संस्कृतमासानां नामानि
परिशिष्टम् ४ — इरावती (कक्षा ९)
- १. कालगणनायाः परिचयः (भारतीय संस्कृति में महीने एवं नक्षत्र)
- २. द्वादश मासानां नामानि (संस्कृत महीने, अंग्रेजी अवधि एवं विवरण)
- ३. अभ्यासः (बोध प्रश्न) (मास-सम्बद्ध प्रश्नोत्तराणि)
प्रस्तुति: bhagwatdarshan.com
१. द्वादश मासानां नामानि विवरणं च
भूमिका: अस्माकं भारतीयसंस्कृतौ कालगणनायाः महत्त्वं वर्तते। चान्द्रमासस्य आधारेण वर्षे द्वादश (१२) मासाः भवन्ति। एतेषां मासानां नामानि नक्षत्रैः सह सम्बद्धानि सन्ति।
(हमारी भारतीय संस्कृति में काल-गणना का बहुत महत्त्व है। चन्द्रमा की गति के आधार पर वर्ष में बारह महीने होते हैं। इन महीनों के नाम नक्षत्रों के साथ जुड़े हुए हैं।)
(हमारी भारतीय संस्कृति में काल-गणना का बहुत महत्त्व है। चन्द्रमा की गति के आधार पर वर्ष में बारह महीने होते हैं। इन महीनों के नाम नक्षत्रों के साथ जुड़े हुए हैं।)
| संस्कृत मासः | आङ्ग्ल मासः (अवधिः) | विशेषता / विवरणम् |
|---|---|---|
| १. चैत्रः | मार्च - अप्रैल | एषः वर्षस्य प्रथमः मासः अस्ति। अस्मिन् मासे नववर्षस्य आरम्भः भवति। |
| २. वैशाखः | अप्रैल - मई | अस्मिन् मासे अतीव सुखदं वातावरणं भवति, कृषकाः च पक्वेशस्यं कृन्तन्ति। |
| ३. ज्येष्ठः | मई - जून | एषः ग्रीष्मकालस्य मुख्यः मासः अस्ति। अस्मिन् मासे सूर्यस्य आतपः प्रचण्डः भवति। |
| ४. आषाढः | जून - जुलाई | अस्मिन् मासे आकाशे मेघाः आगच्छन्ति, वर्षाकालस्य च आरम्भः भवति। |
| ५. श्रावणः | जुलाई - अगस्त | एषः मासः शिवस्य प्रियः अस्ति। परितः सर्वत्र हरितिमा दृश्यते। |
| ६. भाद्रपदः | अगस्त - सितंबर | अस्मिन् मासे श्रीकृष्णजन्माष्टमी, गणेशोत्सवः च भवति। |
| ७. आश्विनः | सितंबर - अक्टूबर | एषः शरदृतोः मासः अस्ति। अस्मिन् मासे दुर्गापूजा (नवरात्रं) विजयदशमी च आयोज्येते। |
| ८. कार्तिकः | अक्टूबर - नवंबर | अस्मिन् पवित्रमासे दीपावली-उत्सवः भवति। प्रकाशस्य पर्व इदम्। |
| ९. मार्गशीर्षः | नवंबर - दिसंबर | एषः मासः 'आग्रहायण' इति नाम्ना अपि ज्ञायते। अस्मिन् समये मन्दं मन्दं शीतं भवति। |
| १०. पौषः | दिसंबर - जनवरी | एषः अत्यधिकशीतस्य मासः अस्ति। सूर्यस्य प्रकाशः अपि मन्दः प्रतीयते। |
| ११. माघः | जनवरी - फरवरी | अस्मिन् मासे प्रयागे पवित्रस्नानस्य महत्त्वं वर्तते। वसन्तपञ्चमी अपि अस्मिन्नेव मासे भवति। |
| १२. फाल्गुनः | फरवरी - मार्च | एषः वर्षस्य अन्तिमः मासः अस्ति। अस्मिन् मासे आनन्दस्य पर्व 'होलिकोत्सवः' भवति। |
२. अभ्यासः एवं भारतीय-पञ्चाङ्गम्
✦ अभ्यासः (बोध-प्रश्नाः)
प्रश्न १: वर्षस्य प्रथमः मासः कः अस्ति ?
उत्तरः वर्षस्य प्रथमः मासः चैत्रः अस्ति।
प्रश्न २: दीपावली कस्मिन् मासे भवति ?
उत्तरः दीपावली कार्तिकमासे भवति।
प्रश्न ३: होलिका-उत्सवः कस्य मासस्य अन्ते भवति ?
उत्तरः होलिका-उत्सवः फाल्गुनमासस्य अन्ते भवति।
✦ भारतीय-मासानाम् नाम-स्मरण सूची
• चैत्रः | • वैशाखः | • ज्येष्ठः | • आषाढः | • श्रावणः | • भाद्रपदः
• आश्विनः | • कार्तिकः | • मार्गशीर्षः | • पौषः | • माघः | • फाल्गुनः
विशेषः: चैत्रमासात् आरभ्य फाल्गुनमासं यावत् एते मासाः भारतीयपञ्चाङ्गस्य आधाराः सन्ति। एतेषां ज्ञानेन वयं स्वसंस्कृतिं ज्ञातुं शक्नुमः।
