NCERT Class 9 Sanskrit Rishikulya (R2) Chapter 5 Solutions: पञ्च शीलानि आचरेम, आदर्शसमाजं रचयेम (Hindi Translation & Q&A)

Sooraj Krishna Shastri
By -
0
पञ्च शीलानि आचरेम, आदर्शसमाजं रचयेम
पञ्चमः पाठः (पाठ ५) — ऋषिकुल्या (नवमकक्षायाः संस्कृतस्य अधिगम-सामग्री - R2)
१. सम्पूर्णः मूलपाठः एवं सरलः हिन्दी-भावार्थः
संस्कृत-मूलपाठः हिन्दी-भावार्थः
वसुधारा — अयि मैत्रेय ! साञ्चीस्तूपः किमर्थं प्रसिद्धः ?
मैत्रेयः — ननु बौद्धधर्मस्य प्रसिद्धः स्मारकः भवति साञ्चीस्तूपः। सम्राट् अशोकः अस्य निर्माणं कारितवान्।
अध्यापिका — सौम्य मैत्रेय ! यूनेस्कोद्वारापि साञ्चीस्तूपः वैश्विकसम्पद्-रूपेण उद्घोषितः। बौद्धधर्मस्य सिद्धान्तानां भगवतः गौतमबुद्धस्य उपदेशानाञ्च प्रचाराय एषः स्तूपः निर्मितः।
तेञ्जिनः — महोदये ! किं गौतमबुद्धस्य उपदेशाः आधुनिककालेऽपि उपयोगिनः सन्ति ?
अध्यापिका — पुत्र तेञ्जिन ! गौतमबुद्धस्य उपदेशाः सार्वकालिकाः सार्वभौमिकाश्च सन्ति। सांसारिकं मोहमायादिकम् अविगणय्य घोरतपसा समुदितबोधः गौतमः भगवान् बुद्धः अभवत्। असौ करुणायाः प्रतिमा आसीत्।
अरुणा — मान्ये ! वयं भगवतः बुद्धस्य कथाम् उपदेशान् च ज्ञातुम् उत्सुकाः स्मः। कृपया श्रावयतु।
अध्यापिका — अरुणे ! जातकमालायां बुद्धस्य कथाः विलसन्ति। प्रथमम् अहं जातकमालायाः व्याघ्री-जातकतः बुद्धस्य करुणापूर्णां कथामेकां श्रावयामि। अनन्तरं तस्य जीवनोन्नयकरान् उपदेशान् श्रावयामि।
लावण्या — एवं तर्हि वयम् अत्रैव तरुतले उपविश्य सादरं शृणुमः।
अध्यापिका — अवश्यम् !
वसुधारा — अरे मैत्रेय! साँची स्तूप किसलिए प्रसिद्ध है?
मैत्रेय — निश्चय ही साँची स्तूप बौद्ध धर्म का प्रसिद्ध स्मारक है। सम्राट अशोक ने इसका निर्माण कराया था।
अध्यापिका — सौम्य मैत्रेय! यूनेस्को (UNESCO) द्वारा भी साँची स्तूप को विश्व धरोहर (वैश्विक सम्पत्ति) के रूप में घोषित किया गया है। बौद्ध धर्म के सिद्धान्तों और भगवान् गौतम बुद्ध के उपदेशों के प्रचार के लिए यह स्तूप बनाया गया।
तेञ्जिन — महोदया! क्या गौतम बुद्ध के उपदेश आधुनिक काल में भी उपयोगी हैं?
अध्यापिका — पुत्र तेञ्जिन! गौतम बुद्ध के उपदेश सार्वकालिक (सदैव प्रासंगिक) और सार्वभौमिक (सम्पूर्ण विश्व के लिए उपयोगी) हैं। सांसारिक मोह-माया की परवाह न कर घोर तपस्या से ज्ञान (बोधि) प्राप्त करके गौतम ‘भगवान् बुद्ध’ बने। वे करुणा की साक्षात् प्रतिमा थे।
अरुणा — माननीया! हम भगवान् बुद्ध की कथा और उपदेश जानने के लिए उत्सुक हैं। कृपया सुनाइए।
अध्यापिका — अरुणा! ‘जातकमाला’ में बुद्ध की कथाएँ सुशोभित हैं। पहले मैं जातकमाला के ‘व्याघ्री-जातक’ से बुद्ध की एक करुणापूर्ण कथा सुनाती हूँ। उसके बाद उनके जीवन को उन्नत बनाने वाले उपदेश सुनाऊँगी।
लावण्या — तो हम यहीं वृक्ष के नीचे बैठकर आदरपूर्वक सुनते हैं।
अध्यापिका — अवश्य!
बोधिसत्त्वः कारुणिकः स्वसत्कर्मणां बलेन एकस्मिन् कुलीनपरिवारे जन्म अलभत। जातकर्मादिभिः कृतसंस्कारक्रमः अभिवर्धमानोऽसौ प्रकृतिमेधावित्वात् ज्ञानकौतूहलात् अकौसीद्याच्च नचिरेण अष्टादशविद्यास्थानेषु सकलासु स्वकुलक्रमाविरुद्धासु कलासु च पारङ्गतिं लब्धवान्। अयं धर्माभ्यासभावितमतिः कृतप्रव्रज्यापरिचयः बोधिसत्त्वः कदाचिदरण्ये अटन्नासीत्। तस्य स्नेहकरुणादिभावनाभिः हिंस्रका अपि जन्तवः कलहेन विना स्नेहेन चरन्ति स्म।
अथैकदा स्वशिष्येण अजितेन सह वनप्रान्ते भ्रमता बोधिसत्त्वेन काचिद् व्याघ्री अवलोकिता, या पर्वतगुहायां प्रसवपीडया क्लान्ता बुभुक्षया कृशोदरा दुर्बलनेत्रा च आसीत्। अनन्यगतिका सा क्षुत्पीडां निवारयितुं स्वपुत्रानपि हन्तुमुद्यमते स्म।
करुणामय बोधिसत्त्व ने अपने सत्कर्मों के बल से एक कुलीन परिवार में जन्म लिया। जातकर्म आदि संस्कारों के साथ बढ़ते हुए उन्होंने स्वाभाविक बुद्धिमत्ता, ज्ञान की जिज्ञासा और आलस्य के अभाव के कारण शीघ्र ही अठारह विद्यास्थानाें और अपने कुल की परम्परा के अनुकूल समस्त कलाओं में पारंगतता प्राप्त कर ली। धर्म के अभ्यास से पवित्र बुद्धि वाले और संन्यास ग्रहण कर चुके वे बोधिसत्त्व एक बार वन में विचरण कर रहे थे। उनकी स्नेह और करुणा की भावनाओं के प्रभाव से हिंसक जीव-जन्तु भी आपसी कलह के बिना प्रेमपूर्वक विचरण करते थे।
एक बार अपने शिष्य अजित के साथ वन में घूमते हुए बोधिसत्त्व ने एक बाघिन (व्याघ्री) को देखा, जो पर्वत की गुफा में प्रसव-पीड़ा से थकी हुई, भूख के कारण कृशोदरी (पेट पिचका हुआ) और दुर्बल नेत्रों वाली थी। कोई अन्य उपाय न पाकर वह भूख की पीड़ा मिटाने के लिए अपने ही बच्चों को मारकर खाने के लिए उद्यत हो रही थी।
करुणासागरः बोधिसत्त्वः इमां घटनां वीक्ष्य ससम्भ्रमं शिष्यमवोचत् — “तच्छीघ्रमन्विष्यतां तावत्कुतश्चिदस्याः क्षुद्दुःखप्रतीकारहेतुः यावन्न तनयानात्मानं चोपहन्ति।” अजितस्य गमनानन्तरं बोधिसत्त्वः अचिन्तयत् — “मम सम्पूर्णे शरीरे विद्यमाने सति कथमहमन्यस्य प्राणिनः मांसमानयामि ? अन्यस्य प्राणिनः मांसस्य प्राप्तिः भविष्यति इति निश्चितिरपि नास्ति। कदाचित् तावता कालेन सा पुत्रान्न खादेत् मरणं वा न प्राप्नुयात्। मम आत्मा अमरः। शरीरमनित्यं जडञ्च। परोपकारार्थमिदं शरीरम्” इति तर्कयन् सः “अहं स्वप्राणरहितेन गात्रेण पुत्रवधरूपात् पापाद् व्याघ्र्याः संरक्षणं करोमि” इति निश्चित्य योगबलेन प्राणान् अत्यजत्। ततः बोधिसत्त्वस्य तनुः गुहायाः भूमौ सशब्दं पतिता।
स्वपुत्रहिंसायाः उद्यमाद् विरता व्याघ्री बोधिसत्त्वस्य जडं शरीरमभक्षयत्। एतादृशः जीवमात्रे दयालुः बोधिसत्त्वः एव परस्मिन् जन्मनि कारुण्यमूर्तिः भगवान् बुद्धः इति रूपेण जगत्कल्याणं तनुते स्म। भगवान् बुद्धः एव बौद्धधर्मस्य प्रवर्तकः। सः जनानां दुःखनिवारणाय चत्वारि आर्यसत्यानि अष्टाङ्गमार्गं च उपदिष्टवान्।
करुणा के सागर बोधिसत्त्व ने यह घटना देखकर चिन्तित होकर शिष्य से कहा— “शीघ्र ही कहीं से इसकी भूख मिटाने का उपाय खोजो, ताकि यह अपने बच्चों और स्वयं को हानि न पहुँचा ले।” अजित के जाने के बाद बोधिसत्त्व ने सोचा— “मेरा सम्पूर्ण शरीर विद्यमान होते हुए भी मैं किसी दूसरे प्राणी का मांस क्यों मँगवाऊँ? दूसरे प्राणी का मांस मिलेगा भी या नहीं, इसका कोई निश्चय नहीं है। कहीं उतने समय में वह अपने बच्चों को न खा जाए या स्वयं न मर जाए। मेरी आत्मा अमर है और शरीर अनित्य व जड़ है। यह शरीर परोपकार के लिए ही है।” ऐसा विचार करते हुए उन्होंने “मैं अपने प्राणरहित शरीर से इस बाघिन की पुत्र-वध रूपी पाप से रक्षा करता हूँ”—यह निश्चय करके योगबल से प्राण त्याग दिए। तब बोधिसत्त्व का शरीर गुफा की भूमि पर शब्द के साथ गिर पड़ा।
अपने पुत्रों की हिंसा के प्रयास से रुककर उस बाघिन ने बोधिसत्त्व के निर्जीव शरीर को खाया। ऐसे जीवमात्र पर दया करने वाले बोधिसत्त्व ने ही अगले जन्म में करुणामूर्ति भगवान् बुद्ध के रूप में जगत् का कल्याण किया। भगवान् बुद्ध ही बौद्ध धर्म के प्रवर्तक हैं। उन्होंने लोगों के दुःख-निवारण के लिए चार आर्यसत्य और अष्टाङ्गिक मार्ग का उपदेश दिया।
स बुद्धः गृहस्थानां नैतिकजीवनस्य निर्वाहणाय पञ्चशीलानि अपि उपदिष्टवान्। तानि —
१. पाणातिपाता वेरमणिसिक्खापदं समादियामि।
अहं कस्यापि जीवस्य वधं न करिष्यामि इति सङ्कल्पं स्वीकरोमि।
२. अदिन्नादाना वेरमणिसिक्खापदं समादियामि।
अहं चौर्यं न करिष्यामि इति सङ्कल्पं स्वीकरोमि।
३. कामेसु मिच्छाचारा वेरमणिसिक्खापदं समादियामि।
अहं व्यभिचारस्य आचरणं न करिष्यामि इति सङ्कल्पं स्वीकरोमि।
४. मुसावादा वेरमणिसिक्खापदं समादियामि।
अहं मिथ्या न वदिष्यामि इति सङ्कल्पं स्वीकरोमि।
५. सुरामेरय-मज्ज-पमादट्ठाना वेरमणिसिक्खापदं समादियामि।
अहं मद्य-मादक-द्रव्याणां प्रमादसाधनानां च सेवनं न करिष्यामि इति सङ्कल्पं स्वीकरोमि।
संसारे शान्तिमयं जीवनं यापयितुं वयं बौद्धधर्मस्य पञ्चशीलानि आचरेम तेन च आदर्शसमाजं रचयेम।
उन बुद्ध ने गृहस्थों के नैतिक जीवन के निर्वहन के लिए पाँच शील (पञ्चशील) का भी उपदेश दिया। वे हैं—
१. अहिंसा — मैं किसी भी जीव की हत्या नहीं करूँगा, यह संकल्प स्वीकार करता हूँ।
२. अस्तेय (चोरी न करना) — मैं चोरी नहीं करूँगा, यह संकल्प स्वीकार करता हूँ।
३. ब्रह्मचर्य / सदाचार — मैं व्यभिचार (अनैतिक आचरण) नहीं करूँगा, यह संकल्प स्वीकार करता हूँ।
४. सत्य — मैं झूठ (मिथ्या) नहीं बोलूँगा, यह संकल्प स्वीकार करता हूँ।
५. मद्यनिषेध — मैं मद्य (शराब), मादक द्रव्यों और प्रमाद के साधनों का सेवन नहीं करूँगा, यह संकल्प स्वीकार करता हूँ।
संसार में शान्तिमय जीवन बिताने के लिए हम बौद्ध धर्म के पञ्चशील का आचरण करें और उससे आदर्श समाज की रचना करें।
२. सर्वं शब्देन भासते (शब्दार्थ-सारणी)
शब्दः (व्याकरणम्) संस्कृत-अर्थः हिन्दी-अर्थः English
स्तूपः बौद्धानां स्मृतिस्थलम् बौद्धों का पवित्र स्मारक Sacred Buddhist monument
वैश्विकसम्पद् विश्वस्य सम्पत् समस्त विश्व की धरोहर Global heritage / wealth
सार्वकालिकाः सर्वेषु कालेषु उपयोक्तुं शक्याः सदैव प्रासंगिक Timeless / Eternal
सार्वभौमिकाः सर्वेषु स्थलेषु उपयोक्तुं शक्याः सम्पूर्ण विश्व पर लागू Universal
बोधिसत्त्वः (बहुव्रीहिः) बोधिः सत्त्वं यस्य सः भगवान् बुद्ध The Lord Buddha
अभिवर्धमानः (अभि+√वृध्+शानच्) वर्धनशीलः बढ़ता हुआ Growing up
प्रकृतिमेधावित्वात् प्रकृत्या मेधावी, तस्य भावः तस्मात् स्वाभाविक बुद्धिमत्ता से Due to natural intelligence
अकौसीद्यात् (नञ् तत्पुरुषः) न कौसीद्यम्, तस्मात् आलस्य न होने के कारण Due to lack of laziness
ज्ञानकौतूहलात् ज्ञानस्य कौतूहलम्, तस्मात् ज्ञान की जिज्ञासा से Out of curiosity for knowledge
स्वकुलक्रमाविरुद्धासु स्वकुलक्रमस्य अविरुद्धाः तासु कुल परम्परा के अनुकूल Consistent with family tradition
विद्यास्थानेषु विद्यायाः स्थानानि तेषु विद्या के क्षेत्रों में In branches of knowledge
कृतप्रव्रज्यापरिचयः (बहुव्रीहिः) कृतः प्रव्रज्यापरिचयः येन सः संन्यास से परिचित Familiar with renunciation
नचिरेण (अव्ययम्) शीघ्रमेव शीघ्र ही / जल्द ही Soon / In no time
धर्माभ्यासभावितमतिः (बहुव्रीहिः) धर्माभ्यासेन भाविता मतिः यस्य सः धर्म के अभ्यास वाली बुद्धि Mind purified by dharma
अटन् (√अट्+शतृ) भ्रमन् भ्रमण करता हुआ Roaming
क्लान्ता / क्षुत्पीडाम् श्रान्ता / क्षुदः पीडाम् थकी हुई / भूख की पीड़ा Exhausted / Pangs of hunger
उद्यमते / ससम्भ्रमम् उद्यमं करोति / सम्भ्रमेण सह उद्यत होती है / चिन्तित होकर Gets ready / With concern
जडम् / प्राणातिपातात् / मृषावादात् अचलम् / प्राणानाम् अतिपातात् / मृषा वादात् निर्जीव / जीवहत्या से / झूठ बोलने से Non-living / From killing / From lying
३. अत्र इदम् अवधेयम् (पालिभाषा-नियमाः, आर्यसत्यानि, अष्टाङ्गिकमार्गः एवं शरणत्रयम्)
पालिभाषायाः केचन नियमाः —
१. पालिभाषा में संस्कृत के समान हलन्त-पद नहीं होते (यथा— आर्यसत्यम् → अरियसच्चं)।
२. पालिभाषा में स्वरवर्ण से पूर्व भी अनुस्वार होता है (यथा— दुक्खं अरियसच्चं)।
३. पालिभाषा में सर्वथा विसर्ग (अः) के स्थान पर ओ (ो) कारादेश होता है (यथा— सम्यक् सङ्कल्पः → सम्मासङ्कप्पो)।
चत्वारि आर्यसत्यानि विवरणम्
१. दुक्खं अरियसच्चं संसारः दुःखमयः अस्ति (जन्म, जरा, व्याधिः, मरणं, विप्रयोगः, अप्रियसंयोगः)।
२. दुक्खसमुदयं अरियसच्चं तृष्णा (इच्छा / आसक्तिः) एव दुःखस्य मूलकारणम् अस्ति।
३. दुक्खनिरोधं अरियसच्चं तृष्णायाः नाशेन दुःखस्य निरोधः सम्भवति। एतदेव निर्वाणम् (मोक्षः) अस्ति।
४. दुक्खनिरोधगामिनी पटिपदा या प्रतिपत् (मार्गः) दुःखनिरोधं प्रति नयति (अष्टाङ्गिकमार्गः)।
अष्टाङ्गिकमार्गः (पालि / संस्कृत) अर्थः
१. सम्मादिठ्ठि (सम्यक् दृष्टिः)वस्तूनां यथार्थज्ञानम्।
२. सम्मासङ्कप्पो (सम्यक् सङ्कल्पः)शुद्धः हितकरः च विचारः।
३. सम्मावाचा (सम्यक् वाक्)सत्यं प्रियं हितं च वचनम्।
४. सम्माकम्मन्तो (सम्यक् कर्मान्तः)सदाचारयुक्तानि कर्माणि।
५. सम्मा-आजीवो (सम्यक् आजीवः)धर्मसम्मतः जीविकोपार्जनमार्गः।
६. सम्मावायामो (सम्यक् व्यायामः)शुभकर्मणां साधनाय प्रयत्नः।
७. सम्मासति (सम्यक् स्मृतिः)चित्तस्य जागरणम्।
८. सम्मासमाधि (सम्यक् समाधिः)ध्यानेन चित्तस्य एकाग्रता।
शरणत्रयम् — १. बुद्धं शरणं गच्छामि (जागृत गुरु की शरण) | २. धम्मं शरणं गच्छामि (सत्य/धर्म की शरण) | ३. संघं शरणं गच्छामि (भिक्षुसंघ की शरण)। करुणा, मैत्री, अहिंसा और मध्यममार्ग बौद्धधर्म के मूल तत्त्व हैं।
४. अभ्यासाद् जायते सिद्धिः (सभी ६ प्रश्नों के सम्पूर्ण उत्तर)
१. एकपदेन उत्तरं लिखत — उत्तरम्
(क) जातककथासु बुद्धस्य नाम किमासीत् ? बोधिसत्त्वः
(ख) का बुभुक्षिता आसीत् ? व्याघ्री
(ग) बोधिसत्त्वः कथं प्राणान् अत्यजत् ? योगबलेन
(घ) बौद्धधर्मस्य प्रवर्तकः कः ? भगवान् बुद्धः (गौतमबुद्धः)
(ङ) बौद्धधर्मस्य प्रचाराय कस्याः भाषायाः उपयोगः जातः ? पालिभाषायाः
२. पूर्णवाक्येन उत्तरं लिखत —
(क) हिंस्रकाः जन्तवः कथं चरन्ति स्म ?
➔ बोधिसत्त्वस्य स्नेहकरुणादिभावनाभिः हिंस्रकाः जन्तवः कलहेन विना स्नेहेन चरन्ति स्म।
(ख) बोधिसत्त्वेन व्याघ्री कदा अवलोकिता ?
➔ स्वशिष्येण अजितेन सह वनप्रान्ते भ्रमता बोधिसत्त्वेन व्याघ्री अवलोकिता।
(ग) बोधिसत्त्वः किं निश्चित्य योगबलेन प्राणान् अत्यजत् ?
➔ “अहं स्वप्राणरहितेन गात्रेण पुत्रवधरूपात् पापाद् व्याघ्र्याः संरक्षणं करोमि” इति निश्चित्य बोधिसत्त्वः योगबलेन प्राणान् अत्यजत्।
(घ) जनानां दुःखनिवारणाय किम् उपदिष्टवान् ?
➔ भगवान् बुद्धः जनानां दुःखनिवारणाय चत्वारि आर्यसत्यानि अष्टाङ्गमार्गं च उपदिष्टवान्।
(ङ) पञ्चशीलानि किमर्थम् उपदिष्टवान् ?
➔ भगवान् बुद्धः गृहस्थानां नैतिकजीवनस्य निर्वाहणाय पञ्चशीलानि उपदिष्टवान्।
३. कोष्ठकस्य पदानि उपयुज्य घोषवाक्यानि रचयत —
(कोष्ठकम् : व्यायामः, भीतिः, साधनम्, आहारः, सृष्टिः)
(क) सम्यक् दृष्टिः – सम्यक् सृष्टिः।
(ख) शुद्धः आहारः – सर्वहितविचारः।
(ग) सम्यक् स्मृतिः – परीक्षायां नश्यति भीतिः।
(घ) सत्यं वचनम् – दृढतायाः साधनम्।
(ङ) सम्यक् व्यायामः – स्वास्थ्यरक्षानियमः।
४. रेखाङ्कितं पदम् आदाय प्रश्ननिर्माणं कुरुत — प्रश्नवाचक-वाक्यम्
(क) अहं जीवस्य वधं न करिष्यामि। अहं कस्य वधं न करिष्यामि ?
(ख) छात्रः चौर्यं न करिष्यति। छात्रः किं न करिष्यति ?
(ग) सामाजिकः व्यभिचारं न करिष्यति। सामाजिकः किं न करिष्यति ?
(घ) शिशवः असत्यं न वदिष्यन्ति। शिशवः किं न वदिष्यन्ति ?
(ङ) अहं मद्य-मादकद्रव्याणां प्रमादसाधनानां च सेवनं न करिष्यामि। अहं केषां सेवनं न करिष्यामि ?
५. सन्धिपदम् सन्धिविच्छेदः
(क) अधुनापिअधुना + अपि
(ख) आधुनिककालेऽपिआधुनिककाले + अपि
(ग) परोपकारार्थम्परोपकार + अर्थम् (पर + उपकार + अर्थम्)
(घ) सदाचारःसत् + आचारः
(ङ) अत्रैवअत्र + एव
६. समस्तपदम् विग्रहवाक्यम्
(क) मधुरव्यवहारःमधुरः च असौ व्यवहारः (कर्मधारयः)
(ख) धर्मसम्मतःधर्मेण सम्मतः (तृतीयातत्पुरुषः)
(ग) असत्यम्न सत्यम् (नञ्-तत्पुरुषः)
(घ) कृतप्रव्रज्यापरिचयःकृतः प्रव्रज्यापरिचयः येन सः (बहुव्रीहिः)
(ङ) परोपकारार्थम्परोपकाराय इदम् / परेषाम् उपकाराय (चतुर्थीतत्पुरुषः)
५. स्वाध्यायान्मा प्रमदः (बौद्धधर्मस्य परिचयः, विपश्यना एवं चत्वारि तीर्थस्थानानि)
बौद्धधर्मस्य परिचयः — प्रवर्तकः गौतमबुद्धः (प्रचारभाषा — पालिः)। सम्प्रति अनुयायिनां संख्यादृष्ट्या विश्वस्य चतुर्थः धर्मः। प्रमुखः धर्मग्रन्थः त्रिपिटकम् (सुत्तपिटकं — उपदेशाः, विनयपिटकं — भिक्ष्वाचरणनियमाः, अभिधम्मपिटकं — दार्शनिकविचाराः)। आर्यशूरेण रचितायां जातकमालायां ३४ जातकानि सन्ति तथा अश्वघोषेण संस्कृतभाषया बुद्धचरितं सौन्दरानन्दं च विरचितम्।
विपश्यना (विपस्सना) — ‘वि’ उपसर्गपूर्वक-दृश् धातोः निर्मितम्, यस्य अर्थः “वस्तूनां यथार्थरूपेण दर्शनम्”। भगवता बुद्धेन आविष्कृता इयं ध्यानपद्धतिः आत्मनिरीक्षणे (आनापानसति) आधारितम् अस्ति।
क्षेत्रम् तीर्थस्थानम् (सङ्केतः) महत्त्वम्
नेपालदेशः लुम्बिनी भगवतः बुद्धस्य जन्मस्थानम्
बिहारराज्यम् (भारतम्) बोधगया ज्ञानप्राप्तिस्थानम् (सम्बोधनम्)
उत्तरप्रदेशः (भारतम्) सारनाथः प्रथम-धर्मोपदेशस्थानम् (धर्मचक्रप्रवर्तनम्)
उत्तरप्रदेशः (भारतम्) कुशीनगरम् महापरिनिर्वाणस्थानम् (देहत्यागः)

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!