NCERT Class 9 Sanskrit Rishikulya (R2) Chapter 10 Solutions: स्वाध्यायान्मा प्रमदः (Hindi Translation, Q&A & Appendices)

Sooraj Krishna Shastri
By -
0
स्वाध्यायान्मा प्रमदः
दशमः पाठः (पाठ १०) — ऋषिकुल्या (नवमकक्षायाः संस्कृतस्य अधिगम-सामग्री - R2) एवं परिशिष्टम् १-३
NCERT Class 9 Sanskrit Rishikulya R2 Chapter 10 Swadhyayanma Pramadah Solutions
१. सम्पूर्णः मूलपाठः एवं सरलः हिन्दी-भावार्थः
संस्कृत-मूलपाठः हिन्दी-भावार्थः
(छात्राः विद्यालयाद् बहिः भित्तौ लग्नं विशालं पत्रं पश्यन्ति)
वेदप्रकाशः — राजेश ! किमर्थमत्र भित्तिपत्रं संलग्नम् ?
राजेशः — विश्वविद्यालये समावर्तनोत्सवः भविष्यति, तदर्थम् एतत् विशालं रमणीयं भित्तिपत्रम्।
कात्यायनी — समावर्तनोत्सवे किं भविष्यति ?
सुजाता — अरे, न जानासि ? सभा भविष्यति, प्रमाणपत्रवितरणं च भविष्यति।
राजेशः — कश्चिद् विशिष्टः विद्वान् पदाधिकारी वा आगत्य दीक्षान्तभाषणं करिष्यति।
कात्यायनी — दीक्षान्तः नाम किम् ?
वेदप्रकाशः — अहमपि न जानामि, अस्मिन् विषये अध्यापकमेव प्रक्ष्यामः।
(छात्र विद्यालय के बाहर दीवार पर लगे एक बड़े पोस्टर [भित्तिपत्र] को देखते हैं।)
वेदप्रकाश — राजेश! यहाँ यह पोस्टर किसलिए लगा है?
राजेश — विश्वविद्यालय में समावर्तनोत्सव (दीक्षान्त समारोह) होगा, उसी के लिए यह बड़ा और सुन्दर पोस्टर लगा है।
कात्यायनी — समावर्तनोत्सव में क्या होगा?
सुजाता — अरे, नहीं जानतीं? सभा होगी और प्रमाणपत्र (उपाधि) का वितरण होगा।
राजेश — कोई विशिष्ट विद्वान् या पदाधिकारी आकर दीक्षान्त भाषण देंगे।
कात्यायनी — दीक्षान्त क्या होता है?
वेदप्रकाश — मैं भी नहीं जानता, इस विषय में हम अध्यापक जी से ही पूछेंगे।
(अध्यापकः पृष्ठतः छात्राणां वार्तालापं श्रुत्वा)
अध्यापकः — अयि छात्राः ! चिन्ता मास्तु, सर्वं बोधयिष्यामि। प्राचीनकालीना शिक्षाव्यवस्था अतीव स्पृहणीया आसीत्। बालाः गुरुकुलेषु स्थित्वा गुरुभ्यः विद्याध्ययनं कुर्वन्ति स्म।
वेदप्रकाशः — महोदय ! तत्र छात्राः किं किं पठन्ति स्म ?
अध्यापकः — तत्र विशेषतः धर्म-दर्शन-विज्ञान-वेदवेदाङ्गानाम् अध्ययनम् अध्यापनं च भवतः स्म। विद्यार्थिनः प्रायेण तत्र द्वादशवर्षाणि यावत् पठन्ति स्म। अध्ययनसमाप्तौ गुरुकुलात् स्वगृहं गच्छन्ति स्म। शिक्षान्ते समावर्तनोत्सवः भवति स्म। आचार्यः समावर्तनकाले अन्तेवासिभ्यः उपदिशति स्म। तादृशः उपदेशमूलकः सारस्वतकार्यक्रमः अधुनापि आचर्यते। स एव दीक्षान्तः।
छात्राः — आचार्य ! तदानीं दीक्षान्ते किं किम् उपदिशति स्म ?
अध्यापकः — अस्तु, अवहिताः शृणुत —
(अध्यापक पीछे से छात्रों की बातचीत सुनकर)
अध्यापक — अरे छात्रों! चिन्ता मत करो, मैं सब कुछ समझाऊँगा। प्राचीन काल की शिक्षाव्यवस्था अत्यन्त प्रशंसनीय थी। बालक गुरुकुलों में रहकर गुरुओं से विद्याध्ययन करते थे।
वेदप्रकाश — महोदय! वहाँ छात्र क्या-क्या पढ़ते थे?
अध्यापक — वहाँ विशेष रूप से धर्म, दर्शन, विज्ञान और वेद-वेदाङ्गों का अध्ययन-अध्यापन होता था। विद्यार्थी प्रायः बारह वर्षों तक वहाँ पढ़ते थे। अध्ययन समाप्त होने पर गुरुकुल से अपने घर लौटते थे। शिक्षा के अन्त में समावर्तनोत्सव होता था। आचार्य समावर्तन के समय अपने शिष्यों (अन्तेवासियों) को उपदेश देते थे। वैसा ही उपदेशमूलक सारस्वत कार्यक्रम आज भी मनाया जाता है; वही दीक्षान्त है।
छात्रगण — आचार्य! उस समय दीक्षान्त में क्या-क्या उपदेश देते थे?
अध्यापक — ठीक है, ध्यानपूर्वक सुनो—
कृष्णयजुर्वेदान्तर्गता काचिद् उपनिषद् वर्तते, तैत्तिरीयोपनिषद् इति। तत्र शिक्षावल्ली आनन्दवल्ली भृगुवल्लीति भागत्रयमस्ति। विशेषतः नैतिक-शैक्षिकोपदेशनिमित्तं शिक्षावल्ली प्रसिद्धा। तत्र शिष्यः स्वाधीतविद्यायाः जीवने सदुपयोगं कथं कुर्याद् इति सुष्ठु प्रकाशितम्। तदेव अनुसरणीयम् अस्माभिः। शृण्वन्तु ततः कानिचन उपदेशवाक्यानि —
“वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति। सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। यान्यनवद्यानि कर्माणि तानि सेवितव्यानि। नो इतराणि। यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि। नो इतराणि। (ये के चास्मच्छ्रेयांसो ब्राह्मणाः तेषां त्वयाऽसनेन प्रश्वसितव्यम्।) श्रद्धया देयम्। अश्रद्धयाऽदेयम्। श्रिया देयम्। ह्रिया देयम्। भिया देयम्। संविदा देयम्। एष आदेशः। एष उपदेशः। एषा वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्।”
कृष्णयजुर्वेद के अन्तर्गत एक उपनिषद् है— तैत्तिरीयोपनिषद्। इसके तीन भाग हैं— शिक्षावल्ली, आनन्दवल्ली और भृगुवल्ली। इनमें से नैतिक व शैक्षिक उपदेश के लिए ‘शिक्षावल्ली’ विशेष प्रसिद्ध है। वहाँ शिष्य पढ़ी हुई विद्या का जीवन में सदुपयोग कैसे करे, यह भली-भाँति बताया गया है। वहाँ के कुछ उपदेशवाक्य सुनो—

“वेद पढ़ाकर आचार्य शिष्य को उपदेश देते हैं — सत्य बोलो। धर्म का आचरण करो। स्वाध्याय में प्रमाद (आलस्य) मत करो। सत्य से प्रमाद नहीं करना चाहिए। धर्म से प्रमाद नहीं करना चाहिए। आत्मरक्षा के कार्यों (कुशल) से प्रमाद नहीं करना चाहिए। ऐश्वर्य व उन्नति (भूति) के कार्यों से प्रमाद नहीं करना चाहिए। स्वाध्याय और प्रवचन (अध्यापन) से प्रमाद नहीं करना चाहिए। देवकार्य और पितृकार्य से प्रमाद नहीं करना चाहिए। माता को देवता मानो। पिता को देवता मानो। आचार्य को देवता मानो। अतिथि को देवता मानो। जो निन्दारहित (श्रेष्ठ) कर्म हैं, उन्हीं का आचरण करना चाहिए, अन्य (निन्दित कर्मों) का नहीं। जो हमारे (गुरुजनों के) शुभ आचरण हैं, उन्हीं का तुम्हें अनुसरण करना चाहिए, अन्य का नहीं। (जो हमसे श्रेष्ठ ब्रह्मवेत्ता विद्वान् हैं, आसन आदि देकर उनकी थकान दूर करनी चाहिए।) दान श्रद्धा से देना चाहिए, अश्रद्धा से नहीं देना चाहिए। अपनी सम्पत्ति के अनुसार देना चाहिए। लज्जा (विनय) से देना चाहिए। भय (मर्यादा के डर) से देना चाहिए। मैत्री व ज्ञानभाव से देना चाहिए। यही आदेश है, यही उपदेश है, यही वेद का रहस्य (वेदोपनिषत्) है, यही अनुशासन है। इसी प्रकार इसका पालन (उपासना) करना चाहिए।”
२. सर्वं शब्देन भासते (सम्पूर्ण शब्दार्थ-सारणी)
शब्दः (व्याकरणम्) संस्कृत-अर्थः हिन्दी-अर्थः English
अनूच्य (अनु+√वच्+ल्यप्)उक्त्वापढ़ाकरHaving taught
अनुशास्ति (अनु+√शास्+लट् प्र.पु.ए.व.)उपदिशतिउपदेश देता हैTo instruct
अन्तेवासिनम् (अन्ते+√वस्+णिनि द्वि.ए.व.)शिष्यम्शिष्य कोTo the disciple (student)
वद (√वद्+लोट् म.पु.ए.व.)कथयबोलोSpeak
चर (√चर्+लोट् म.पु.ए.व.)आचरणं कुरुआचरण करोPractice / conduct yourself
स्वाध्यायात् (पुं.प.ए.व.)वेदस्य निर्दिष्टांशस्य अध्ययनात्वेद के निर्दिष्ट भाग को पढ़ने सेBy studying the prescribed section of Veda
मा प्रमदः (प्र+√मद्+लुङ् म.पु.ए.व.)न विस्मरःनहीं भूलना चाहिएTo not forget
न प्रमदितव्यम् (प्र+√मद्+तव्यत्)प्रमादः न कर्तव्यःनहीं भूलना चाहिए / प्रमाद न करेंShould not be forgotten
कुशलात् (नपुं.प.ए.व.)आत्मरक्षामूलककार्यात्आत्मरक्षा के लिए किए जाने वाले कर्म सेFrom actions performed for self-protection
भूत्यै (स्त्री.च.ए.व.)ऐश्वर्यनिमित्तम्ऐश्वर्य देने वाले शुभकार्यों के लिएFor auspicious deeds that bring prosperity
प्रवचनम् (नपुं.प्र.ए.व.)प्रकृष्टं वचनम्चर्चा / अध्यापनDiscussion / teaching
मातृदेवः (बहुव्रीहिः)माता देवः यस्य सःमाता देवता है जिसके लिएOne who treats his mother as a deity
पितृदेवः (बहुव्रीहिः)पिता देवः यस्य सःपिता को देवता समझने वालाOne who treats his father as a deity
अतिथिदेवः (बहुव्रीहिः)अतिथिः देवः यस्य सःअतिथि को देवता मानने वालाOne who treats a guest as a deity
आचार्यदेवः (बहुव्रीहिः)आचार्यः देवः यस्य सःआचार्य को देवता मानने वालाOne who treats his teacher as a deity
अनवद्यानि (नञ् तत्पुरुषः)न अवद्यानिनिन्दारहित / दोषरहितWithout blame
सेवितव्यानि (√सेव्+तव्यत् नपुं.प्र.ब.व.)आचरणीयानिआचरण करना चाहिएShould perform
नो (अव्ययम्)निषेधःनहींNot / no
इतराणि (नपुं.प्र.बहु.)अन्यानिइनसे विपरीत / अन्यOpposite to these
सुचरितानि (कर्मधारयः नपुं.प्र.ब.व.)सुष्ठु शोभनानि चरितानिशास्त्र के अनुकूल शुभ कर्मAuspicious deeds in accordance with scriptures
उपास्यानि (उप+√आस्+ण्यत् नपुं.प्र.ब.व.)उपासनायोग्यानिउपासना / अनुसरण करना चाहिएShould worship / follow
श्रेयांसः (पुं.प्र.ब.व.)श्रेष्ठाःश्रेष्ठSuperior
ब्राह्मणाः (पुं.प्र.ब.व.)ब्रह्मविदः विद्वांसःब्रह्म को जानने वाले विद्वान्Scholars who know Brahman
आसनेन (नपुं.तृ.एक.)आसनप्रदानेनबैठने के लिए आसन देकरBy offering a seat to sit
प्रश्वसितव्यम् (प्र+√श्वस्+तव्यत्)सेवनीयम्थकान दूर करनी चाहिएShould remove tiredness
श्रद्धया (स्त्री.तृ.ए.व.)सम्मानेन / आदरेणआदर सेWith respect
देयम् (√दा+यत्)दानयोग्यम्देना चाहिएShould be given
अश्रद्धया (स्त्री.तृ.ए.व. नञ् तत्पुरुषः)न श्रद्धा, तयाअनादर भाव सेDisrespectfully
अदेयम् (नञ् तत्पुरुषः)न देयम्देना नहीं चाहिएTo not give
श्रिया (स्त्री.तृ.ए.व.)धनानुसारम्धन के अनुसारAccording to one's wealth
भिया (स्त्री.तृ.ए.व.)भयेनभय (डर) मानते हुएWith fear
ह्रिया (स्त्री.तृ.ए.व.)लज्जयालज्जापूर्वकModestly
संविदा (स्त्री.तृ.ए.व.)ज्ञानेन / मैत्रीभावेनमैत्री भाव से / ज्ञानपूर्वकWith a feeling of friendship
आदेशः (आ+√दिश्+घञ्)आज्ञाआज्ञाCommand / order
उपदेशः (उप+√दिश्+घञ्)गूढः उपदेशःउपदेशAdvice
वेदोपनिषत् (षष्ठीतत्पुरुषः)वेदस्य उपनिषत्वेद का रहस्यThe secret of the Vedas
उपनिषत् (उप+नि+√सद्+क्विप्)अध्यात्मविद्याअध्यात्म विद्याSpiritual knowledge
अनुशासनम् (अनु+√शास्+ल्युट्)आज्ञापालनम्नियमानुकूल आचरणDisciplined conduct
उपासितव्यम् (उप+√आस्+तव्यत्)उपासनायोग्यम्उपासना करनी चाहिएShould worship / practice
३. अभ्यासाद् जायते सिद्धिः (सभी ६ प्रश्नों के सम्पूर्ण उत्तर)
१. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत —
(क) आचार्यः कम् अनुशास्ति ?
➔ आचार्यः अन्तेवासिनम् (शिष्यम्) अनुशास्ति।
(ख) किं कृत्वा आचार्यः अन्तेवासिनम् अनुशास्ति ?
➔ वेदम् अनूच्य (पढ़ाकर) आचार्यः अन्तेवासिनम् अनुशास्ति।
(ग) कानि सेवितव्यानि ?
➔ यानि अनवद्यानि कर्माणि, तानि सेवितव्यानि।
(घ) के अस्मत् श्रेयांसः भवन्ति ?
➔ ब्रह्मविदः विद्वांसः ब्राह्मणाः अस्मत् श्रेयांसः भवन्ति।
(ङ) कथम् अदेयम् ?
➔ अश्रद्धया अदेयम्।
२. विग्रहवाक्यम् (समस्तपदानि पठितविषयात् निरूपयत) समस्तपदम्
(क) माता एव देवः यस्य सःमातृदेवः
(ख) पिता एव देवः यस्य सःपितृदेवः
(ग) न अवद्यानिअनवद्यानि
(घ) न श्रद्धा, तयाअश्रद्धया
(ङ) सुष्ठु (शोभनानि) चरितानिसुचरितानि
३. क स्तम्भः ख स्तम्भः (उचितं मेलनम्)
(क) सुचरितानि ➔(३) उपास्यानि
(ख) संविदा ➔(१) देयम्
(ग) एषा ➔(२) वेदोपनिषत्
(घ) अनवद्यानि कर्माणि (तानि) ➔(५) सेवितव्यानि
(ङ) आसनेन ➔(४) प्रश्वसितव्यम्
४. रेखाङ्कितपदानाम् आधारेण प्रश्ननिर्माणं कुरुत — प्रश्नवाचक-वाक्यम्
(क) तानि सेवितव्यानि।कानि सेवितव्यानि ?
(ख) अश्रद्धयाऽदेयम्।कथम् (कया) अदेयम् ?
(ग) धर्मात् न प्रमदितव्यम्।कस्मात् न प्रमदितव्यम् ?
(घ) एतत् अनुशासनम्।एतत् किम् ?
(ङ) एष उपदेशः।एष कः ?
५. पदम् वाक्यरचना
(क) इतराणिअनवद्यानि कर्माणि सेवितव्यानि, नो इतराणि।
(ख) प्रमदितव्यम्सत्यात् धर्मात् च कदापि न प्रमदितव्यम्।
(ग) भियामर्यादायाः भिया अपि पात्रे दानं देयम्।
(घ) सुचरितानिगुरुजनानां सुचरितानि अस्माभिः उपास्यानि।
(ङ) त्वयात्वया सर्वदा सत्यं वक्तव्यं धर्मश्च चरितव्यः।
६. विषयानुसारं शुद्धम् उत्तरं चिनुत —
(क) कम् अनूच्य आचार्यः अन्तेवासिनमनुशास्ति ? — (i) शास्त्रम् (ii) उपनिषदम् (iii) वेदम् (iv) मन्त्रम्
➔ (iii) वेदम्
(ख) कस्मात् न प्रमदितव्यम् ? — (i) असत्यात् (ii) अधर्मात् (iii) स्वाध्यायात् (iv) आलस्यात्
➔ (iii) स्वाध्यायात्
(ग) मातृदेवः इत्यस्य कोऽर्थः ? — (i) मातृदेवी (ii) माता एव देवः यस्य सः (iii) माता हि देवता (iv) मातृस्वरूपा देवः
➔ (ii) माता एव देवः यस्य सः
(घ) कानि सेवितव्यानि ? — (i) अनवद्यानि कर्माणि (ii) सुचरितानि (iii) उपास्यानि (iv) इतराणि
➔ (i) अनवद्यानि कर्माणि
(ङ) ह्रिया – इत्यस्य कोऽर्थः ? — (i) भयेन (ii) लज्जया (iii) श्रद्धया (iv) मित्रभावेन
➔ (ii) लज्जया
४. स्वाध्यायान्मा प्रमदः (उपनिषद्-परिचयः, संस्कृत-भावार्थः, सन्धिः एवं प्रसिद्धाः उपनिषदः)
उपनिषद्-परिचयः — भारतीय-दर्शनस्य वैदिकसाहित्यस्य साररूपेण उपनिषद्वाङ्मयं प्रसिद्धम्। कृष्णयजुर्वेदान्तर्गता तैत्तिरीयोपनिषद् विशेषतः शैक्षिकम् उपादानं प्रसारयति। व्युत्पत्तिः — उप-सामीप्येन नि-नितरां निधाय अन्तर्धाय सीदन्ति प्राप्नुवन्ति परं ब्रह्म यया विद्यया सा उपनिषत्।
उपनिषत्समूहस्तु वेदान्तसार उच्यते। गुरूपदेशमात्रेण शिष्यसंशयनाशकः॥
अध्यात्मब्रह्मविद्यायाः शङ्कानाशनकारणम्। उपनिषद्रहस्यं तु सर्वे जानन्तु तत्त्वतः॥
संस्कृत-भावार्थः — आचारनिपुणः गुरुः वेदं पाठयित्वा वेदस्य रहस्यं साररूपेण शिष्यं प्रति उपदिशति — यथार्थम् अवगतं सत्यं तथ्यं वक्तव्यम्। शास्त्रपरम्परानुसारं धर्मसम्मतं कर्म आचरणीयम्, प्रतिदिनं वेदशास्त्राणाम् अध्ययनात् विच्युतिः न भवेत्। सत्यनिष्ठायाः अवहेला न कार्या, धार्मिकाध्यात्मिकानुष्ठानात् विरतिः न भवेत्। आत्मरक्षामूलककार्यात् विच्युतिः न भवेत्। ऐश्वर्यलाभार्थकमङ्गलकार्येषु प्रमादो न भवेत्। जनः आत्मनः उन्नतये शुभकार्येषु मनोनिवेशं कुर्यात्। स्वयं वेदशास्त्राणाम् अध्ययनं कुर्यात् अन्यान् अपि वेदशास्त्रार्थान् बोधयेत्। लोकहितकरयज्ञ-परोपकार-वृक्षरोपणप्रभृतिदैविककार्यसमुदायात् पूर्वजानां पितृलोकानां च कृते श्राद्धतर्पणादिकार्यात् विच्युतः न भवेत्।
माता, पिता, आचार्यः, आगन्तुकः सज्जनः च एव प्रत्यक्षं देवाः भवन्ति इति विचारयेत्। यानि अनिन्दितानि प्रशंसनीयानि कार्याणि सन्ति, तानि अवश्यं पालयेत्। अपराणि निन्दितानि कर्माणि वर्जयेत्, यानि अस्माकं गुरुजनानां शुभकार्याणि उत्तमानि आचरणानि सन्ति तानि अनुसरेत्, संशयजनकानि असदाचरणानि वर्जयेत्। ये केचन ब्रह्मदर्शिनः विद्वांसः सन्ति ते अवश्यम् अस्माकम् अपेक्षया श्रेष्ठाः भवन्ति, अतः तेषां दर्शनात् सान्निध्यलाभात् च आसनादिप्रदानपूर्वकं श्रम-क्लान्तिलाघवनिमित्तं यथाविधि सेवां कुर्यात्। दानमेव महत् पुण्यम् अतः यस्मै किञ्चित् दातव्यमस्ति श्रद्धया दद्यात्, कदापि अनादरभावेन न दातव्यम्। स्वशक्त्या धर्मार्जितधनानुसारं लज्जया विनयभावेन च दातव्यम्। उत्तमविचारेण मित्रभावेन धनं दद्यात्। एषः अवश्यं पालनीयः विधिः। शिष्यसन्ततिकृते एष आजीवनं हितकरः उपदेशसमूहः। एतत् सर्वं वेदस्य रहस्यम्। एतत् अनुशासनम् ईश्वरस्य आज्ञा। एवं प्रकारेण सर्वविधम् अनुष्ठानं करणीयम्।
प्रमुखाः सन्धयः (विच्छेदः) सन्धिपदम्
वेदम् + अनूच्य + आचार्यः + अन्तेवासिनम् + अनुशास्तिवेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति
स्वाध्यायात् + मा | सत्यात् + नस्वाध्यायान्मा | सत्यान्न
कुशलात् + न | यानि + अस्माकम्कुशलान्न | यान्यस्माकम्
त्वया + उपास्यानि | च + अस्मत् + श्रेयांसः + ब्राह्मणाःत्वयोपास्यानि | चास्मच्छ्रेयांसो ब्राह्मणाः
त्वया + आसनेन | एतत् + अनुशासनम्त्वयाऽसनेन | एतदनुशासनम्
प्रसिद्धाः दश उपनिषदः — “ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः। ऐतरेयं छान्दोग्यञ्च बृहदारण्यकं दश॥” (१. ईश, २. केन, ३. कठ, ४. प्रश्न, ५. मुण्डक, ६. माण्डूक्य, ७. तैत्तिरीय, ८. ऐतरेय, ९. छान्दोग्य, १०. बृहदारण्यक)।
यस्तु क्रियावान् मनुजः स विद्वान् — (१) उपनिषदां नामानि लिखत। प्रसिद्धानाम् उपनिषदां संग्रहं कृत्वा पठत। (२) कस्याश्चित् उपनिषदः श्रेष्ठं ध्येयं वाक्यं लिखित्वा गृहे स्थापयत। (३) विविधानां प्रतिष्ठानानाम् औपनिषदिकसूक्तानि संगृह्य लिखत। (४) एकस्याः उपनिषदः महत्त्वविषये एकम् अनुच्छेदं लिखत।
५. परिशिष्टम् १ — विशिष्टाः सूक्तयः (सम्पूर्ण ६० सूक्तियाँ)
क्र. सूक्तिः (सन्दर्भः) हिन्दी अनुवाद English Meaning
१क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
(भोजप्रबन्धः-168)
कार्यसिद्धि सामर्थ्य से होती है, उपकरणों से नहीं।Success comes from ability, not from tools.
२आपदर्थे धनं रक्षेत्।
(महाभारतम्, उद्योगपर्व-37.18)
विपत्ति के समय के लिए धन का संचय एवं संरक्षण करना चाहिए।One should save wealth for times of adversity.
३उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
(पञ्चतन्त्रम्-2.141)
कार्य केवल इच्छा या कल्पना करने से नहीं, बल्कि परिश्रम और पुरुषार्थ से ही सिद्ध होते हैं।Tasks are accomplished not just by desire or imagination, but through hard work and effort.
४नास्ति विद्यासमं चक्षुः।
(महाभारतम्, शान्तिपर्व-175.35)
विद्या के समान कोई नेत्र नहीं है।There is no eye equal to knowledge.
५सत्यमेव जयते नानृतम्।
(मुण्डकोपनिषद्-3.1.6)
सत्य की ही विजय होती है, असत्य की नहीं।Truth always wins, not falsehood.
६न किञ्चिदपि तद्वस्तु यदभ्यासस्य दुष्करम्।
(बोधिचर्यावतारः-6.14)
नियमित अभ्यास करने वाले के लिए कोई भी कार्य कठिन नहीं होता।Nothing is too difficult for one who practices regularly.
७असंशयं हि कालस्य पर्यायो दुरतिक्रमः।
(महाभारतम्, सौप्तिकपर्व-8.51)
निस्सन्देह, समय की गति का अतिक्रमण करना असम्भव है।Indeed, the course of time is impossible to overcome.
८सङ्गच्छध्वं, संवदध्वम्।
(ऋग्वेदः-10.191.2)
साथ चलो, साथ बोलो।Move together, speak together.
९शरीरमाद्यं खलु धर्मसाधनम्।
(कुमारसम्भवम्-5.33)
निःसन्देह शरीर ही धर्म के पालन का प्रथम और प्रमुख साधन है।The body is indeed the primary means of performing righteous deeds.
१०शीलं परं भूषणम्।
(नीतिशतकम्-83)
चरित्र ही सर्वश्रेष्ठ आभूषण है।Character is the greatest ornament.
११सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
(किरातार्जुनीयम्-2.30)
किसी भी कार्य को बिना सोचे-समझे नहीं करना चाहिए, क्योंकि बिना विचार के किया गया कार्य बड़ी-बड़ी विपत्तियों का कारण बनता है।Never act impulsively. Thoughtless actions often lead to serious troubles and misfortunes.
१२यादृशं वपते बीजं तादृशं लभते फलम्।
(महाभारतम्, अनुशासनपर्व)
जैसा बीज बोया जाता है, वैसा ही फल प्राप्त होता है।As the seed one sows, so is the fruit one reaps.
१३साहसे श्रीः प्रतिवसति।
(मृच्छकटिकम्-4 अङ्कः)
साहसी व्यक्ति को ही सफलता और समृद्धि प्राप्त होती है।Courage attracts success.
१४शुभेन कर्मणा सौख्यम्।
(महाभारतम्, अनुशासनपर्व-6.18)
अच्छे कार्य करने से सुख और शान्ति मिलती है।Good actions lead to happiness.
१५शनैर्विद्या शनैरर्थाः।
(बृहस्पतिनीतिसारः)
विद्या धीरे-धीरे प्राप्त होती है और धन भी धीरे-धीरे अर्जित होता है।Knowledge is acquired gradually, and wealth is accumulated gradually.
१६पण्डिताः समदर्शिनः।
(श्रीमद्भगवद्गीता-5.18)
विद्वान् सभी प्राणियों को समान दृष्टि से देखते हैं।The wise men see all beings with equal vision.
१७रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय।
(मेघदूतम्, पू.मे.-20)
खाली वस्तु हल्की होती है, जबकि पूर्णता ही गरिमा और सम्मान का कारण बनती है।An empty thing is always light, whereas fullness gives it gravity and honour.
१८मौनं सर्वार्थसाधनम्।
(पञ्चतन्त्रम्)
मौन सभी उद्देश्यों की सिद्धि का साधन है।Silence is the means to accomplish all purposes.
१९उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत्।
(पञ्चतन्त्रम्)
बुद्धिमान् व्यक्ति किसी कार्य के उपाय के साथ-साथ उससे होने वाली हानि पर भी विचार करता है।A wise person should consider both the means to achieve a goal and the possible dangers or adverse consequences.
२०शठे शाठ्यं समाचरेत्।
(विदुरनीतिः)
कपटी व्यक्ति के साथ उसके अनुरूप व्यवहार करना चाहिए।Deal with a deceitful person in a manner appropriate to his deceit.
२१कर्मण्येवाधिकारस्ते।
(श्रीमद्भगवद्गीता-2.47)
मनुष्य का अधिकार केवल अपने कर्तव्य का पालन करने में है, उसके फल पर नहीं।You have the right only to action, not to its fruits.
२२परोपकारः पुण्याय पापाय परपीडनम्।
(पञ्चतन्त्रम्-1.101)
परोपकार करना पुण्य का कारण है और दूसरों को कष्ट पहुँचाना पाप का कारण है।Helping others leads to merit; causing suffering to others leads to sin.
२३धर्मो रक्षति रक्षितः।
(मनुस्मृतिः-8.15)
जो धर्म की रक्षा करता है, धर्म उसकी रक्षा करता है।Dharma protects those who protect it.
२४दमो हि परमो लोके।
(महाभारतम्, शान्तिपर्व-154.10)
आत्मसंयम संसार में सबसे श्रेष्ठ गुण है।Self-control is the supreme excellence in human life.
२५विद्याधनं सर्वधनप्रधानम्।
(प्रसङ्गाभरणम्)
विद्या का धन सभी धनों में सर्वोत्तम है।The wealth of knowledge is the greatest of all forms of wealth.
२६वसुधैव कुटुम्बकम्।
(हितोपदेशः-1.70)
सम्पूर्ण पृथ्वी ही एक परिवार है।The whole world is one family.
२७दुर्जनः परिहर्तव्यः।
(नीतिशतकम्-53)
दुर्जन का त्याग करना चाहिए।A wicked person should be avoided.
२८दयामूलो भवेद्धर्मः।
(अग्निपुराणम्-5.24)
दया ही धर्म का आधार है।Compassion is the foundation of Dharma.
२९सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमदः।
(तैत्तिरीयोपनिषद्-1.11.1)
सत्य बोलो, धर्म का आचरण करो और स्वाध्याय में कभी प्रमाद (लापरवाही) मत करो।Speak the truth, practise righteousness, and never neglect self-study.
३०बुद्धिर्यस्य बलं तस्य।
(पञ्चतन्त्रम्-1.101)
जिसके पास बुद्धि है, वास्तविक बल उसी का है।True strength belongs to the one who possesses wisdom.
३१तमसो मा ज्योतिर्गमय।
(बृहदारण्यकोपनिषद्-1.3.28)
हे प्रभु! मुझे अज्ञानरूपी अन्धकार से ज्ञानरूपी प्रकाश की ओर ले चलिए।Lead me from darkness to light.
३२दुर्लभं भारते जन्म।
(स्कन्दपुराणम् मा.कौ. 12.54-55)
भारतभूमि में जन्म लेना महान् सौभाग्य है।To be born in the land of Bharata (India) is a great blessing.
३३सन्तोषतुल्यं धनमस्ति नान्यत्।
(पञ्चतन्त्रम्-2.155)
सन्तोष के समान दूसरा कोई धन नहीं है।There is no wealth equal to contentment.
३४मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव।
(तैत्तिरीयोपनिषद्-1.11.1-2)
माता को देवतुल्य मानो, पिता को देवतुल्य मानो, आचार्य को देवतुल्य मानो।Treat your mother as divine, treat your father as divine, and treat your teacher as divine.
३५धैर्यधना हि साधवः।
(कादम्बरी)
सज्जनों का वास्तविक धन धैर्य होता है।Patience is the true wealth of the noble.
३६सत्यं ब्रूयात् प्रियं ब्रूयात्।
(मनुस्मृतिः-4.137)
सत्य बोलना चाहिए, प्रिय बोलना चाहिए।One should speak the truth and speak pleasantly.
३७क्रोधो प्राणहरः शत्रुः।
(रामायणम्, उ.का.)
क्रोध प्राणों का नाश करने वाला शत्रु है।Anger is an enemy that destroys life.
३८लोभः पापस्य कारणम्।
(भोजप्रबन्धः)
लोभ पाप का कारण है।Greed is the cause of sin.
३९विद्या ददाति विनयम्।
(हितोपदेशः)
विद्या से विनय प्राप्त होता है।Knowledge gives rise to humility.
४०तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधुः।
(चाणक्यसूत्राणि-378)
सज्जन व्यक्ति तिल के समान छोटे से उपकार को भी पर्वत के समान महान् मानता है।A noble person regards even the smallest act of kindness as great as a mountain.
४१प्रारब्धमुत्तमजना न परित्यजन्ति।
(नीतिशतकम्-27)
श्रेष्ठ पुरुष जिस कार्य का आरम्भ करते हैं, उसे बीच में नहीं छोड़ते।Noble people never abandon a task once they have begun it.
४२श्रद्धया साध्यते सर्वम्।
(नारदपुराणम्, पूर्वभाग-1.4.1)
श्रद्धा से सभी कार्य सिद्ध हो जाते हैं।Everything can be accomplished through faith.
४३उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत्।
(पञ्चतन्त्रम्)
बुद्धिमान् व्यक्ति को उपाय (समाधान) के साथ-साथ उसके सम्भावित अपाय (हानि या दुष्परिणाम) पर भी विचार करना चाहिए।A wise person should consider not only the solution but also its possible risks and consequences.
४४फलं भाग्यानुसारतः।
(महाभारतम्)
फल भाग्य के अनुसार प्राप्त होता है।The result comes according to one's destiny.
४५समाना हृदयानि वः।
(ऋग्वेदः-10.191.4)
तुम सबके हृदय एक समान भावना और सद्भाव से युक्त हों।May your hearts be filled with the same spirit and harmony.
४६परोपकाराय सतां विभूतयः।
(नीतिशास्त्रम्-66)
सज्जनों की सम्पत्ति परोपकार के लिए होती है।The wealth of the noble is meant for the welfare of others.
४७अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।
(हितोपदेशः, प्रस्ताविका-3)
बुद्धिमान् व्यक्ति को ऐसा समझकर विद्या और धन की प्राप्ति का प्रयास करना चाहिए मानो वह कभी वृद्ध या मृत नहीं होगा।A wise person should strive to acquire knowledge and wealth as though he would never grow old or die.
४८कालो हि दुरतिक्रमः।
(चाणक्यनीतिः-16)
काल का अतिक्रमण करना असम्भव है।Time is indeed impossible to overcome.
४९जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
(चाणक्यनीतिः)
जल की बूँद-बूँद गिरने से घड़ा धीरे-धीरे भर जाता है।A pot is gradually filled by the falling of drops of water.
५०समानशीलव्यसनेषु सख्यम्।
(हितोपदेशः)
समान स्वभाव और समान रुचि वाले लोगों के बीच ही सच्ची मित्रता होती है।Friendship exists among those who share the same nature and interests.
५१दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन्।
(नीतिशतकम्-53)
दुष्ट व्यक्ति, चाहे वह विद्या से सुशोभित (अत्यन्त विद्वान्) ही क्यों न हो, उसका भी त्याग करना चाहिए।Even if a wicked person is highly learned and adorned with knowledge, they should still be avoided.
५२अद्यैव कुरु यच्छ्रेयः।
(महाभारतम्)
जो कल्याणकारी (श्रेष्ठ) कार्य है, उसे आज ही करो।Do today itself whatever is good and beneficial.
५३शक्तानां भूषणं क्षमा।
(महाभारतम्, उद्योगपर्व-33.49)
श्रेष्ठ (समर्थ) व्यक्तियों का आभूषण क्षमा है।Forgiveness is the true ornament of virtuous people.
५४प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
(चाणक्यनीतिः-16.17)
मधुर वचन बोलने से सभी प्राणी प्रसन्न हो जाते हैं।Everyone is pleased when spoken to with kind and pleasant words.
५५सर्वत्रार्जवं शोभते।
(मृच्छकटिकम्-10.39)
हर स्थान पर सरलता और निष्कपटता शोभा देती है।Honesty and sincerity are admired everywhere.
५६शौचे यत्नः सदा कार्यः।
(नारदपुराणम्, पू.भा.प्र.पा.-27.8)
स्वच्छता बनाए रखने का सदैव प्रयास करना चाहिए।One should always strive to maintain cleanliness.
५७श्रद्धावान् लभते ज्ञानम्।
(श्रीमद्भगवद्गीता-4.39)
श्रद्धावान् व्यक्ति ज्ञान प्राप्त करता है।A faithful person gains knowledge.
५८सुखस्य मूलं धर्मः।
(कौटिल्यार्थशास्त्रम्)
सुख का मूल (आधार) धर्म है।Righteousness is the root of happiness.
५९युक्तियुक्तं प्रगृह्णीयाद् बालादपि विचक्षणः।
(शार्ङ्गधरपद्धतिः-452)
बुद्धिमान् व्यक्ति को युक्तिसंगत बात छोटे बालक से भी ग्रहण कर लेनी चाहिए।A wise person should accept a reasonable idea even from a child.
६०नास्ति कीर्तिसमं धनम्।
(बृहन्नारदीयपुराणम्-21.32)
कीर्ति के समान कोई धन नहीं है।There is no wealth equal to a good reputation.
६. परिशिष्टम् २ — लौकिकन्यायाः (सम्पूर्ण २४ न्याय)
क्र. न्यायाः English Meaning & भावार्थ
१काकतालीयन्यायःMere coincidence (आकस्मिक संयोग)
२कूपमण्डूकन्यायःNarrow-mindedness — frog in the well (संकुचित दृष्टिकोण)
३अन्धगजन्यायःPartial knowledge leads to wrong conclusions — blind men and the elephant (अधूरे ज्ञान से भ्रामक निष्कर्ष)
४रज्जुसर्पन्यायःMistaking illusion for reality (भ्रम को सत्य मान लेना)
५शुक्तिरजतन्यायःMistaking appearance for reality — shell for silver (सीपी में चाँदी का भ्रम)
६स्थालीपुलाकन्यायःA small sample represents the whole (एक अंश से पूरे का अनुमान लगाना)
७गजस्नानन्यायःFutile effort; repeating the same mistake (व्यर्थ परिश्रम; पुनः वही गलती करना)
८मर्कटकिशोरन्यायःSelf-effort — monkey's baby clings to its mother (स्वप्रयत्न से रक्षा)
९मार्जालकिशोरन्यायःDependence on grace — kitten carried by its mother (कृपा पर पूर्ण निर्भरता)
१०नीरक्षीरन्यायःSeparation of right from wrong (उचित-अनुचित का पृथक्करण)
११हंसक्षीरन्यायःAbility to distinguish the essential from the non-essential (सार और असार का विवेक)
१२बकध्यानन्यायःConcentration on a single object (एक ही लक्ष्य पर एकाग्रता)
१३मात्स्यन्यायःThe strong eats the weak — law of the jungle (बड़े द्वारा छोटे का शोषण)
१४काकदन्तगवेषणन्यायःSearching for the impossible (असम्भव वस्तु की व्यर्थ खोज)
१५शशविषाणन्यायःImpossible thing — rabbit's horn (असम्भव या काल्पनिक वस्तु)
१६वन्ध्यापुत्रन्यायःA non-existent entity — son of a barren woman (अस्तित्वहीन वस्तु)
१७मरुमरीचिकान्यायःMirage; false hope (मृगतृष्णा / मिथ्या आशा)
१८देहलीदीपन्यायःOne action benefiting two sides (एक कार्य से दोनों पक्षों का लाभ)
१९सिंहावलोकनन्यायःPausing and looking back to review or evaluate (पीछे मुड़कर पुनरावलोकन करना)
२०दग्धबीजन्यायःA burnt seed never sprouts; irreversible state (नष्ट हुई वस्तु पुनः अंकुरित नहीं होती)
२१बीजाङ्कुरन्यायःEndless cycle of cause and effect — seed and sprout (अनादि कार्य-कारण चक्र)
२२वटबीजन्यायःGreat things arise from small beginnings (छोटे आरम्भ से महान् परिणाम)
२३तैलधारान्यायःContinuous, uninterrupted concentration (अविच्छिन्न एवं निरन्तर एकाग्रता)
२४पद्मपत्रजलन्यायःRemaining unattached despite living in the world (संसार में रहते हुए भी निर्लिप्त रहना)
७. परिशिष्टम् ३ — केषाञ्चन न्यायानां प्रसङ्गानुगुणं प्रयोगाः
न्यायः प्रसङ्गानुगुणं प्रयोगाः
कूपमण्डूकन्यायः • कश्चन जनः स्वस्य भाषा एव उत्तमा इति मनुते। सः अन्यभाषाणां साहित्यं संस्कृतिं च न जानाति।
• कश्चन जनः स्वस्य कष्टानि परमकष्टानि इति चिन्तयति, यतः सः अन्येषां कष्टानि न दृष्टवान्।
• कश्चन छात्रः केवलं पाठ्यपुस्तकमेव पठति। अन्येषां ग्रन्थानां पठनं नावश्यकमिति चिन्तयति।
काकतालीयन्यायः • कदाचित् विद्युत् न भवति। कश्चन गीतं गायति। तदा एव विद्युत् आगच्छति। तदा सः वदति मम गीतेन एव विद्युत् आगता इति।
• कश्चन मनसि कञ्चित् तर्जयति। तदा एव तस्य आघातः भवति। तर्हि सः चिन्तयति मम तर्जनेन एव आघातः जातः इति।
गजस्नानन्यायः • शिक्षकः प्रतिदिनं स्वच्छतायाः महत्त्वं बोधयति। तथापि छात्रः कक्षायाम् अवकरं क्षिपति।
• पितरः आरोग्यरक्षणार्थं Junk food न खादतु इति वदन्ति तथापि केचन सर्वदा तदेव खादन्ति।
• कश्चन कर्मचारी समयपालनस्य प्रतिज्ञां करोति। परन्तु प्रतिदिनं विलम्बेन एव आगच्छति।
हंसक्षीरन्यायः • सामाजिकमाध्यमेषु अनेकाः वार्ताः दृश्यन्ते। विवेकवान् छात्रः सत्यतां परीक्ष्य एव ताः स्वीकरोति।
• विपणिषु बहूनि फलानि भवन्ति। जनाः उत्तमानि फलानि परिशील्य स्वीकुर्वन्ति।
• जनाः विविधान् परामर्शान् सूचयन्ति। बुद्धिमान् जनः आलोच्य हितकरं परामर्शमेव गृह्णाति।
• न्यायाधीशः उभयपक्षयोः प्रमाणानि सम्यक् परीक्ष्य एव निर्णयं करोति।
• विद्यार्थी अन्तर्जालात् प्राप्तासु सूचनासु सत्यासत्ययोः विवेकं कृत्वा एव परियोजनां लिखति।
सिंहावलोकनन्यायः • परीक्षायाः अनन्तरं छात्रः परीक्षाकेन्द्रात् बहिः आगत्य प्रश्नपत्रं पुनः परिशीलयति।
• क्रीडाप्रतियोगितायाः समाप्तौ दलस्य प्रशिक्षकः सम्पूर्णं क्रीडाप्रदर्शनं विश्लेषयति।
• कश्चन छात्रः बहुधा प्रयत्नं करोति परं सफलः न भवति। तर्हि सः किं किं कृतवान् कुत्र दोषाः अभवन् इति सर्वमपि पुनः परिशीलयति।
• कश्चन लेखकः पुस्तकस्य मुद्रणात् पूर्वं सम्पूर्णं लेखं पुनः पठति।
रज्जुसर्पन्यायः • कश्चन जनः रात्रौ स्वस्य छायां दृष्ट्वा भीतः भवति।
• बालः उद्याने दूरात् एकां नलिकां दृष्ट्वा सर्पः इति भीतः भवति। समीपं गत्वा ज्ञातवान् यत् सा केवलं जलनलिका इति।
बिन्दुबिन्दुनिपातन्यायः • एकः छात्रः प्रतिदिनं केवलं पञ्च नूतनानि संस्कृतवाक्यानि जानाति। सः वर्षान्ते सम्यक् संस्कृतेन वक्तुं प्रभविष्यति।
• बालिका प्रतिसप्ताहं किञ्चित् धनं संगृह्णाति। वर्षानन्तरं सा पश्यति यत् तद् धनम् अत्यधिकं भवति।
• छात्रः एकस्मिन् विषये प्रतिदिनम् एकघण्टां पठति। सः कतिपयेषु मासेषु तस्मिन् विशिष्टं ज्ञानं प्राप्नोति।
• बालः प्रतिसप्ताहम् एकं वृक्षं रोपयति। वर्षान्ते तत् विशालम् उपवनं भवति।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!