क्या कुछ भी देख सकता है?

कर्णः स्मितं कृत्वा कथयति – माधवः यदा मार्गे गच्छति तदा पृष्ठतः यानानां ध्वनिं यदि न शृणोति सावधानः च न भवति, तर्हि दुर्घटना भवेत्। माधवः मम कारणेन एव शिक्षकस्य उपदेशं श्रुत्वा ज्ञानं वर्धयति, सङ्गीतं श्रुत्वा आनन्दं च अनुभवति।
हिन्दी अर्थ: कान मुस्कुराकर (स्मितं कृत्वा) कहता है - माधव जब रास्ते पर जाता है, तब पीछे से आती हुई गाड़ियों की आवाज़ यदि न सुने और सावधान न हो, तो दुर्घटना हो सकती है। माधव मेरे कारण ही शिक्षक का उपदेश सुनकर अपना ज्ञान बढ़ाता है, और संगीत सुनकर आनन्द का अनुभव करता है।

झटिति मुखं सूचयति – ‘भोः! सर्वे शृण्वन्तु, माधवः मम कारणेन भोजनं करोति, भाषणं करोति, शिक्षकस्य प्रश्नस्य उत्तरं वदति। मम साहाय्येन उदरमपि भोजनं प्राप्नोति। भवन्तः सर्वे सबलाः भवन्ति। अतः अहम् एव श्रेष्ठः’।
हिन्दी अर्थ: तुरंत ही मुँह कहता है - ‘अरे! सब सुनो, माधव मेरे कारण ही भोजन करता है, भाषण देता है, शिक्षक के प्रश्न का उत्तर देता है। मेरी सहायता से पेट को भी भोजन प्राप्त होता है। और तुम सब बलवान (ताकतवर) बनते हो। इसलिए मैं ही श्रेष्ठ हूँ’।

उदरं सूचयति ‘भवतु, भवतु, कोलाहलं न कुर्वन्तु। वयं सर्वे माधवम् एव पृच्छाम, कः श्रेष्ठः’ इति।
हिन्दी अर्थ: पेट कहता है - ‘ठीक है, ठीक है, शोर (कोलाहल) मत करो। हम सब माधव से ही पूछते हैं कि कौन श्रेष्ठ है’।

माधवः विचारयति बोधयति च – ‘मम शरीरस्य सर्वाणि अङ्गानि मम कृते उपकारकाणि सन्ति। अहं नयनाभ्यां पश्यामि, कर्णाभ्यां शृणोमि, मुखेन भाषणं करोमि भोजनं करोमि च, उदरेण पाचनात् शक्तिं प्राप्नोमि पादाभ्यां च चलामि। अतः भवन्तः सर्वेऽपि श्रेष्ठाः। भवन्तः सर्वेऽपि मम प्रियाः’।
हिन्दी अर्थ: माधव विचार करता है और समझाता है - ‘मेरे शरीर के सभी अंग मेरे लिए उपकारी (सहायक) हैं। मैं आँखों से देखता हूँ, कानों से सुनता हूँ, मुँह से बोलता हूँ और भोजन करता हूँ, पेट द्वारा पचने से शक्ति प्राप्त करता हूँ और पैरों से चलता हूँ। इसलिए तुम सभी श्रेष्ठ हो। तुम सभी मेरे प्रिय हो’।

२. शब्दार्थ-सारणी (Word Meanings)

संस्कृत शब्दः संस्कृत-पर्यायः हिन्दी अर्थः English Meaning
स्वप्नेस्वप्नसमयेस्वप्न मेंIn Dream
स्वशरीरस्यनिजकायस्यअपने शरीर केOf his own body
अङ्गानिअवयवाःअङ्गBody parts
दृष्टवान्अपश्यत्देखाSaw
चर्चाम्आलापम्चर्चा / बातचीतDiscussion
श्रेष्ठःउत्तमःमहान / श्रेष्ठGreat
अनुक्षणम्सत्वरम्उसी समय / तुरंतInstantly
गृहकार्यम्गृहे पठनकर्मगृहकार्यHomework
मां विनामां विहायमेरे बिनाWithout me
स्मितम्मन्दहासःथोड़ा हँस करSmile
शक्नोतिसमर्थः भवतिसमर्थ होता है / सकता हैAble to
मार्गेवर्त्मनिमार्ग में / रास्ते परOn road
सङ्गीतम्सुन्दरं गीतम्सङ्गीतMusic
साहाय्येनसहायकारणेनसहायता सेWith the help of
प्राप्नोतिप्राप्तं करोतिप्राप्त करता हैGets
सबलाःबलवन्तःबलवान्Strong
भवेत्स्यात्हो सकता/सकती हैMay happen
कोलाहलम्आरवःशोर / कोलाहलQuarrel / Noise
विचारयतिचिन्तयतिविचार करता हैThinks
बोधयतिज्ञापयतिसमझाता हैAdvises / Explains
उपकारकाणिसहायकानिसहायता करने वालेHelpful
शक्तिम्सामर्थ्यम्ताकत / शक्तिStrength

३. अभ्यासः - भाग १ (प्रश्नोत्तराणि १-४)

१. चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु:

(चित्रों के आधार पर अंगों के नाम)

• (क) नयनम् / नेत्रम्

• (ख) मुखम्

• (ग) हस्तः

• (घ) पादः

• (ङ) कर्णः

२. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अङ्गस्य कार्यं लिखन्तु:

यथा – नयनं – पश्यति

• (क) मुखम् – वदति / हसति (चलति, हसति, वदति)

• (ख) पादः – चलति (लिखति, चलति, पश्यति)

• (ग) कर्णः – शृणोति (हसति, वदति, शृणोति)

• (घ) नासिका – आघ्राणं करोति (आघ्राणं करोति, नृत्यति, धावति)

• (ङ) जिह्वा – आस्वादनं करोति (धावनं करोति, आस्वादनं करोति, पश्यति)

३. कोष्ठकात् समुचितां सङ्ख्यां चित्वा रिक्तस्थानं पूरयन्तु:

• (क) मम एकं शिरः अस्ति। (एकम्, अनेकं, चत्वारि)

• (ख) मम द्वौ पादौ स्तः। (त्रयः, द्वौ, पञ्च)

• (ग) मम बहवः केशाः सन्ति। (दश, अष्ट, बहवः)

• (घ) मम द्वात्रिंशत् दन्ताः सन्ति। (चत्वारः, अष्टाविंशतिः, द्वात्रिंशत्)

• (ङ) मम हस्तयोः दश अङ्गुल्यः सन्ति। (अष्ट, दश, पञ्चदश)

४. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारं शरीराङ्गस्य नाम लिखन्तु:

यथा – पश्यति – नयनम्

• (क) शृणोति – कर्णः (गुल्फः, चिबुकम्, कर्णः)

• (ख) धावति – पादद्वयम् (पादद्वयम्, हस्तद्वयम्, नयनद्वयम्)

• (ग) नमति – शिरः (शिरः, कूर्परः, जङ्घा)

• (घ) सूचयति – अङ्गुली (अङ्गुली, नखः, चरणः)

• (ङ) लिखति – हस्तः (हस्तः, मणिबन्धः, कटिः)

४. अभ्यासः - भाग २ (प्रश्नोत्तराणि ५-८)

५. पट्टिकातः शब्दान् चित्वा यथायोग्यं गणेषु लिखन्तु:

(पट्टिका: नासिका, चिबुकम्, कूर्परः, हस्तः, मणिबन्धः, कपोलः, भुजः, ललाटम्, स्कन्धः, जङ्घा, नयनम्, जानु, ऊरुः)

मुखम्/शिरः (Head & Face):

नयनम्, नासिका, चिबुकम्, कपोलः, ललाटम्

हस्तः (Arms & Hands):

हस्तः, कूर्परः, मणिबन्धः, भुजः, स्कन्धः

पादः (Legs):

जङ्घा, जानु, ऊरुः

६. कोष्ठकात् समुचितं पदं चित्वा वाक्यानि रचयन्तु:

• (क) अहं मुखेन गायनं करोमि। (पादेन, नासिकया, मुखेन)

• (ख) अहं पादाभ्यां धावनं करोमि। (पादाभ्यां, ललाटेन, कूर्परेण)

• (ग) अहं नासिकया आघ्राणं करोमि। (नखैः, नासिकया, चरणेन)

• (घ) अहं कर्णाभ्यां श्रवणं करोमि। (कर्णाभ्याम्, नासिकया, अङ्गुष्ठैः)

• (ङ) अहं मुखेन भोजनं करोमि। (मुखेन, पादेन, नासिकया)

७. पट्टिकातः समुचितं शरीराङ्गं चित्वा भगिनी कुत्र किं धरति इति सूचयन्तु:

(पट्टिका: कण्ठे, ललाटे, नयनयोः, ओष्ठयोः, पादयोः, कर्णयोः, हस्तयोः, वामहस्ते, अङ्गुल्याम्, नेत्रयोः)

• भगिनी पादयोः पादुकाद्वयं धरति।

• भगिनी हस्तयोः कङ्कणानि धरति।

• भगिनी अङ्गुल्याम् मुद्रिकां धरति।

• भगिनी वामहस्ते घटीयन्त्रं धरति।

• भगिनी कण्ठे मालां धरति।

• भगिनी कर्णयोः कुण्डलद्वयं धरति।

• भगिनी नेत्रयोः उपनेत्रं धरति।

• भगिनी ललाटे कुङ्कुमं धरति।

• भगिनी ओष्ठयोः ओष्ठरागं धरति।

• भगिनी नयनयोः कज्जलं धरति।

८. वाक्यं शुद्धम् अशुद्धं वा इति सूचयन्तु:

• (क) अहं कर्णाभ्यां भोजनं करोमि। ➔ (अशुद्धम्)

• (ख) अहं नासिकाद्वारा श्वासं स्वीकरोमि। ➔ (शुद्धम्)

• (ग) अहम् अङ्गुष्ठैः गणनां करोमि। ➔ (अशुद्धम्) (अङ्गुलीभिः गणना भवति)

• (घ) अहं नयनाभ्यां श्रवणं करोमि। ➔ (अशुद्धम्)

• (ङ) अहं हस्तेन कार्यं करोमि। ➔ (शुद्धम्)

५. योग्यताविस्तरः एवं मधुराष्टकम्

शरीराङ्गानां नामानि (Names of Body Parts)

केशाः (बाल)ललाटम् (माथा)भ्रूः (भौंह)
नासिका (नाक)कपोलः (गाल)चिबुकम् (ठुड्डी)
स्कन्धः (कंधा)ग्रीवा (गर्दन)उदरम् (पेट)
स्तनः (छाती)मणिबन्धः (कलाई)अङ्गुष्ठः (अंगूठा)
नाभिः (नाभि)हस्तः (हाथ)गुल्फः (टखना)
जङ्घा (जांघ का निचला भाग)नखाः (नाखून)पार्ष्णिः (एड़ी)
पादाङ्गुष्ठः (पैर का अंगूठा)नेत्रम् (आँख)कर्णः (कान)
मुखम् (मुँह)कण्ठः (गला)भुजः (बांह)
वक्षःस्थलम् (सीना)कफोणिः/कूर्परः (कोहनी)अङ्गुल्यः (उंगलियाँ)
कटिः (कमर)ऊरुः (जांघ)जानु (घुटना)
पादः (पैर)अङ्गुल्यः (पैर की उंगलियां)

मधुराष्टकम् (श्रीवल्लभाचार्य-कृतम्)

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥१॥

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥२॥

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम्॥३॥

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम्॥४॥

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥५॥

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम्॥६॥

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपतेरखिलं मधुरम्॥७॥

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम्॥८॥

गतिविधि-कार्यम् एवं परियोजनाकार्यम्

गतिविधि-कार्यम्: कक्षायां सर्वे छात्राः शिक्षकस्य मार्गदर्शनेन अस्य पाठस्य नाट्याभिनयं कुर्वन्तु। (कक्षा में सभी छात्र इस पाठ का नाटक (Roleplay) करें।)

परियोजनाकार्यम्: योग्यताविस्तरभागे विद्यमानं चित्रं स्फोरकपत्रे रचयित्वा अङ्गानां नामानि लिखन्तु। (शरीर के अंगों का चित्र चार्ट पेपर पर बनाकर उनके संस्कृत नाम लिखें।)

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!