NCERT Class 9 Sanskrit Rishikulya (R2) Chapter 6 Solutions: समर्थेन कृषिः कार्या लोकानां हितकाम्यया (Hindi Translation & Q&A)

Sooraj Krishna Shastri
By -
0
समर्थेन कृषिः कार्या लोकानां हितकाम्यया
षष्ठः पाठः (पाठ ६) — ऋषिकुल्या (नवमकक्षायाः संस्कृतस्य अधिगम-सामग्री - R2)
१. सम्पूर्णः मूलपाठः (संवादः एवं श्लोकाः १-८) तथा सरलः हिन्दी-भावार्थः
संस्कृत-मूलपाठः हिन्दी-भावार्थः
आचार्या — शुभमस्तु प्रियच्छात्राः ! अपि कुशलिनः भवन्तः ?
छात्राः — नमो नमः, मान्ये ! आम्, वयं कुशलिनः।
आचार्या — साधु ! उपविशन्तु। दिनेश ! एवं भाति, भवान् किञ्चित् प्रष्टुम् इच्छति।
दिनेशः — सत्यं महोदये ! अस्माकं भारतवर्षं प्राचीनकालाद् एव कृषिप्रधानं राष्ट्रम् अस्ति इति वयं शृणुमः। अद्य वयं कृषेः महत्त्वविषये किमपि ज्ञातुम् इच्छामः।
रश्मिः — आचार्ये ! ‘तस्मात् सर्वं परित्यज्य कृषिं यत्नेन कारयेत्’ इति पद्यम् अहं श्रुतवती, अस्य कः अभिप्रायः ?
आचार्या — सुन्दरं पद्यम् ! कृषिकर्मणा एव सर्वविधानां सस्यानां प्राप्तिर्भवति। कृष्या एव अन्नफलादीनां वनस्पतीनां दुग्धादीनां च उत्पत्तिर्भवति। एतस्मात् कारणात् अन्यानि सर्वाणि कर्माणि त्यक्त्वा वयं कृषिं कुर्मः इति अस्य पद्यांशस्य आशयः। वयं जानीमः एभिः विना अस्माकं जीवनमेव न सम्भवति। अस्माकं कृषकाः महता श्रमेण अन्नादीनि उत्पादयन्ति। अधुना भवन्तः वदन्तु ते तत्र कं कं श्रमं कुर्वन्ति ?
आचार्या — प्रिय छात्रों, कल्याण हो! क्या आप सब कुशल हैं?
छात्रगण — नमस्कार माननीया! हाँ, हम कुशल हैं।
आचार्या — अच्छा! बैठ जाइए। दिनेश! ऐसा लगता है कि तुम कुछ पूछना चाहते हो।
दिनेश — सत्य है महोदया! हम सुनते हैं कि हमारा भारतवर्ष प्राचीन काल से ही कृषिप्रधान राष्ट्र है। आज हम कृषि के महत्त्व के विषय में कुछ जानना चाहते हैं।
रश्मि — आचार्या! मैंने ‘तस्मात् सर्वं परित्यज्य कृषिं यत्नेन कारयेत्’ यह पद्य सुना है, इसका क्या अभिप्राय है?
आचार्या — सुन्दर पद्य है! कृषि-कर्म से ही सब प्रकार के अनाजों (सस्यों) की प्राप्ति होती है। कृषि से ही अन्न, फल, वनस्पति और दूध आदि की उत्पत्ति होती है। इस कारण अन्य सभी कर्मों को छोड़कर हमें कृषि करनी चाहिए—यही इसका आशय है। इनके बिना हमारा जीवन सम्भव नहीं है। हमारे किसान बड़े परिश्रम से अन्न आदि उत्पन्न करते हैं। अब आप बताइए कि वे वहाँ क्या-क्या परिश्रम करते हैं?
कविता — आचार्ये ! ते आदौ भूमेः जलादीनां च सम्यक् परीक्षणं कुर्वन्ति।
प्रकाशः — योग्यां भूमिं चित्वा भूमिकर्षणं बीजवपनादिकं च कुर्वन्ति।
आचार्या — सत्यम्, एतदेव कृषिविज्ञानम्।
विवेकः — महोदये ! अस्माकं शास्त्राणां कृषिकार्यविषये का दृष्टिः ?
आचार्या — कृषिविषये पराशरप्रभृतयः प्राचीनाः महर्षयः सूक्ष्मं विशदं च विचारितवन्तः। आचार्यकौटिल्यः कृषिविद्यां वार्ताविद्यायां समावेशयति। वयम् अद्य कृषिविद्यायाः विषये एव अध्ययनं कुर्मः।
छात्राः — अस्तु महोदये ! वयं पठनार्थम् उत्सुकाः।
कविता — आचार्या! वे पहले भूमि और जल आदि का भली-भाँति परीक्षण करते हैं।
प्रकाश — योग्य भूमि चुनकर खेत की जुताई (भूमिकर्षण) और बीज बोने आदि का कार्य करते हैं।
आचार्या — सत्य है, यही कृषिविज्ञान है।
विवेक — महोदया! हमारे शास्त्रों का कृषिकार्य के विषय में क्या दृष्टिकोण है?
आचार्या — कृषि के विषय में पराशर आदि प्राचीन महर्षियों ने सूक्ष्म और विस्तृत विचार किया है। आचार्य कौटिल्य कृषिविद्या को ‘वार्ताविद्या’ में सम्मिलित करते हैं। आज हम कृषिविद्या के विषय में ही अध्ययन करते हैं।
छात्रगण — ठीक है महोदया! हम पढ़ने के लिए उत्सुक हैं।
अन्नं प्राणा बलं चान्नमन्नं सर्वार्थसाधनम्।
देवासुरमनुष्याश्च सर्वे चान्नोपजीविनः॥१॥
(१) अन्न ही प्राण है, अन्न ही बल है और अन्न ही सभी उद्देश्यों एवं पदार्थों का साधक है। देवता, असुर और मनुष्य—ये सभी अन्न से ही जीवित रहते हैं (अन्न पर आश्रित हैं)।
अन्नं हि धान्यसञ्जातं धान्यं कृष्या विना न च।
तस्मात् सर्वं परित्यज्य कृषिं यत्नेन कारयेत्॥२॥
(२) अन्न निश्चय ही धान्य (फसल) से उत्पन्न होता है और धान्य कृषि के बिना नहीं हो सकता। इसलिए सब कुछ छोड़कर प्रयत्नपूर्वक कृषि करनी (या करानी) चाहिए।
समर्थेन कृषिः कार्या लोकानां हितकाम्यया।
असमर्थो हि कृषको भिक्षां प्राप्नोति मानवः॥३॥
(३) समर्थ (योग्य) व्यक्ति को संसार के लोगों के कल्याण की कामना से कृषि करनी चाहिए; क्योंकि कृषि करने में असमर्थ मनुष्य भिक्षा माँगने को विवश हो जाता है।
एकया च पुनः कृष्या प्रार्थको नैव जायते।
कृष्यन्वितो हि लोकेऽस्मिन् भूयादेकश्च भूपतिः॥४॥
(४) केवल एक कृषि के द्वारा ही मनुष्य कभी याचक (माँगने वाला) नहीं बनता। कृषि से युक्त व्यक्ति इस संसार में भूपति (स्वामी/राजा) बन सकता है।
सुवर्णरौप्यमाणिक्यवसनैरपि पूरिताः।
तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया॥५॥
(५) सोने, चाँदी, माणिक्य (रत्न) और वस्त्रों से परिपूर्ण लोग भी भोजन की इच्छा (भक्ततृष्णा) से किसानों के आगे हाथ फैलाते (प्रार्थना करते) ही हैं।
गोभूमिदेवभक्ताश्च नितरां सत्यवादिनः।
परानुकूल्यनिरताः सन्ततं तुष्टचेतसः॥६॥
(६) (कृषि कार्य में संलग्न लोग) गौ, भूमि और देवताओं के भक्त, अत्यन्त सत्यवादी, परोपकार में तत्पर और निरन्तर प्रसन्नचित्त (सन्तुष्ट मन वाले) होते हैं।
तन्द्रालस्यादिहीनाश्च कामक्रोधादिवर्जिताः।
परस्परं स्नेहभाजं साह्यकर्मरताश्च ये॥७॥
(७) वे तन्द्रा (ऊँघ) और आलस्य आदि से रहित, काम-क्रोध आदि से मुक्त, आपस में स्नेह रखने वाले तथा एक-दूसरे के सहयोग-कार्य में तत्पर होते हैं।
आघ्राय पीत्वा च मृदं तोलयित्वाऽपि वा क्वचित्।
क्षिप्त्वा पात्रस्थसलिले घटिकावधिकोविदः॥८॥
(८) काल और ऋतु का ज्ञाता (घटिकावधिकोविद) कृषक मिट्टी को सूँघकर, भूमि का जल पीकर, कहीं मिट्टी को तौलकर तथा बर्तन में रखे जल में मिट्टी को डालकर (एक घटी बाद निरीक्षण कर) भूमि की उर्वरता की परीक्षा करता है।
२. सर्वं शब्देन भासते (शब्दार्थ-सारणी)
शब्दः (व्याकरणम्) संस्कृत-अर्थः हिन्दी-अर्थः English
सर्वार्थसाधनम् (षष्ठीतत्पुरुषः) सर्वार्थानां साधनम् सभी उद्देश्यों का साधक Accomplisher of all goals
अन्नोपजीविनः (उपपदतत्पुरुषः) अन्नेन उपजीवितुं शीलं यस्य अन्न से जीवित रहने वाले Living on food
धान्यसञ्जातम् (तृतीयातत्पुरुषः) धान्येन सञ्जातम् धान्य (फसल) से उत्पन्न Produced from grain
कृष्या / कृष्यन्वितः कृषिकर्मणा / कृष्या अन्वितः कृषि से / कृषि से युक्त By farming / Engaged in farming
परित्यज्य (परि+√त्यज्+ल्यप्) परित्यागं कृत्वा त्याग करके After renouncing
कारयेत् / समर्थेन कारयतु / योग्येन कराएँ / समर्थ पुरुष द्वारा Should be done / By capable
नितराम् / सत्यवादिनः निश्चयेन / सत्यं वदन्ति इति निश्चयपूर्वक / सत्य बोलने वाले Firmly / Truthful
भूयात् / भूपतिः भवेत् / भुवः पतिः होवे / राजा (स्वामी) May become / King
सुवर्णरौप्यमाणिक्यवसनैः सुवर्णं रौप्यं माणिक्यं वसनं च तैः सोने, चाँदी, रत्न व वस्त्रों से With gold, silver, gems, clothes
पूरिताः / भक्ततृष्णया सुसम्पन्नाः / भोजनेच्छया सुसम्पन्न / भोजन की इच्छा से Prosperous / Desire for food
परानुकूल्यनिरताः परानुकूल्ये निरताः परोपकार में निरत Devoted to benevolence
सन्ततम् / तुष्टचेतसः निरन्तरम् / तुष्टानि चेतांसि येषाम् सतत / प्रसन्न चित्त वाले Continuously / Cheerful-minded
तन्द्रालस्यादिहीनाः तन्द्रालस्यादिभिः हीनाः तन्द्रा व आलस्य से रहित Free from lethargy & laziness
कामक्रोधादिवर्जिताः कामक्रोधादिभिः वर्जिताः काम-क्रोध आदि से रहित Free from lust, anger, etc.
स्नेहभाजम् / साह्यकर्मरताः स्नेहं भजते इति / साह्यकर्मणि रताः स्नेहयुक्त / सहयोग में तत्पर Affectionate / Cooperative
आघ्राय / मृदम् / तोलयित्वा / क्षिप्त्वा घ्रात्वा / मृत्तिकाम् / तोलनं कृत्वा / क्षेपणं कृत्वा सूँघकर / मिट्टी को / तौलकर / फेंककर Smelling / Soil / Weighing / Throwing
पात्रस्थसलिले पात्रस्थिते जले बर्तन में स्थित जल में In water contained in a vessel
घटिकावधिकोविदः घटिकावधेः कोविदः (कालज्ञः) एक घटी (२४ मिनट) काल का ज्ञाता विद्वान् Scholar knowledgeable about time
३. अत्र इदम् अवधेयम् (चतुर्विधम् अन्नम् एवं घटिकावधिकोविदः)
कृषिशास्त्र-परम्परा — आचार्य कौटिल्य ने अर्थशास्त्र में चार विद्याएँ बताई हैं, जिनमें ‘वार्ता’ विद्या के अन्तर्गत कृषिविद्या आती है। भारतीय ज्ञानपरम्परा में काश्यपीयकृषिपद्धतिः, कृषिपाराशरः, वृक्षायुर्वेदः आदि प्रमुख कृषि-ग्रन्थ हैं।
घटिकावधिकोविदः — कृषिकर्म में वही योग्य होता है जो ऋतु और काल (समय) को भली-भाँति जानता है। प्राचीन काल में ऐसे विद्वान् को ‘घटिकावधिकोविदः’ कहा जाता था।
अन्नस्य चत्वारः प्रकाराः (काश्यपीयकृषिपद्धतिः) विवरणम् एवं उदाहरणवाक्यम्
१. व्रीह्यादिरूपम् (धान्यरूपेण) यत् अन्नं धान्यजातं तत् व्रीह्यादिरूपम्। — व्रीह्यादिरूपेण अन्नेन शरीरं पुष्टं भवति।
२. मुद्गमाषादिरूपम् (द्विदलादिरूपेण) यत् अन्नं मुद्गमाषादिजातं तत् मुद्गमाषादिरूपम्। — मुद्गमाषादिरूपेण अन्नेन बलं वर्धते।
३. शाकादिरूपम् (शाकजातरूपेण) यत् अन्नं शाकादिजातं तत् शाकादिरूपम्। — शाकादिरूपेण अन्नेन रोगप्रतिरोधकशक्तिः रक्ष्यते।
४. लताकुसुमादिरूपम् (फलपुष्पादिरूपेण) यत् अन्नं लताकुसुमादिजातं तत् लताकुसुमादिरूपम्। — लताकुसुमादिरूपेण अन्नेन स्वास्थ्यं रक्ष्यते।
४. अभ्यासाद् जायते सिद्धिः (सभी ४ प्रश्नों के सम्पूर्ण उत्तर)
१. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत —
(क) तुष्टचेतसः के भवन्ति ?
➔ कृषिकार्ये संलग्नाः जनाः (कृषकाः) सन्ततं तुष्टचेतसः भवन्ति।
(ख) अन्नोपजीविनः के ?
➔ देवासुरमनुष्याः सर्वे अन्नोपजीविनः सन्ति।
(ग) कृष्या विना किं (न) भवति ?
➔ कृष्या विना धान्यं न भवति।
(घ) सर्वं परित्यज्य किं कारयेत् ?
➔ सर्वं परित्यज्य कृषिं यत्नेन कारयेत्।
(ङ) मानवः भिक्षां कदा प्राप्नोति ?
➔ यदा कृषकः मानवः असमर्थः भवति, तदा सः भिक्षां प्राप्नोति।
(च) माणिक्यादिभिः पूरिताः जनाः भक्ततृष्णया कान् प्रार्थयन्ति ?
➔ माणिक्यादिभिः पूरिताः जनाः भक्ततृष्णया कृषकान् प्रार्थयन्ति।
२. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत — प्रश्नवाचक-वाक्यम्
(क) अन्नं सर्वार्थसाधनं भवति। अन्नं किं भवति ?
(ख) सर्वं परित्यज्य कृषिं यत्नेन कारयेत्। सर्वं परित्यज्य कां (किं) यत्नेन कारयेत् ?
(ग) कृषिकार्ये रताः पुरुषाः गोभूमिदेवभक्ताः भवन्ति। कृषिकार्ये रताः पुरुषाः कीदृशाः भवन्ति ?
(घ) कृष्या विना धान्यं न भवति। कया विना धान्यं न भवति ?
(ङ) लोकानां हितकाम्यया कृषिः कार्या। केषां हितकाम्यया कृषिः कार्या ?
३. मञ्जूषातः पदानि चित्वा भावार्थेषु रिक्तस्थानानि पूरयत —
(मञ्जूषा : आघ्राय, विना, परित्यज्य, समर्थेन, तुष्टचेतसः, क्षिप्त्वा)
(क) कृषिकार्ये रताः जनाः तुष्टचेतसः भवन्ति।
(ख) सर्वं परित्यज्य कृषिं यत्नेन कारयेत्।
(ग) धान्यं कृष्या विना न भवति।
(घ) लोकानां हितकाम्यया समर्थेन कृषिः कार्या।
(ङ) कृषकः पात्रस्थसलिले मृत्तिकां क्षिप्त्वा मृदं परीक्षते।
(च) कृषकः मृत्तिकाम् आघ्राय कृषिभूमिं परीक्षते।
४. रेखाङ्कित-पदानां सन्धिविच्छेदं कुरुत — सन्धिविच्छेदः
(क) सर्वे चान्नोपजीविनः। च + अन्न + उपजीविनः
(ख) प्रार्थको नैव जायते। न + एव
(ग) गोभूमिदेवभक्ताश्च नितरां सत्यवादिनः। गोभूमिदेवभक्ताः + च
(घ) मृदं तोलयित्वाऽपि वा क्वचित्। तोलयित्वा + अपि
(ङ) घना स्निग्धा च भूरपि। भूः + अपि
५. स्वाध्यायान्मा प्रमदः (श्लोकानां पदच्छेदः, अन्वयः एवं संस्कृत-भावार्थः)
श्लोकः पदच्छेदः, अन्वयः एवं संस्कृत-भावार्थः
श्लोकः १ अन्वयः — अन्नं प्राणाः, अन्नं बलं च, अन्नं सर्वार्थसाधनम्, देवासुरमनुष्याः च सर्वे अन्नोपजीविनः (सन्ति)।
भावार्थः — अन्नम् एव प्राणवर्धकं बलवर्धकं सर्वविध-उद्देश्यानां साधनं च अस्ति। देवाः, असुराः, मनुष्याश्च सर्वे अन्नेन उपजीवन्ति।
श्लोकः २ अन्वयः — अन्नं हि धान्यसञ्जातम्, धान्यं च कृष्या विना न, तस्मात् सर्वं परित्यज्य यत्नेन कृषिं कारयेत्।
भावार्थः — तण्डुलादिकम् अन्नं धान्येन उत्पन्नं भवति, किन्तु कृषिकर्म विना धान्यस्य उत्पत्तिः न भवति। अतः प्रयत्नपूर्वकं कृषिकर्म करणीयम्।
श्लोकः ३ अन्वयः — समर्थेन (पुरुषेण) लोकानां हितकाम्यया कृषिः कार्या। कृषकः असमर्थः हि मानवः भिक्षां प्राप्नोति।
भावार्थः — योग्येन पुरुषेण प्राणिनां कल्याणाय कृषिकर्म कर्तव्यम्। यत्र कृषकः असमर्थः भवति, तत्र जनाः भिक्षाटनेन जीविकां निर्वहन्ति।
श्लोकः ४ अन्वयः — पुनः च एकया कृष्या एव प्रार्थकः न जायते, अस्मिन् लोके एकः कृष्यन्वितः हि भूपतिः च भूयात्।
भावार्थः — यः कृषिकर्मणा स्वजीवनं यापयति सः कदापि याचकः न भवति, अपितु अस्मिन् संसारे भूपतिः (स्वामी) भवितुं शक्नोति।
श्लोकः ५ अन्वयः — सुवर्णरौप्यमाणिक्यवसनैः अपि (जनाः) पूरिताः तथापि भक्ततृष्णया कृषकान् प्रार्थयन्ति एव।
भावार्थः — स्वर्ण-रजत-माणिक्य-वस्त्रैः सम्पन्नाः जनाः अपि जीवनरक्षायै भोजनेच्छया कृषकमेव आश्रयन्ति न तु रत्नानि भक्षयन्ति।
श्लोकः ६ अन्वयः — गोभूमिदेवभक्ताः नितरां सत्यवादिनः, परानुकूल्यनिरताः सन्ततं तुष्टचेतसः च (भवन्ति)।
भावार्थः — कृषिकार्ये संलग्नाः जनाः गोभक्ताः, भूमिभक्ताः, देवभक्ताः, सत्यवादिनः, परोपकारिणः सन्तुष्टमनसश्च भवन्ति।
श्लोकः ७ अन्वयः — ये तन्द्रालस्यादिहीनाः कामक्रोधादिवर्जिताः परस्परं स्नेहभाजं साह्यकर्मरताः च (भवन्ति)।
भावार्थः — कृषकाः तन्द्रा-आलस्य-काम-क्रोध-रहिताः परस्परं स्नेहशीलाः परोपकारिणश्च भवन्ति।
श्लोकः ८ अन्वयः — आघ्राय पीत्वा मृदं तोलयित्वा च अपि वा क्वचित् घटिकावधिकोविदः पात्रस्थसलिले क्षिप्त्वा (कृषियोग्यां भूमिं परीक्षते)।
भावार्थः — मृत्तिकां घ्रात्वा, भूजलं पीत्वा, मृत्तिकायाः तोलनं कृत्वा, पात्रस्थे जले मृत्तिकां क्षिप्त्वा एकघटिकायाः अनन्तरं तस्य अवलोकनेन भूमेः उर्वराशक्तेः परीक्षणं करणीयम्।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!