UGC NET/JRF Sanskrit: समास प्रकरण के 100 महत्वपूर्ण बहुविकल्पीय प्रश्न (MCQs)

Sooraj Krishna Shastri
By -
0
UGC NET/JRF Sanskrit: समास प्रकरण के 100 महत्वपूर्ण बहुविकल्पीय प्रश्न (MCQs)
उच्चस्तरीय संस्कृत प्रतियोगी परीक्षाओं (UGC NET, JRF, SLET, Assistant Professor) की तैयारी को सुदृढ़ करने हेतु वैयाकरणसिद्धान्तकौमुदी तथा अष्टाध्यायी के आधार पर 'समास' प्रकरण के १०० महत्वपूर्ण एवं परीक्षापयोगी बहुविकल्पीय प्रश्नाः (MCQs) अत्र प्रस्तूयन्ते। एतेषां प्रश्नानां अभ्यासः शास्त्रस्य सूक्ष्मसिद्धान्तानां स्पष्टतायै परमोपयोगी सिद्ध्यति।

१. 'परार्थाभिधानम्' इत्यस्य कृते शास्त्रे का संज्ञा विहिता?

  • (क) सन्धिः
  • (ख) समासः
  • (ग) वृत्तिः
  • (घ) प्रातिपदिकम्

उत्तरम्: (ग) वृत्तिः

२. वैयाकरणसिद्धान्तकौमुदीकारमते पाणिनीयव्याकरणे वृत्तयः कतिविधाः?

  • (क) त्रिविधाः
  • (ख) चतुर्विधाः
  • (ग) पञ्चविधाः
  • (घ) षड्विधाः

उत्तरम्: (ग) पञ्चविधाः

३. 'समर्थः पदविधिः' (२.१.१) इति सूत्रं कीदृशं सूत्रम् अस्ति?

  • (क) विधिम्
  • (ख) नियमम्
  • (ग) अधिकारम्
  • (घ) परिभाषासूत्रम्

उत्तरम्: (घ) परिभाषासूत्रम्

४. वैयाकरणमते वृत्तिषु (समासादिषु) कीदृशं सामर्थ्यम् अङ्गीक्रियते?

  • (क) व्यपेक्षालक्षणम्
  • (ख) एकार्थीभावलक्षणम्
  • (ग) आकाङ्क्षालक्षणम्
  • (घ) सन्निधिलक्षणम्

उत्तरम्: (ख) एकार्थीभावलक्षणम्

५. मीमांसकमते वाक्ये कीदृशं सामर्थ्यं स्वीक्रियते?

  • (क) व्यपेक्षालक्षणम्
  • (ख) एकार्थीभावलक्षणम्
  • (ग) जहत्स्वार्था
  • (घ) अजहत्स्वार्था

उत्तरम्: (क) व्यपेक्षालक्षणम्

६. अवयवार्थनिरपेक्षत्वे सति समुदायार्थबोधिका वृत्तिः का उच्यते?

  • (क) अजहत्स्वार्था
  • (ख) जहत्स्वार्था
  • (ग) व्यपेक्षा
  • (घ) एकशेषः

उत्तरम्: (ख) जहत्स्वार्था

७. अवयवार्थसंवलितसमुदायार्थबोधिका वृत्तिः का?

  • (क) अजहत्स्वार्था
  • (ख) जहत्स्वार्था
  • (ग) अलुक्
  • (घ) उपसर्जनम्

उत्तरम्: (क) अजहत्स्वार्था

८. 'राजपुरुषः' इत्यस्य लौकिकविग्रहः कः?

  • (क) राजन् ङस् पुरुष सु
  • (ख) राज्ञः पुरुषः
  • (ग) राज्ञा पुरुषः
  • (घ) राजा च पुरुषश्च

उत्तरम्: (ख) राज्ञः पुरुषः

९. 'राजपुरुषः' इत्यस्य अलौकिकविग्रहः कः?

  • (क) राज्ञः पुरुषः
  • (ख) राजन् सु पुरुष सु
  • (ग) राजन् ङस् पुरुष सु
  • (घ) राजन् आम् पुरुष सु

उत्तरम्: (ग) राजन् ङस् पुरुष सु

१०. अष्टाध्याय्यां समासाधिकारः कुतः आरभ्यते?

  • (क) सह सुपा इत्यस्मात्
  • (ख) समर्थः पदविधिः इत्यस्मात्
  • (ग) प्राक् कडारात् समासात्
  • (घ) अव्ययीभावः इत्यस्मात्

उत्तरम्: (ग) प्राक् कडारात् समासात्

११. समासविधायकसूत्रे यत् पदं प्रथमाविभक्त्या निर्दिष्टं भवति, तस्य का संज्ञा?

  • (क) निष्ठा
  • (ख) घि
  • (ग) उपसर्जनम्
  • (घ) नदी

उत्तरम्: (ग) उपसर्जनम्

१२. उपसर्जनसंज्ञकस्य पदस्य समासे कुत्र प्रयोगः विहितः?

  • (क) परम्
  • (ख) पूर्वम्
  • (ग) मध्यम्
  • (घ) विकल्पेन

उत्तरम्: (ख) पूर्वम्

१३. प्रक्रियानिर्वाहार्थं व्याकरणशास्त्रप्रयोज्यः विग्रहः कः?

  • (क) लौकिकविग्रहः
  • (ख) अलौकिकविग्रहः
  • (ग) नित्यविग्रहः
  • (घ) अस्वपदविग्रहः

उत्तरम्: (ख) अलौकिकविग्रहः

१४. समासे जाते 'कृत्तद्धितसमासाश्च' इति सूत्रेण का संज्ञा भवति?

  • (क) पदसंज्ञा
  • (ख) भसंज्ञा
  • (ग) प्रातिपदिकसंज्ञा
  • (घ) सर्वनामसंज्ञा

उत्तरम्: (ग) प्रातिपदिकसंज्ञा

१५. प्रातिपदिकसंज्ञायां सत्यां 'सुपो धातुप्रातिपदिकयोः' सूत्रेण किं भवति?

  • (क) सुपो लुक्
  • (ख) सुपोऽलुक्
  • (ग) नुडागमः
  • (घ) सुडागमः

उत्तरम्: (क) सुपो लुक्

१६. विशेषसंज्ञाविनिर्मुक्तः समासः कः?

  • (क) तत्पुरुषः
  • (ख) केवलसमासः
  • (ग) बहुव्रीहिः
  • (घ) द्वन्द्वः

उत्तरम्: (ख) केवलसमासः

१७. 'भूतपूर्वः' इत्यत्र पूर्वशब्दस्य पूर्वनिपातः केन ज्ञापकेन भवति?

  • (क) उपसर्जनं पूर्वम्
  • (ख) भूतपूर्वे चरट्
  • (ग) सह सुपा
  • (घ) अल्पाच्तरम्

उत्तरम्: (ख) भूतपूर्वे चरट्

१८. 'वागर्थाविव' इत्यत्र अलुक्समासः केन वार्त्तिकेन विधीयते?

  • (क) इवेन समासो विभक्त्यलोपश्च
  • (ख) सह सुपा
  • (ग) शाकपार्थिवादीनाम्
  • (घ) राजदन्तादिषु परम्

उत्तरम्: (क) इवेन समासो विभक्त्यलोपश्च

१९. सुपो लुकि अङ्गविकारे प्राप्तेऽपि प्रातिपदिकत्वं केन परिभाषया सिद्ध्यति?

  • (क) सन्निपातलक्षणः
  • (ख) एकदेशविकृतमनन्यवत्
  • (ग) अर्थवद्ग्रहणे
  • (घ) अन्तरङ्गानपि विधीन्

उत्तरम्: (ख) एकदेशविकृतमनन्यवत्

२०. 'वागर्थाविव' इत्यत्र 'औ' इत्यस्य स्थाने 'आव्' आदेशः केन सूत्रेण?

  • (क) इको यणचि
  • (ख) एचोऽयवायावः
  • (ग) एङ् पदान्तादति
  • (घ) आद्गुणः

उत्तरम्: (ख) एचोऽयवायावः

२१. प्रायेण पूर्वपदार्थप्रधानः समासः कः?

  • (क) तत्पुरुषः
  • (ख) बहुव्रीहिः
  • (ग) अव्ययीभावः
  • (घ) द्वन्द्वः

उत्तरम्: (ग) अव्ययीभावः

२२. अव्ययीभावसमासः नित्यं कस्मिन् लिङ्गे प्रयुज्यते?

  • (क) पुंलिङ्गे
  • (ख) स्त्रीलिङ्गे
  • (ग) नपुंसकलिङ्गे
  • (घ) त्रिषु लिङ्गेषु

उत्तरम्: (ग) नपुंसकलिङ्गे

२३. 'अव्ययं विभक्तिसमीप...' सूत्रेण अव्ययस्य समर्थसुबन्तेन सह कति अर्थेषु समासः भवति?

  • (क) दशार्थेषु
  • (ख) द्वादशार्थेषु
  • (ग) चतुर्दशार्थेषु
  • (घ) षोडशार्थेषु

उत्तरम्: (घ) षोडशार्थेषु

२४. 'अधिहरि' इत्यत्र 'अधि' अव्ययं कस्मिन् अर्थे विद्यते?

  • (क) समीपार्थे
  • (ख) विभक्त्यर्थे
  • (ग) सादृश्यार्थे
  • (घ) अत्ययार्थे

उत्तरम्: (ख) विभक्त्यर्थे

२५. 'उपकृष्णम्' इत्यत्र 'उप' अव्ययं कस्मिन् अर्थे विद्यते?

  • (क) समीपार्थे
  • (ख) विभक्त्यर्थे
  • (ग) अभावार्थे
  • (घ) साकल्यार्थे

उत्तरम्: (क) समीपार्थे

२६. 'सुमद्रम्' इत्यस्य लौकिकविग्रहः कः?

  • (क) मद्राणां समीपम्
  • (ख) मद्राणां समृद्धिः
  • (ग) मद्रस्य अभावः
  • (घ) मद्रेषु इति

उत्तरम्: (ख) मद्राणां समृद्धिः

२७. 'दुर्यवनम्' इत्यत्र 'दुर्' अव्ययं कस्मिन् अर्थे प्रयुक्तम्?

  • (क) व्यृद्ध्यर्थे
  • (ख) समृद्ध्यर्थे
  • (ग) अत्ययार्थे
  • (घ) अभावार्थे

उत्तरम्: (क) व्यृद्ध्यर्थे

२८. 'निर्मक्षिकम्' इत्यस्य लौकिकविग्रहः कः?

  • (क) मक्षिकाणाम् अत्ययः
  • (ख) मक्षिकाणाम् अभावः
  • (ग) मक्षिकाणां पश्चात्
  • (घ) मक्षिकाणाम् सम्पत्तिः

उत्तरम्: (ख) मक्षिकाणाम् अभावः

२९. 'अतिहिमम्' इत्यत्र 'अति' इति अव्ययं किम् अर्थं द्योतयति?

  • (क) अत्ययार्थम् (नाशः)
  • (ख) असम्प्रत्यर्थम्
  • (ग) समीपार्थम्
  • (घ) व्यृद्ध्यर्थम्

उत्तरम्: (क) अत्ययार्थम् (नाशः)

३०. 'निद्रा सम्प्रति न युज्यते' इत्यर्थे कः अव्ययीभावसमासः?

  • (क) अनिद्रम्
  • (ख) अतिनिद्रम्
  • (ग) उपनिद्रम्
  • (घ) निर्निद्रम्

उत्तरम्: (ख) अतिनिद्रम्

३१. 'इतिहरि' इत्यत्र 'इति' अव्ययं कस्मिन् अर्थे वर्तते?

  • (क) पश्चादर्थे
  • (ख) सादृश्यार्थे
  • (ग) शब्दप्रादुर्भावार्थे
  • (घ) साकल्यार्थे

उत्तरम्: (ग) शब्दप्रादुर्भावार्थे

३२. 'अनुविष्णु' इत्यस्य विग्रहवाक्यं किम्?

  • (क) विष्णुम् अनु
  • (ख) विष्णोः पश्चात्
  • (ग) विष्णोः समीपम्
  • (घ) विष्णौ इति

उत्तरम्: (ख) विष्णोः पश्चात्

३३. 'यथाशक्ति' इत्यत्र यथाशब्दः 'यथार्थे' कस्य भेदस्य द्योतकः?

  • (क) योग्यता
  • (ख) वीप्सा
  • (ग) पदार्थानतिवृत्तिः
  • (घ) सादृश्यम्

उत्तरम्: (ग) पदार्थानतिवृत्तिः

३४. 'अनुज्येष्ठम्' इत्यत्र अनु-अव्ययं कस्मिन् अर्थे प्रयुक्तम्?

  • (क) पश्चादर्थे
  • (ख) आनुपूर्व्यार्थे (क्रमः)
  • (ग) सादृश्यार्थे
  • (घ) सम्पत्त्यर्थे

उत्तरम्: (ख) आनुपूर्व्यार्थे (क्रमः)

३५. 'चक्रेण युगपत्' इत्यर्थे कः अव्ययीभावसमासः?

  • (क) युगपच्चक्रम्
  • (ख) अनुचक्रम्
  • (ग) सचक्रम्
  • (घ) सहचक्रम्

उत्तरम्: (ग) सचक्रम् (यौगपद्यार्थे)

३६. 'ससखि' इत्यत्र स-आदेशः कस्मिन् अर्थे विहितः?

  • (क) सादृश्यार्थे
  • (ख) सम्पत्त्यर्थे
  • (ग) साकल्यार्थे
  • (घ) अन्तवचनार्थे

उत्तरम्: (क) सादृश्यार्थे

३७. 'क्षत्राणां सम्पत्तिः' इत्यर्थे कः अव्ययीभावः?

  • (क) साक्षत्रम्
  • (ख) सक्षत्रम्
  • (ग) अतिक्षत्रम्
  • (घ) उपक्षत्रम्

उत्तरम्: (ख) सक्षत्रम्

३८. 'तृणम् अपि अपरित्यज्य' इत्यर्थे कः समासः?

  • (क) निर्तृणम्
  • (ख) अतितृणम्
  • (ग) सतृणम्
  • (घ) उपतृणम्

उत्तरम्: (ग) सतृणम् (साकल्यार्थे)

३९. 'साग्नि' इत्यत्र स-आदेशः कस्मिन् अर्थे वर्तते?

  • (क) अन्तवचनार्थे
  • (ख) साकल्यार्थे
  • (ग) सादृश्यार्थे
  • (घ) यौगपद्यार्थे

उत्तरम्: (क) अन्तवचनार्थे

४०. 'अव्ययीभावे चाकाले' (६.३.८१) इति सूत्रेण अव्ययीभावसमासे सह-इत्यस्य कः आदेशः भवति?

  • (क) सु-आदेशः
  • (ख) सा-आदेशः
  • (ग) स-आदेशः
  • (घ) सम्-आदेशः

उत्तरम्: (ग) स-आदेशः

४१. 'नाव्ययीभावादतोऽम्त्वपञ्चम्याः' इत्यनेन अदन्तात् अव्ययीभावात् सुप्-विभक्तेः स्थाने कः आदेशः भवति?

  • (क) लुक्
  • (ख) आम्
  • (ग) अम्
  • (घ) सु

उत्तरम्: (ग) अम्

४२. प्रायेणोत्तरपदार्थप्रधानः समासः कः?

  • (क) अव्ययीभावः
  • (ख) तत्पुरुषः
  • (ग) बहुव्रीहिः
  • (घ) द्वन्द्वः

उत्तरम्: (ख) तत्पुरुषः

४३. 'कष्टश्रितः' इत्यत्र केन सूत्रेण द्वितीयातत्पुरुषः विधीयते?

  • (क) द्वितीया श्रितातीत...
  • (ख) तृतीया तत्कृतार्थेन...
  • (ग) चतुर्थी तदर्थार्थ...
  • (घ) पञ्चमी भयेन

उत्तरम्: (क) द्वितीया श्रितातीत...

४४. 'नखभिन्नः' इत्यत्र केन सूत्रेण तृतीयातत्पुरुषः भवति?

  • (क) तृतीया तत्कृतार्थेन
  • (ख) कर्तृकरणे कृता बहुलम्
  • (ग) पूर्वसदृशसमोन...
  • (घ) पञ्चमी भयेन

उत्तरम्: (ख) कर्तृकरणे कृता बहुलम्

४५. 'यूपाय दारु' इत्यस्य समस्तपदं किम्?

  • (क) दारुयूपः
  • (ख) यूपदारु
  • (ग) यूपदारुम्
  • (घ) दारुयूपम्

उत्तरम्: (ख) यूपदारु

४६. 'यूपदारु' इत्यत्र 'तदर्थ' शब्दस्य कः अर्थः गृहीतः?

  • (क) कार्यकारणभावः
  • (ख) प्रकृतिविकृतिभावः
  • (ग) अङ्गाङ्गिभावः
  • (घ) विशेषणविशेष्यभावः

उत्तरम्: (ख) प्रकृतिविकृतिभावः

४७. 'चोरभयम्' इत्यत्र पञ्चमीतत्पुरुषः केन सूत्रेण?

  • (क) पञ्चमी भयेन
  • (ख) स्तोकान्तिकदूरार्थ...
  • (ग) अपादाने पञ्चमी
  • (घ) चतुर्थी तदर्थार्थ...

उत्तरम्: (क) पञ्चमी भयेन

४८. 'स्तोकान्मुक्तः' इत्यत्र पञ्चमीविभक्तेः अलुक् केन सूत्रेण भवति?

  • (क) पञ्चमी भयेन
  • (ख) स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन
  • (ग) अलुगुत्तरपदे
  • (घ) पञ्चम्याः स्तोकादिभ्यः

उत्तरम्: (ख) स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन

४९. 'अक्षशौण्डः' इत्यस्य लौकिकविग्रहः कः?

  • (क) अक्षैः शौण्डः
  • (ख) अक्षेषु शौण्डः
  • (ग) अक्षात् शौण्डः
  • (घ) अक्षाणां शौण्डः

उत्तरम्: (ख) अक्षेषु शौण्डः

५०. 'न ब्राह्मणः इति अब्राह्मणः' इत्यत्र केन सूत्रेण नञ्-समासः?

  • (क) नलोपो नञः
  • (ख) तस्मान्नुडचि
  • (ग) नञ्
  • (घ) कुगतिप्रादयः

उत्तरम्: (ग) नञ्

५१. नञ्-समासे 'अब्राह्मणः' इत्यत्र नञ्-अव्ययस्य नकारस्य लोपः केन भवति?

  • (क) नलोपो नञः
  • (ख) तस्मान्नुडचि
  • (ग) हलोऽनन्तराः
  • (घ) अलोऽन्त्यस्य

उत्तरम्: (क) नलोपो नञः

५२. 'अनश्वः' इत्यत्र अजादिपदे परे नुट्-आगमः केन सूत्रेण भवति?

  • (क) नलोपो नञः
  • (ख) तस्मान्नुडचि
  • (ग) आद्यन्तौ टकितौ
  • (घ) अतो गुणे

उत्तरम्: (ख) तस्मान्नुडचि

५३. 'देशान्तरम्' इत्यत्र कीदृशः समासः?

  • (क) नित्यसमासः (मयूरव्यंसकादिः)
  • (ख) बहुव्रीहिः
  • (ग) द्वन्द्वः
  • (घ) अव्ययीभावः

उत्तरम्: (क) नित्यसमासः (मयूरव्यंसकादिः)

५४. समानाधिकरणः तत्पुरुषः कान् संज्ञां लभते?

  • (क) द्विगुसंज्ञाम्
  • (ख) कर्मधारयसंज्ञाम्
  • (ग) उपपदसंज्ञाम्
  • (घ) नित्यसंज्ञाम्

उत्तरम्: (ख) कर्मधारयसंज्ञाम्

५५. 'नीलोत्पलम्' इत्यत्र विशेषणस्य पूर्वनिपातः केन सूत्रेण?

  • (क) विशेषणं विशेष्येण बहुलम्
  • (ख) उपमानानि सामान्यवचनैः
  • (ग) मयूरव्यंसकादयश्च
  • (घ) राजदन्तादिषु परम्

उत्तरम्: (क) विशेषणं विशेष्येण बहुलम्

५६. 'स्नातानुलिप्तः' इत्यत्र कीदृशः कर्मधारयः?

  • (क) उपमानपूर्वपदः
  • (ख) विशेषणपूर्वपदः
  • (ग) विशेषणोभयपदकर्मधारयः
  • (घ) रूपककर्मधारयः

उत्तरम्: (ग) विशेषणोभयपदकर्मधारयः

५७. 'घन इव श्यामः इति घनश्यामः' इत्यत्र समासविधायकं सूत्रं किम्?

  • (क) विशेषणं विशेष्येण बहुलम्
  • (ख) उपमानानि सामान्यवचनैः
  • (ग) उपमितं व्याघ्रादिभिः...
  • (घ) मयूरव्यंसकादयश्च

उत्तरम्: (ख) उपमानानि सामान्यवचनैः

५८. 'शाकपार्थिवः' इत्यत्र उत्तरपदस्य (प्रिय-शब्दस्य) लोपः केन भवति?

  • (क) नलोपो नञः
  • (ख) शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्
  • (ग) अव्ययादाप्सुपः
  • (घ) तस्मान्नुडचि

उत्तरम्: (ख) शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्

५९. 'देवपूजको ब्राह्मणः इति देवब्राह्मणः' अत्र कीदृशः समासः?

  • (क) बहुव्रीहिः
  • (ख) उत्तरपदलोपी कर्मधारयः
  • (ग) नित्यसमासः
  • (घ) द्वन्द्वः

उत्तरम्: (ख) उत्तरपदलोपी कर्मधारयः

६०. 'संख्यापूर्वो द्विगुः' इति सूत्रेण कस्य संज्ञा विधीयते?

  • (क) तत्पुरुषस्य
  • (ख) द्वन्द्वस्य
  • (ग) द्विगुसमासस्य
  • (घ) अव्ययीभावस्य

उत्तरम्: (ग) द्विगुसमासस्य

६१. 'तद्धितार्थोत्तरपदसमाहारे च' सूत्रेण कस्य समासस्य विधानं भवति?

  • (क) बहुव्रीहिः
  • (ख) अव्ययीभावः
  • (ग) द्विगुसमासः (तत्पुरुषः)
  • (घ) द्वन्द्वः

उत्तरम्: (ग) द्विगुसमासः (तत्पुरुषः)

६२. 'पञ्चगवम्' इत्यस्य अलौकिकविग्रहः कः?

  • (क) पञ्चन् सु गो सु
  • (ख) पञ्चन् आम् गो आम्
  • (ग) पञ्च गो सु
  • (घ) पञ्चानां गवां समाहारः

उत्तरम्: (ख) पञ्चन् आम् गो आम्

६३. 'पञ्चगवम्' इत्यत्र गो-शब्दान्तात् तत्पुरुषात् कः समासान्तप्रत्ययः भवति?

  • (क) अच्
  • (ख) षच्
  • (ग) टच्
  • (घ) डच्

उत्तरम्: (ग) टच् (गोरतद्धितलुकि)

६४. समाहारद्विगुः प्रायः कस्मिन् वचने प्रयुज्यते?

  • (क) एकवचने
  • (ख) द्विवचने
  • (ग) बहुवचने
  • (घ) सर्वेषु वचनेषु

उत्तरम्: (क) एकवचने

६५. समाहारद्विगुः नित्यं कस्मिन् लिङ्गे भवति?

  • (क) पुंलिङ्गे
  • (ख) स्त्रीलिङ्गे
  • (ग) नपुंसकलिङ्गे
  • (घ) अनियतलिङ्गे

उत्तरम्: (ग) नपुंसकलिङ्गे

६६. 'प्रायेणान्यपदार्थप्रधानः' कः समासः?

  • (क) तत्पुरुषः
  • (ख) बहुव्रीहिः
  • (ग) द्वन्द्वः
  • (घ) अव्ययीभावः

उत्तरम्: (ख) बहुव्रीहिः

६७. प्रथमान्तानाम् अनेकपदानाम् अन्यपदार्थे वर्तमानानां बहुव्रीहिः केन सूत्रेण?

  • (क) अनेकमन्यपदार्थे
  • (ख) शेषो बहुव्रीहिः
  • (ग) सप्तमीविशेषणे बहुव्रीहौ
  • (घ) चार्थे द्वन्द्वः

उत्तरम्: (क) अनेकमन्यपदार्थे

६८. 'पीतम् अम्बरं यस्य सः पीताम्बरः' अत्र कीदृशः बहुव्रीहिः?

  • (क) व्यधिकरणबहुव्रीहिः
  • (ख) समानाधिकरणबहुव्रीहिः
  • (ग) सङ्ख्याबहुव्रीहिः
  • (घ) नञ्बहुव्रीहिः

उत्तरम्: (ख) समानाधिकरणबहुव्रीहिः

६९. 'चक्रं पाणौ यस्य सः चक्रपाणिः' अत्र कीदृशः बहुव्रीहिः?

  • (क) व्यधिकरणबहुव्रीहिः
  • (ख) समानाधिकरणबहुव्रीहिः
  • (ग) सहबहुव्रीहिः
  • (घ) व्यतिहारबहुव्रीहिः

उत्तरम्: (क) व्यधिकरणबहुव्रीहिः

७०. 'कण्ठेकालः' इत्यस्य विग्रहः कः?

  • (क) कण्ठस्य कालः
  • (ख) कण्ठे कालः यस्य सः
  • (ग) कण्ठाय कालः
  • (घ) कण्ठः च कालः च

उत्तरम्: (ख) कण्ठे कालः यस्य सः

७१. 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति सूत्रेण कः प्रत्ययः?

  • (क) अच्
  • (ख) टच्
  • (ग) षच्
  • (घ) डच्

उत्तरम्: (ग) षच्

७२. 'पद्माक्षः' इत्यत्र अक्षि-शब्दात् कः समासान्तप्रत्ययः भवति?

  • (क) टच्
  • (ख) अच्
  • (ग) षच्
  • (घ) खच्

उत्तरम्: (ग) षच्

७३. 'प्रायेणोभयपदार्थप्रधानः' समासः कः?

  • (क) द्वन्द्वः
  • (ख) द्विगुः
  • (ग) बहुव्रीहिः
  • (घ) तत्पुरुषः

उत्तरम्: (क) द्वन्द्वः

७४. द्वन्द्वसमासः केन सूत्रेण विधीयते?

  • (क) सह सुपा
  • (ख) अनेकमन्यपदार्थे
  • (ग) चार्थे द्वन्द्वः
  • (घ) द्वन्द्वे घि

उत्तरम्: (ग) चार्थे द्वन्द्वः

७५. द्वन्द्वसमासे च-अव्ययस्य कति अर्थेषु समासः भवति?

  • (क) समुच्चय-अन्वाचययोः
  • (ख) इतरेतरयोग-समाहारयोः
  • (ग) चतुर्षु अर्थेषु
  • (घ) केवलम् इतरेतरयोगे

उत्तरम्: (ख) इतरेतरयोग-समाहारयोः

७६. 'शिवकेशवौ' इत्यत्र कः द्वन्द्वः?

  • (क) समाहारद्वन्द्वः
  • (ख) एकशेषद्वन्द्वः
  • (ग) इतरेतरयोगद्वन्द्वः
  • (घ) नित्यद्वन्द्वः

उत्तरम्: (ग) इतरेतरयोगद्वन्द्वः

७७. 'पाणी च पादौ च एषां समाहारः इति पाणिपादम्' अत्र कः द्वन्द्वः?

  • (क) इतरेतरयोगद्वन्द्वः
  • (ख) समाहारद्वन्द्वः
  • (ग) एकशेषः
  • (घ) अव्ययीभावः

उत्तरम्: (ख) समाहारद्वन्द्वः

७८. प्राण्यङ्गानां समाहारे द्वन्द्वसमासस्य किं वद्भावः विधीयते?

  • (क) एकवद्भावः
  • (ख) द्विवद्भावः
  • (ग) बहुवद्भावः
  • (घ) अव्ययवद्भावः

उत्तरम्: (क) एकवद्भावः

७९. 'रथाश्वारोहम्' इत्यत्र एकवद्भावः केन सूत्रेण?

  • (क) जातिरप्राणिनाम्
  • (ख) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्
  • (ग) चार्थे द्वन्द्वः
  • (घ) अल्पाच्तरम्

उत्तरम्: (ख) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्

८०. 'राजदन्तः' इत्यत्र उपसर्जनस्य (राजन्-शब्दस्य) प्रयोगः कुत्र भवति?

  • (क) पूर्वम्
  • (ख) परम् (अन्ते)
  • (ग) मध्ये
  • (घ) न कुत्रचित्

उत्तरम्: (ख) परम् (अन्ते)

८१. 'शिवकेशवौ' इत्यत्र शिवशब्दस्य पूर्वनिपातः केन सूत्रेण विहितः?

  • (क) राजदन्तादिषु परम्
  • (ख) अल्पाच्तरम्
  • (ग) अभ्यर्हितं च
  • (घ) द्वन्द्वे घि

उत्तरम्: (ख) अल्पाच्तरम्

८२. 'मातापितरौ' इत्यत्र मातृशब्दस्य पूर्वनिपातः केन नियमेन भवति?

  • (क) अल्पाच्तरम्
  • (ख) अभ्यर्हितं च (वार्त्तिकम्)
  • (ग) पिता मात्रा
  • (घ) उपसर्जनं पूर्वम्

उत्तरम्: (ख) अभ्यर्हितं च (वार्त्तिकम्)

८३. समासान्तप्रत्ययाः अष्टाध्याय्यां केषु प्रत्ययेषु अन्तर्भवन्ति?

  • (क) कृत्प्रत्ययेषु
  • (ख) सुप्प्रत्ययेषु
  • (ग) तद्धितप्रत्ययेषु
  • (घ) तिङ्प्रत्ययेषु

उत्तरम्: (ग) तद्धितप्रत्ययेषु

८४. 'राजाहःसखिभ्यष्टच्' सूत्रेण कः प्रत्ययः विधीयते?

  • (क) अच्
  • (ख) षच्
  • (ग) टच्
  • (घ) कप्

उत्तरम्: (ग) टच्

८५. 'महाराजः' इत्यत्र राजन्-शब्दात् टच्-प्रत्यये सति कस्य लोपः भवति?

  • (क) न्-कारस्य
  • (ख) अन्-भागस्य (नस्तद्धिते)
  • (ग) ज-कारस्य
  • (घ) अ-कारस्य

उत्तरम्: (ख) अन्-भागस्य (नस्तद्धिते)

८६. 'गोरतद्धितलुकि' सूत्रेण गो-शब्दान्तात् तत्पुरुषात् कः प्रत्ययः?

  • (क) अच्
  • (ख) टच्
  • (ग) डच्
  • (घ) षच्

उत्तरम्: (ख) टच्

८७. 'अर्धर्चः' इत्यत्र ऋच्-शब्दात् कः समासान्तप्रत्ययः भवति?

  • (क) टच्
  • (ख) षच्
  • (ग) अच्
  • (घ) कप्

उत्तरम्: (ग) अच्

८८. 'ऋक्पूरब्धूःपथामानक्षे' इति सूत्रेण कः प्रत्ययः विधीयते?

  • (क) टच्
  • (ख) अच्
  • (ग) डच्
  • (घ) खच्

उत्तरम्: (ख) अच्

८९. यत्र नियमानुसारं प्राप्तस्य विभक्तेः लोपः न भवति, सः कः समासः?

  • (क) केवलसमासः
  • (ख) नित्यसमासः
  • (ग) अलुक्समासः
  • (घ) उपपदसमासः

उत्तरम्: (ग) अलुक्समासः

९०. 'पारस्करः' इत्यत्र अलुक्समासः सुट्-आगमश्च केन सूत्रेण निपात्यते?

  • (क) पारस्करप्रभृतीनि च संज्ञायाम्
  • (ख) अलुगुत्तरपदे
  • (ग) स्तोकान्तिकदूरार्थ...
  • (घ) तत्पुरुषे कृति बहुलम्

उत्तरम्: (क) पारस्करप्रभृतीनि च संज्ञायाम्

९१. 'पारस्करः' इत्यस्य लौकिकविग्रहः कः?

  • (क) पारं करोति इति
  • (ख) पारस्य करः
  • (ग) पारे करः
  • (घ) पारं च करश्च

उत्तरम्: (क) पारं करोति इति

९२. 'युधिष्ठिरः' इत्यत्र कः समासः अस्ति?

  • (क) उपपदतत्पुरुषः
  • (ख) अलुक्समासः
  • (ग) बहुव्रीहिः
  • (घ) केवलसमासः

उत्तरम्: (ख) अलुक्समासः

९३. 'सरूपाणामेकशेष एकविभक्तौ' इत्यनेन कस्य विधानं भवति?

  • (क) समासस्य
  • (ख) सन्धिरूपस्य
  • (ग) एकशेषस्य
  • (घ) सुब्लुकस्य

उत्तरम्: (ग) एकशेषस्य

९४. वैयाकरणसिद्धान्तकौमुदीकारमते 'एकशेषः' का अस्ति?

  • (क) समासभेदः
  • (ख) तद्धितभेदः
  • (ग) पञ्चवृत्तीनाम् अन्यतमा स्वतन्त्रा वृत्तिः
  • (घ) सन्धिकार्यम्

उत्तरम्: (ग) पञ्चवृत्तीनाम् अन्यतमा स्वतन्त्रा वृत्तिः

९५. 'पितरौ' इत्यत्र मातृशब्दस्य लोपः पितृशब्दस्य च एकशेषः केन सूत्रेण विधीयते?

  • (क) सरूपाणामेकशेष...
  • (ख) पिता मात्रा
  • (ग) भ्रातृपुत्रौ स्वसृदुहितृभ्याम्
  • (घ) पुमान् स्त्रिया

उत्तरम्: (ख) पिता मात्रा

९६. व्याकरणशास्त्रे समासस्य मुख्यं फलद्वयं किम्?

  • (क) एकपद्यम् एकस्वर्यं च
  • (ख) अर्थबोधः पदबोधश्च
  • (ग) सुप्-लुक् तिङ्-लुक् च
  • (घ) लिङ्गज्ञानं वचनज्ञानं च

उत्तरम्: (क) एकपद्यम् एकस्वर्यं च

९७. 'समासस्य' (६.१.२२३) इति सूत्रेण समासस्य अन्तिमः अच् (स्वरः) कीदृशः भवति?

  • (क) अनुदात्तः
  • (ख) स्वरितः
  • (ग) उदात्तः (अन्तोदात्तः)
  • (घ) प्रचयः

उत्तरम्: (ग) उदात्तः (अन्तोदात्तः)

९८. 'अनुदात्तं पदमेकवर्जम्' इत्यनेन अन्तोदात्तं विहाय अवशिष्टानां स्वराणां किं भवति?

  • (क) अनुदात्तत्वम्
  • (ख) उदात्तत्वम्
  • (ग) स्वरितत्वम्
  • (घ) ह्रस्वत्वम्

उत्तरम्: (क) अनुदात्तत्वम्

९९. तत्पुरुषे क्वचित् पूर्वपदस्य कीदृशः स्वरः तिष्ठति (उदा. 'तत्पुरुषे तुल्यार्थ...' सूत्रेण)?

  • (क) अन्तोदात्तः
  • (ख) प्रकृतिस्वरः
  • (ग) आद्युदात्तः
  • (घ) सर्वानुदात्तः

उत्तरम्: (ख) प्रकृतिस्वरः

१००. पाणिनीयव्याकरणशास्त्रे समासप्रक्रियायाः प्रधानम् उद्देश्यं किम्?

  • (क) केवलं शब्दानां संक्षिप्तीकरणम्
  • (ख) केवलम् अलुक्-विधानम्
  • (ग) अनेकपदानाम् एकपदीभवनं विशिष्टार्थबोधनञ्च
  • (घ) धातुरूपाणां निर्माणम्

उत्तरम्: (ग) अनेकपदानाम् एकपदीभवनं विशिष्टार्थबोधनञ्च

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!