शुकनासोपदेश संस्कृत सार (Shuknasopdesh Sanskrit)

Sooraj Krishna Shastri
By -
0

शुकनासोपदेशः

॥ कादम्बरी कथायाः सारगर्भितः अंशः ॥

१. प्रस्तावना एवं युवावस्था का अंधकार
तात चन्द्रापीड ! विदितवेदितव्यस्य अधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति। केवलं च निसर्गत एव अभानुभेद्यम्, अरत्नालोकच्छेद्यम्, अप्रदीपप्रभापनेयम् अतिगहनं तमो यौवनप्रभवम्। अपरिणामोपशमो दारुणो लक्ष्मीमदः। कष्टमनञ्जनवर्तिसाध्यं अपरमार्थ-तिमिरान्धत्वम्। अशिशिरोपचारहार्योऽति-तीव्रदर्प-दाहज्वरोष्मा। सततममूलमन्त्रगम्यः विषमो विषयविषास्वादमोहः। नित्यमस्नानशौचबाध्यो बलवान् रागमलावलेपः। अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसन्निपातनिद्रा भवतीति विस्तरेणाभिधीयसे।
२. अनर्थ-परम्परा
र्भेश्वरत्वम्, अभिनवयौवनत्वम्, अप्रतिमरूपत्वम्, अमानुषशक्तित्वं चेति महतीयं खलु अनर्थपरम्परा। सर्वाः, अविनयानामेकैकमप्येषां आयतनम्, किमुत समवायः? यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः। अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः। अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः।
३. लक्ष्मी का स्वरूप (दोष-वर्णन)
लोकयतु तावत् कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम्। इयं हि सुभट-खड्गमण्डल-उत्पलवन-विभ्रमभ्रमरी लक्ष्मीः क्षीरसागरात् पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैःश्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेर्नैष्ठुर्यम् इत्येतानि सहवासपरिचयवशाद् विरहविनोदचिह्नानि गृहीत्वैवोद्गता।

न ह्येवंविधमपरिचितमिह जगति किञ्चिदस्ति यथेयमनार्या। लब्धापि खलु दुःखेन परिपाल्यते। दृढगुणपाशसन्दाननिस्पन्दीकृतापि नश्यति। गन्धर्वनगरलेखेव पश्यत एव नश्यति।
४. गुणवानों के प्रति लक्ष्मी का व्यवहार
इयं परिचयं रक्षति, नाभिजनमीक्षते, न रूपमालोकयते, न कुलक्रममनुवर्तते, न शीलं पश्यति, न वैदग्ध्यं गणयति, न श्रुतमाकर्णयति, न धर्ममनुरुध्यते, न त्यागमाद्रियते, न विशेषज्ञतां विचारयति।

सरस्वतीपरिगृहीतमीर्ष्ययेव नालिङ्गति जनम्। गुणवन्तं अपवित्रमिव न स्पृशति। उदाराशयम् अमङ्गलमिव न बहुमन्यते। सुजनमनिमित्तमिव न पश्यति। अभिजातम् अहिभिव लङ्घयति। शूरं कण्टकमिव परिहरति। दातारं दुःस्वप्नमिव न स्मरति।
५. राजाओं की दुर्दशा
थ एतस्याः (लक्ष्म्याः) कथमपि दैववशेन परिगृहीता विक्लवा भवन्ति राजानः। सर्वाविनयाधिष्ठानतां च गच्छन्ति। तथा हि— अभिषेकसमय एव एषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्। अग्निकार्यधूमेनैव मलिनीक्रियते हृदयम्। पुरोहितकुशाग्रसम्मार्जनीभिरिव अपनीयते क्षान्तिः। उष्णीषपट्टबन्धेनैव आच्छाद्यते जरागमनस्मरणम्। आतपत्रमण्डलेनैव अपवार्यते परलोकदर्शनम्। चामरपवनैः अपह्रियते सत्यवादिता। वेत्रदण्डैः उत्सार्यन्ते गुणाः।
६. उपदेश का सार
देतदभिनन्द्य, 'कथमियं न विप्रलभ्यसे वितृष्णया, न बाध्यसे वित्तभ्रमैः, नोपहस्यसे जनेन, न निन्द्यसे साधुभिः, न धिक्क्रियसे गुरुभिः' ... तथा व्यवहर। कामं भवान् प्रकृत्यैव धीरः, पित्रा च महता प्रयत्नेन समारोपितसंस्कारः, तथापि भवद्गुणसन्तोषः मामेवं मुखरीकृतवान्।

"अतिगहनं हि यौवनप्रभवं तमः।" इति उक्त्वा शुकनासः उपशशाम।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!