Meghadutam Prashnottari: मेघदूतम् के 100+ महत्त्वपूर्ण प्रश्न (संस्कृतभाषया) | Important Questions

Sooraj Krishna Shastri
By -
0

मेघदूतम् - सम्पूर्णम् प्रश्नोत्तर-सङ्ग्रहः

मूलम् - सूरज कृष्ण शास्त्री

१. सामान्यपरिचयः (General Introduction)

१. मेघदूतस्य रचयिता कः? उ० - महाकविकालिदासः।
२. मेघदूतं कीदृशं काव्यम् अस्ति? उ० - खण्डकाव्यं गीतिकाव्यं वा।
३. मेघदूतं कति भागेषु विभक्तम्? उ० - द्विधा (१) पूर्वमेघः (२) उत्तरमेघः च।
४. मेघदूतस्य प्रधानरसः कः? उ० - विप्रलम्भशृङ्गारः (वियोगशृङ्गारः)।
५. मेघदूते प्रयुक्तं छन्दः किम्? उ० - मन्दाक्रान्ता (सम्पूर्णकाव्ये)।
६. अत्र कस्याः रीतेः प्रयोगः अभवत्? उ० - वैदर्भीरीतेः।
७. मेघदूतस्य उपजीव्यग्रन्थः कः? उ० - ब्रह्मवैवर्तपुराणम्।
८. दूतस्य कल्पना कुतः गृहीता? उ० - वाल्मीकीयरामायणात्।
९. मेघदूतस्य नायकः कः? उ० - यक्षः (हेममाली)।
१०. मेघदूतस्य नायिका का? उ० - यक्षिणी (विशालाक्षी)।
११. जर्मनभाषायां पद्यानुवादः केन कृतः? उ० - मैक्समूलर-महोदयेन।
१२. जर्मनभाषायां गद्यानुवादः केन कृतः? उ० - श्वेट्ज-महोदयेन।
१३. आङ्ग्लभाषायां पद्यानुवादः केन कृतः? उ० - आर्थर राइडर तथा एच. जी. रूक महोदयाभ्याम्।
१४. कालिदासस्य मन्दाक्रान्ताछन्दसः प्रशंसा केन कृता? उ० - क्षेमेन्द्रेण ('सुवशा कालिदासस्य मन्दाक्रान्ता विराजते')।
१५. मेघदूतं 'शोकगीतम्' (Elegy) इति केन प्रोक्तम्? उ० - डॉ. कीथ महोदयेन।
१६. भारतीयमते मेघदूतं कीदृशं गीतम्? उ० - विरहगीतं विप्रलम्भगीतं वा।
१७. मेघदूतस्य प्रमुखाः पात्राः के? उ० - यक्षः, यक्षिणी, मेघः, कुबेरः च।
१८. संस्कृतगीतिकाव्यानाम् आदिग्रन्थः कः? उ० - मेघदूतम्।
१९. मेघदूतं रामायणात् प्रेरितम् इति के मन्यन्ते? उ० - दक्षिणावर्तनाथः मल्लिनाथश्च।
२०. यक्षशापस्य आधारः कः? उ० - पद्मपुराणम् (योगिनी-एकादशी-माहात्म्ये)।

२. श्लोकसंख्या व शापवृत्तान्तः (Verses & Curse)

२१. मेघदूते श्लोकानां संख्या कति? उ० - ११५ (सामान्यतः)।
२२. पूर्वमेघे कति पद्यानि सन्ति? उ० - ६३।
२३. उत्तरमेघे कति पद्यानि सन्ति? उ० - ५२।
२४. मल्लिनाथः कति पद्यानि स्वीकरोति? उ० - १२१ (किन्तु ६ श्लोकान् प्रक्षिप्तान् मन्यते)।
२५. यक्षाणां अधिपतिः कः? उ० - कुबेरः।
२६. कुबेरः यक्षाय शापं किमर्थं दत्तवान्? उ० - स्वाधिकारे प्रमादकरणात्।
२७. शापस्य अवधिः कः आसीत्? उ० - एकवर्षपर्यन्तम्।
२८. शापग्रस्तः यक्षः कुत्र निवसति? उ० - रामगिर्याश्रमेषु।
२९. आरम्भे यक्षस्य कति मासाः व्यतीताः? उ० - अष्टौ (८) मासाः।
३०. शापावधेः कति मासाः अवशिष्टाः? उ० - चत्वारः मासाः।
३१. यक्षः कीदृशः नायकः अस्ति? उ० - धीरललितः।
३२. यक्षिणी कीदृशी नायिका अस्ति? उ० - स्वकीया पद्मिनी च।
३३. मेघदूते कस्य गुणस्य प्रधानता अस्ति? उ० - प्रसादमाधुर्यगुणयोः।
३४. कुबेरस्य राजधानी का? उ० - अलकापुरी।
३५. अलकानगरी कुत्र स्थिता? उ० - कैलासपर्वते।
३६. मल्लिनाथमते रामगिरिः कुत्र अस्ति? उ० - चित्रकूटपर्वते।
३७. प्रो. विल्सन रामगिरिं कुत्र मन्यते? उ० - नागपुरसमीपे रामटेक-स्थाने।
३८. रामगिरिः कस्याः स्नानैः पवित्रः अभवत्? उ० - सीतादेव्याः।

३. पूर्वमेघः - मेघयात्रावर्णनम्

३९. यक्षः मेघं कदा पश्यति? उ० - आषाढस्य प्रथमदिवसे।
४०. अत्र कीदृशं मङ्गलाचरणम् अस्ति? उ० - वस्तुनिर्देशात्मकम्।
४१. यक्षः 'रिक्तप्रकोष्ठः' (सूनी कलाई वाला) कथं जातः? उ० - प्रियावियोगजनितदौर्बल्येन कनकवलयभ्रंशात्।
४२. यक्षः मेघाय केन अर्घ्यं ददाति? उ० - कुटजकुसुमैः।
४३. मेघस्य शरीरं कैः निर्मितम्? उ० - धूम-ज्योति-सलिल-मरुद्भिः।
४४. चेतन-अचेतन विवेकः कस्य नष्टः भवति? उ० - कामार्तस्य।
४५. मेघस्य वंशः कः? उ० - पुष्करावर्तकः।
४६. इन्द्रस्य प्रमुखपुरुषः कः? उ० - मेघः।
४७. कामरूपः (इच्छानुसारं रूपधर्ता) कः अस्ति? उ० - मेघः।
४८. सन्तप्तानां शरणं कः? उ० - मेघः।
४९. अलकायाः प्रासादाः केन धवलाः सन्ति? उ० - शिवशिरःस्थित-चंद्रस्य ज्योत्स्नया।
५०. मेघस्य वामभागे कः नदति? उ० - चातकः।
५१. आकाशे मेघस्य सेवनं काः कुर्वन्ति? उ० - बलाकाः (बगुलियाँ)।
५२. मेघस्य सहचराः के भविष्यन्ति? उ० - राजहंसाः (ये मानसरोवरं गच्छन्ति)।
५३. रामगिरिः कस्य चरणचिह्नैः युक्तः? उ० - रघुपतेः (श्रीरामस्य)।
५४. मेघः कस्यां दिशि प्रस्थानं करोति? उ० - उत्तरदिशि।
५५. वसुबन्धोः शिष्यः कः आसीत्? उ० - दिङ्नागाचार्यः।
५६. मल्लिनाथः कस्य प्रतिद्वन्द्विनं दिङ्नागं मन्यते? उ० - कालिदासस्य।
५७. 'स्निग्धवेणीसवर्णे' - अत्र कस्य वर्णनम्? उ० - मेघस्य (कृष्णवर्णस्य)।
५८. मेघस्य यात्रायां प्रथमः प्रदेशः कः? उ० - मालप्रदेशः।
५९. मेघस्य मित्रं पर्वतः कः? उ० - आम्रकूटः।
६०. आम्रकूटः मेघं कुत्र धारयिष्यति? उ० - स्वशिरसि।
६१. आम्रकूटः कैः छन्नः अस्ति? उ० - वन्यम्रैः।
६२. आम्रकूटस्य शोभा कीदृशी वर्तते? उ० - पृथ्वीस्तनसद्दशी।
६३. मार्गे प्रथमा नदी का लभ्यते? उ० - नर्मदा (रेवा)।
६४. रेवा नदी कीदृशी प्रतीयते? उ० - गजगात्रे भक्तिच्छेदः (रचितचित्रम्) इव।
६५. नर्मदायाः जलं केन सुगन्धितम्? उ० - गजमदेन (जंगली हाथियों के मद से)।
६६. नर्मदा केन अवरुद्धा अस्ति? उ० - जम्बूकुञ्जैः।
६७. दशार्णस्य राजधानी का? उ० - विदिशा।
६८. विदिशा कस्याः नद्याः तटे अस्ति? उ० - वेत्रवत्याः।
६९. वेत्रवत्याः उपमा केन सह कृता? उ० - भ्रूभङ्गवत्या कामिन्या सह।
७०. विदिशायां मेघः कुत्र विश्रामं करोति? उ० - नीचैः नामक गिरौ।
७१. नीचैः गिरिः कैः गुहाभिः युक्तः? उ० - वेश्यानां परिमलैः (सुगन्धैः)।
७२. मेघस्य मार्गः वक्रः कदा भवति? उ० - उज्जयिनीप्रस्थाने।
७३. उज्जयिनीमार्गे का नदी मिलति? उ० - निर्विन्ध्या।
७४. का नदी विरहकृशा अस्ति? उ० - सिन्धुनदी।
७५. अवन्त्यां कस्य कथाः प्रचलन्ति? उ० - वत्सराजस्य उदयनस्य।
७६. दिवः कान्तिमत् खण्डं (स्वर्ग का टुकड़ा) कः? उ० - उज्जयिनी (विशाला)।
७७. शिप्रावातः कस्य कामुकः इव अस्ति? उ० - शिप्रायाः।
७८. उदयनः वासवदत्तां कुतः अपहृतवान्? उ० - उज्जयिन्याः।
७९. प्रद्योतस्य 'नलगिरि' हस्ती किं नष्टं चकार? उ० - स्वर्णतालवनम्।
८०. महाकालमन्दिरं कस्याः नद्याः वायुना कम्पितम्? उ० - गन्धवत्याः।
८१. यक्षः मेघं महाकाले किमर्थं स्थापयति? उ० - शिवस्य सायम्पूजायां पटहवादनार्थम्।
८२. सन्ध्याकाले मेघः कीदृशः भवेत्? उ० - जपाकुसुम-सङ्काशः (लाल वर्ण का)।
८३. शिवस्य गजासुरचर्म-इच्छां कः पूरयिष्यति? उ० - मेघः।
८४. उज्जयिन्यां मेघः रात्रौ कुत्र वसति? उ० - प्रासादछतेषु कपोतानां समीपे।
८५. गम्भीरायाः जलं किं मानितम्? उ० - वसनम् (वस्त्र)।
८६. गम्भीरायाः नितम्बः कः? उ० - तटाः (किनारे)।
८७. देवगिरौ कस्य निवासः अस्ति? उ० - स्कन्दस्य (कार्तिकेयस्य)।
८८. रन्तिदेवस्य कीर्तिः का नदी? उ० - चर्मण्वती (चम्बल)।
८९. महाभारतयुद्धे कः विमुखः अभवत्? उ० - बलरामः।
९०. बलरामः कस्याः जलं निषेवितवान्? उ० - सरस्वत्याः।
९१. कनखलसमीपे का नदी प्रवहति? उ० - जाह्नवी (गङ्गा)।
९२. कनखले गङ्गायां मेघच्छाया कीदृशी दृश्यते? उ० - गङ्गायमुनासङ्गमः इव।
९३. हिमालये मेघः कीदृशः शोभते? उ० - शिवस्य वृषभोत्खात-पङ्कः इव (बैल द्वारा उछाले कीचड़ जैसा)।
९४. हिमालये कस्य चरणचिह्नानि सन्ति? उ० - शिवस्य।
९५. क्रौञ्चरन्ध्रं कस्य यशः? उ० - भृगुपतेः (परशुरामस्य)।
९६. हंसाः केन मार्गेण गच्छन्ति? उ० - क्रौञ्चरन्ध्रेण।
९७. क्रौञ्चरन्ध्रे मेघः कीदृशः दृश्यते? उ० - विष्णोः श्यामपादरूपः।
९८. कैलासे मेघः कस्य अतिथिः भवति? उ० - कैलासस्य।
९९. पार्वत्याः कृते मेघः किं भवति? उ० - सोपानम् (सीढ़ी)।
१००. हिमालये दावाग्निं कः शमयति? उ० - मेघः।

४. उत्तरमेघः - अलकापुरी व सन्देशः

१०१. अलकायाः तुलना केन कृता? उ० - मेघेण सह।
१०२. अलकायाः वनिताः (स्त्रियाँ) कस्य उपमानम्? उ० - विद्युतः।
१०३. अलकायां यक्षाः किं पिबन्ति? उ० - रतिफल-मद्यम्।
१०४. यक्षकन्याः कुत्र क्रीडन्ति? उ० - मन्दाकिनी-तटे मन्दारछायायाम्।
१०५. कुबेरः कस्य भ्राता? उ० - रावणस्य।
१०६. यक्षभवनं कुबेरभवनात् कस्यां दिशि? उ० - उत्तरस्याम्।
१०७. यक्षभवने कः वृक्षः दत्तकपुत्रः इव? उ० - मन्दारवृक्षः।
१०८. यक्षभवने वापी (बावली) सोपानानि कीदृशानि? उ० - मरकतमणि-निर्मितानि।
१०९. क्रीडाशैले स्थितौ वृक्षौ कौ? उ० - रक्ताशोकः बकुलः (मौलसिरी) च।
११०. यक्षिण्याः पादाघातं कः वाञ्छति? उ० - रक्ताशोकः।
१११. यक्षिण्याः मुखमदिरां कः वाञ्छति? उ० - बकुलः।
११२. यक्षद्वारे कयोः चित्रं वर्तते? उ० - शङ्ख-पद्मयोः।
११३. यक्षभवने पिञ्जरस्था का? उ० - सारिका।
११४. यक्षिणी किं वादयति? उ० - वीणाम्।
११५. यक्षिणी विरहदिवसान् कथं गणयति? उ० - पुष्पविन्यासेन।
११६. मेघदर्शने यक्षिण्याः किमङ्गं स्फुरितम्? उ० - वामनेत्रं ऊरुः च।
११७. शापान्तः कदा भविष्यति? उ० - हरिबोधिन्यां (देवोत्थान-एकादश्याम्)।
११८. यक्षः अभिज्ञानं (निशानी) किं ददाति? उ० - स्वप्नवृत्तान्तम्।
११९. यक्षस्य अन्तिमकामना का? उ० - मेघस्य विद्युता सह वियोगः मा भूत्।

शब्दार्थ-परिशिष्टः (Vocabulary)

प्रकोष्ठः = मणिबन्धः (Wrist)
प्रत्यग्रैः = नूतनैः / सद्यः छिन्नैः
गुह्यकः = यक्षः
मोघा = निष्फला
प्रत्ययात् = विश्वासात्
कौलीनात् = लोकापवादात्
दाम = माला
प्रतनु = कृशम् (पतला)
नभसि = श्रावणमासे

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!