NCERT Class 9 Sanskrit Rishikulya (R2) Chapter 7 Solutions: धर्मश्च व्यवहारश्च चरित्रं राजशासनम् (Hindi Translation & Q&A)

Sooraj Krishna Shastri
By -
0
धर्मश्च व्यवहारश्च चरित्रं राजशासनम्
सप्तमः पाठः (पाठ ७) — ऋषिकुल्या (नवमकक्षायाः संस्कृतस्य अधिगम-सामग्री - R2)
NCERT Class 9 Sanskrit Rishikulya R2 Chapter 7 Dharmashcha Vyavaharashcha Charitram Rajashasanam Solutions
१. सम्पूर्णः मूलपाठः एवं सरलः हिन्दी-भावार्थः
संस्कृत-मूलपाठः हिन्दी-भावार्थः
(अध्यापकः कक्षायां प्रविशति। सर्वे छात्राः उत्थाय तम् अभिवदन्ति।)
छात्राः — सादरं प्रणामाः मान्यवर !
अध्यापकः — नमो नमः। एवं भासते भवन्तः किञ्चित् प्रष्टुम् इच्छन्ति !
छात्राः — आम् महोदय !
अध्यापकः — शोभनम् ! पृच्छन्तु !
दक्षः — महोदय ! वयं भवतः कथनानुसारं ह्यः पुस्तकालयं गतवन्तः। तत्र वयम् अर्थशास्त्रम् इति ग्रन्थं दृष्टवन्तः। अस्य ग्रन्थस्य विषये अस्माभिः बहुधा श्रुतम् आसीत्। अस्मिन् विषये वयम् अधिकं ज्ञातुम् इच्छामः।
अध्यापकः — शोभनम् ! अर्थशास्त्रं तु आचार्येण कौटिल्येन लिखितम्। तत्र आचारः व्यवहारः नागरिकाणां कर्तव्यानि इत्यादयः विषयाः विस्तरेण वर्णिताः सन्ति। भूमेः लाभाय संरक्षणाय च यावन्ति अर्थशास्त्राणि पूर्वाचार्यैः प्रस्तावितानि प्रायशः तानि सर्वाणि संहृत्य एव इदम् अर्थशास्त्रं रचितम्।
(अध्यापक कक्षा में प्रवेश करते हैं। सभी छात्र उठकर उनका अभिवादन करते हैं।)
छात्रगण — सादर प्रणाम मान्यवर!
अध्यापक — नमस्कार। ऐसा लगता है कि आप सब कुछ पूछना चाहते हैं!
छात्रगण — हाँ महोदय!
अध्यापक — बहुत अच्छा! पूछिए!
दक्ष — महोदय! आपके कहने के अनुसार हम कल पुस्तकालय गए थे। वहाँ हमने ‘अर्थशास्त्रम्’ नामक ग्रन्थ देखा। इस ग्रन्थ के विषय में हमने बहुत बार सुना था। इस विषय में हम अधिक जानना चाहते हैं।
अध्यापक — बहुत अच्छा! ‘अर्थशास्त्र’ तो आचार्य कौटिल्य द्वारा लिखा गया है। उसमें आचार, व्यवहार, नागरिकों के कर्तव्य आदि विषय विस्तार से वर्णित हैं। भूमि के लाभ और संरक्षण के लिए पूर्व के आचार्यों द्वारा जितने भी अर्थशास्त्र लिखे गए थे, प्रायः उन सबका संग्रह करके ही इस अर्थशास्त्र की रचना की गई है।
श्रुतिः — अस्तु आचार्य ! अद्य विविधेषु देशेषु अस्माकं देशे च यादृशी शासनव्यवस्था प्रचलिता, किं तादृशी एव शासनव्यवस्था अर्थशास्त्रे अपि उल्लिखिता ?
अध्यापकः — नूनमस्ति। तथा हि इदं पद्यं तत्र उक्तम् —
स्वाम्यमात्य-जनपद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः। (६.२.२७)
श्रुतिः — महोदय ! अस्य कः अभिप्रायः ?
अध्यापकः — अत्र स्वामी इत्यनेन शासनप्रमुखः, अमात्यः इत्यनेन मन्त्री, जनपदः इति जनानां वासयोग्यः भूभागः, दुर्गं नाम सुरक्षाचक्रम्, कोशः नाम सर्वकारीयवित्तसंग्रहः, दण्डः नाम प्रजानुशासनव्यवस्था, मित्राणि इत्युक्ते सुहृद्देशाः च।
श्रुति — ठीक है आचार्य! आज विभिन्न देशों में और हमारे देश में जैसी शासनव्यवस्था प्रचलित है, क्या वैसी ही शासनव्यवस्था अर्थशास्त्र में भी उल्लिखित है?
अध्यापक — निश्चय ही है। जैसा कि वहाँ यह सूत्र कहा गया है—
“स्वामी, अमात्य, जनपद, दुर्ग, कोश, दण्ड और मित्र—ये राज्य की सात प्रकृतियाँ (अंग) हैं।”
श्रुति — महोदय! इसका क्या अभिप्राय है?
अध्यापक — यहाँ ‘स्वामी’ से तात्पर्य शासनप्रमुख (राजा), ‘अमात्य’ से मन्त्री, ‘जनपद’ से लोगों के रहने योग्य भूभाग, ‘दुर्ग’ से सुरक्षाचक्र (किला), ‘कोश’ से सरकारी वित्त-संग्रह (खजाना), ‘दण्ड’ से प्रजानुशासन व्यवस्था (सेना/दण्ड) और ‘मित्र’ से सुहृद् (मित्र) देश हैं।
वागीशः — श्रीमन् ! अधुना मम जिज्ञासा वर्धते तदानीं न्यायव्यवस्था कीदृशी आसीत् इति।
अध्यापकः — धर्मः व्यवहारः चरित्रं राजशासनं च इति न्यायस्य चत्वारः पादाः। एतैः एव विवादानां समाधानं भवति स्म।
वागीशः — महोदय ! धर्मः सत्ये प्रतिष्ठितः इत्यस्य कः अभिप्रायः ?
अध्यापकः — धर्मानुसारमेव न्यायः भवेत् इति अभिप्रायः।
श्रुतिः — आचार्य ! व्यवहारः कः ? चरित्रं किम् ? राजशासनं किम् ?
अध्यापकः — वागीश ! भवान् वदतु, भवान् अस्मिन् विषये किं चिन्तयति ?
वागीशः — व्यवहारः इत्युक्ते सन्देहस्थलेषु साक्षिभिः समाधानम्। चरित्रम् इत्युक्ते सतां व्यवहारः। राजशासनम् इत्यस्य च अभिप्रायः राज्ञा दत्तः निर्णयः। उक्तं हि —
धर्मश्च व्यवहारश्च चरित्रं राजशासनम्।
विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः॥
अत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु।
चरित्रं सङ्ग्रहे पुंसां राज्ञामाज्ञा तु शासनम्॥
अध्यापकः — अतीव शोभनं वागीश !
श्रीवाणी — श्रीमन् ! अद्यापि एतेषां पादानाम् अनुप्रयोगः भवति किम् ?
अध्यापकः — भवति, वत्से ! ‘यतो धर्मस्ततो जयः’ इति भारतीयोच्चतमन्यायालयस्य ध्येयवाक्यम् अस्ति। अस्मिन् वाक्ये वयं धर्मस्य प्रतिष्ठामेव पश्यामः। एवमेव ‘सत्यमेव जयते’ ‘धर्मचक्रप्रवर्तनाय’ इत्यादीनि प्रसिद्धानि ध्येयवाक्यानि अद्यापि तत्र तत्र अनुप्रयुक्तानि एव।
वागीश — श्रीमन्! अब मेरी जिज्ञासा बढ़ रही है कि उस समय न्यायव्यवस्था कैसी थी?
अध्यापक — धर्म, व्यवहार, चरित्र और राजशासन—ये न्याय के चार पाद (आधार) हैं। इन्हीं से विवादों का समाधान होता था।
वागीश — महोदय! ‘धर्म सत्य में प्रतिष्ठित है’—इसका क्या अभिप्राय है?
अध्यापक — इसका अभिप्राय है कि न्याय धर्म के अनुसार ही होना चाहिए।
श्रुति — आचार्य! व्यवहार क्या है? चरित्र क्या है? और राजशासन क्या है?
अध्यापक — वागीश! आप बताइए, आप इस विषय में क्या सोचते हैं?
वागीश — ‘व्यवहार’ का अर्थ है सन्देह के स्थलों पर गवाहों (साक्षियों) द्वारा समाधान। ‘चरित्र’ का अर्थ है सज्जनों का व्यवहार (लोक-परम्परा)। और ‘राजशासन’ का अभिप्राय है राजा द्वारा दिया गया निर्णय। कहा भी गया है—
“धर्म, व्यवहार, चरित्र और राजशासन—ये विवाद-निर्णय के चार पाद हैं, जिनमें बाद वाला पहले वाले से अधिक बलवान् (बाधक) होता है। इनमें धर्म सत्य में स्थित है, व्यवहार साक्षियों में, चरित्र लोगों की परम्परा (संग्रह) में और राजा की आज्ञा ही शासन है।”
अध्यापक — बहुत सुन्दर वागीश!
श्रीवाणी — श्रीमन्! क्या आज भी इन पादों का प्रयोग होता है?
अध्यापक — होता है पुत्री! ‘यतो धर्मस्ततो जयः’ भारतीय सर्वोच्च न्यायालय का ध्येयवाक्य है, जिसमें हम धर्म की प्रतिष्ठा देखते हैं। इसी प्रकार ‘सत्यमेव जयते’, ‘धर्मचक्रप्रवर्तनाय’ आदि प्रसिद्ध ध्येयवाक्य आज भी विभिन्न संस्थाओं में प्रयुक्त होते हैं।
मुदिता — रोचकः खलु अयं प्रसङ्गः। शासकानां कर्तव्यविषये अपि नूनं तत्र चर्चा कृता स्यात् ?
अध्यापकः — उक्तमेव —
विद्याविनीतो राजा हि प्रजानां विनये रतः।
अनन्यां पृथिवीं भुङ्क्ते सर्वभूतहिते रतः॥ (१.२.५)
राज्ञः जीवनं प्रजासेवने समर्पितं स्यात्। तस्य वैयक्तिकं प्रियं तत्र न मुख्यम्। एवं राज्ञः कर्तव्यानि उक्तानि।
श्रुतिः — आचार्य ! अहमपि एकं श्लोकं स्मरामि —
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम्॥ (१.१९.३४)
मुदिता — नागराणां संरक्षणं व्यवस्थापनञ्च कथम् अस्मिन् ग्रन्थे चिन्तितमस्ति ?
अध्यापकः — ‘कोषपूर्वाः सर्वारम्भाः’ (२.८.१-२) इत्युक्तिः अस्ति। तस्मात् कोशस्य व्यवस्था महत्त्वपूर्णा। सर्वेषां मनुष्याणां भोजनादीनां व्यवस्थापनं कोषस्य प्रयोजनम्।
वागीशः — अहो, उत्तमम् ! किन्तु आचार्य ! प्राचीनकाले कोषे धनं कथम् आयाति स्म ?
अध्यापकः — करव्यवस्था तस्मिन् कालेऽपि आसीत्। धान्यषड्भागं पण्यदशभागं हिरण्यं च कररूपेण देयम् इति नियमः आसीत्। छात्राः ! अर्थशास्त्रे अन्येऽपि तादृशाः विषयाः सन्ति ये अद्यापि महत्त्वपूर्णाः सन्ति। संविधानकर्तृभिः बहवः अंशाः ततः एव स्वीकृताः। अत्र मया केवलं भवतां जिज्ञासाशमनार्थं दिङ्मात्रम् उक्तम्। अग्रे भवद्भिः पुस्तकपठने प्रयत्नो विधेयः।
छात्राः — श्रीमन् ! वयं कृतज्ञाः। वयम् अवश्यमेव अर्थशास्त्रं भारतीयसंविधानं च पठित्वा परस्परं चर्चा च कृत्वा अधिकम् अधिगन्तुं प्रयत्नं करिष्यामः।
अध्यापकः — शुभमस्तु प्रेयांसः। सुखं जीवन्तु !
मुदिता — यह प्रसंग सचमुच रोचक है। शासकों के कर्तव्यों के विषय में भी निश्चय ही वहाँ चर्चा की गई होगी?
अध्यापक — कहा ही गया है— “विद्या से विनम्र, प्रजा के अनुशासन और सभी प्राणियों के हित में तत्पर राजा ही सम्पूर्ण पृथ्वी का उपभोग (शासन) करता है।” राजा का जीवन प्रजा की सेवा में समर्पित होना चाहिए, उसका व्यक्तिगत सुख मुख्य नहीं।
श्रुति — आचार्य! मुझे भी एक श्लोक याद आ रहा है— “प्रजा के सुख में ही राजा का सुख है और प्रजा के हित में ही राजा का हित है। जो अपने को प्रिय हो वह राजा का हित नहीं, बल्कि जो प्रजा को प्रिय हो वही राजा का हित है।”
मुदिता — नागरिकों के संरक्षण और व्यवस्थापन के बारे में इस ग्रन्थ में कैसे सोचा गया है?
अध्यापक — ‘कोषपूर्वाः सर्वारम्भाः’ (सभी कार्य कोष/धन पर आधारित होते हैं) ऐसी उक्ति है। इसलिए कोष की व्यवस्था महत्त्वपूर्ण है। सभी मनुष्यों के भोजन आदि की व्यवस्था करना कोष का प्रयोजन है।
वागीश — बहुत उत्तम! किन्तु आचार्य! प्राचीन काल में कोष में धन कैसे आता था?
अध्यापक — कर-व्यवस्था (टैक्स सिस्टम) उस समय भी थी। अनाज का छठा भाग, व्यापारिक वस्तुओं का दसवाँ भाग और स्वर्ण (हिरण्य) कर के रूप में देने का नियम था। अर्थशास्त्र के अनेक अंश हमारे संविधान-निर्माताओं ने भी स्वीकार किए हैं। मैंने यहाँ केवल दिशा-निर्देश मात्र दिया है; आगे आप स्वयं पुस्तक पढ़ने का प्रयास करें।
छात्रगण — श्रीमन्! हम कृतज्ञ हैं। हम अवश्य ही अर्थशास्त्र और भारतीय संविधान पढ़कर अधिक जानने का प्रयास करेंगे।
अध्यापक — कल्याण हो प्रिय बच्चों! सुखी रहो!
२. राष्ट्रस्य सप्ताङ्गानि एवं अत्र इदम् अवधेयम् (नानार्थक-पदानि)
राष्ट्रस्य सप्ताङ्गानि (सप्त प्रकृतयः) — १. स्वामी (राजा) | २. अमात्यः (मन्त्री) | ३. जनपदः (भूमि/प्रजा) | ४. दुर्गम् (किला/सुरक्षाचक्रम्) | ५. कोषः (खजाना) | ६. दण्डः (सेना/प्रजानुशासनम्) | ७. मित्रम् (सहयोगी सुहृद्देशः)।
पदम् नानार्थाः (विविधाः अर्थाः)
प्रकृतिःस्वभावः, स्वरूपः, निसर्गः, राज्याङ्गानि, माया, आगमः
नागरम्नगरे भवम्, शुण्ठी, पौरम्
प्रणालीक्रमः, व्यवस्था, Funnel
व्यवहारःLawsuit (न्यायिक वाद), Deal (लेन-देन), स्वभावः
अर्थःविषयाः, Meaning, प्रयोजनम्, धनम्, याचनम् (धातुः)
दण्डःStick (लाठी), सेना, Punishment (दण्ड)
कोशः / कोषःउभौ अपि शब्दौ भण्डारार्थे समानार्थकौ स्तः
३. सर्वं शब्देन भासते (शब्दार्थ-सारणी)
शब्दः (व्याकरणम्) संस्कृत-अर्थः हिन्दी-अर्थः English
भासते (√भास्, लट्)प्रतीयतेलगता हैSeems to be
नागरकर्तव्यानिनागराणां कर्तव्यानिनागरिक के कर्तव्यDuty of a citizen
संहृत्य (सम्+√हृ+ल्यप्)समाहारं कृत्वाइकट्ठा करकेBringing together
शासनव्यवस्था / व्यवस्थिताशासनस्य व्यवस्था / क्रमानुसारं कृताशासन की व्यवस्था / क्रमबद्धGoverning system / Arranged
भक्ष्याभयव्यवस्थाभोजनस्य अभयस्य च व्यवस्थाभोजन और भयरहित जीवन की व्यवस्थाFood & security system
सर्वकारीयवित्तकोषःसर्वकारीयः वित्तकोषःसरकारी कोषGovernment treasury
योजयितुम् / जिज्ञासायोजनं कर्तुम् / ज्ञातुम् इच्छाजोड़ने के लिए / जानने की इच्छाTo add / Thirst for knowledge
विवादसमाधानम् / अस्पष्टतामतभेदपरिहारः / न स्पष्टतामतभेद का समाधान / अस्पष्टDispute resolution / Unclear
अवलोकनम् / ध्येयवाक्येनिरीक्षणम् / लक्ष्यपरिचायके वाक्येध्यानपूर्वक देखना / ध्येयवाक्य मेंObservation / In motto
उद्घोषयन्ति / भुङ्क्तेउच्चैस्तरां वदन्ति / खादति (पालयति)घोषणा करते हैं / उपभोग करता हैAnnouncing / Enjoys
सर्वभूतहिते / शिष्टाचारवान्सर्वेषां जीवानां हिते / शिष्टानां आचारःसबके हित में / शिष्टाचार से सम्पन्नWell-being of all / Courteous
आत्मप्रियम् / अवेक्षेतस्वस्य अनुकूलम् / पश्येत्अपना प्रिय / देखेFavourite / Should observe
धान्यषड्भागम् / पण्यदशभागम्धान्यस्य षष्ठः / पण्यस्य दशमः भागःअनाज का छठा / व्यापार का दसवाँ भाग1/6th of grain / 1/10th of trade
हिरण्यम् / दिङ्मात्रम्सुवर्णम् / दिशादर्शनमात्रम्सोना / केवल दिशासूचकGold / Mere indication
विधेयः / अधिगन्तुम् / शुभमस्तुकरणीयः / ज्ञातुम् / मङ्गलं भवतुकरना चाहिए / जानने के लिए / भला होShould do / To understand / Goodwill
४. अभ्यासाद् जायते सिद्धिः (सभी ४ प्रश्नों के सम्पूर्ण उत्तर)
१. एकवाक्येन उत्तरं लिखत —
(क) छात्रैः पुस्तकालयं गत्वा किं पुस्तकं दृष्टम् ?
➔ छात्रैः पुस्तकालयं गत्वा ‘अर्थशास्त्रम्’ इति पुस्तकं दृष्टम्।
(ख) छात्राः केन लिखितं पुस्तकं दृष्टवन्तः ?
➔ छात्राः आचार्येण कौटिल्येन लिखितं पुस्तकं दृष्टवन्तः।
(ग) अर्थशास्त्रे विशेषतः के विषयाः उक्ताः ?
➔ अर्थशास्त्रे विशेषतः आचारः, व्यवहारः, नागरिकाणां कर्तव्यानि इत्यादयः विषयाः उक्ताः।
(घ) कानि संहृत्य अर्थशास्त्रं कृतम् ?
➔ भूमेः लाभाय संरक्षणाय च पूर्वाचार्यैः प्रस्तावितानि सर्वाणि अर्थशास्त्राणि संहृत्य इदम् अर्थशास्त्रं कृतम्।
(ङ) राज्यस्य अङ्गानि कानि ?
➔ स्वामी, अमात्यः, जनपदः, दुर्गम्, कोषः, दण्डः, मित्रं च राज्यस्य सप्त अङ्गानि सन्ति।
(च) न्यायस्य चत्वारः पादाः के ?
➔ धर्मः, व्यवहारः, चरित्रम्, राजशासनं च न्यायस्य चत्वारः पादाः सन्ति।
(छ) अस्मिन् पाठे पठितानि ध्येयवाक्यानि चित्वा लिखत ?
➔ अस्मिन् पाठे पठितानि ध्येयवाक्यानि — ‘यतो धर्मस्ततो जयः’, ‘सत्यमेव जयते’, ‘धर्मचक्रप्रवर्तनाय’ इति।
(ज) ‘कोषपूर्वाः सर्वारम्भाः’, तस्मात् किं कर्तव्यम् ?
➔ ‘कोषपूर्वाः सर्वारम्भाः’, तस्मात् कोशस्य व्यवस्था सम्यक् कर्तव्या।
(झ) कररूपेण किं किं देयम् ?
➔ कररूपेण धान्यषड्भागं, पण्यदशभागं, हिरण्यं च देयम्।
२. कोष्ठके प्रदत्तानि पदानि अर्थानुसारं रिक्तस्थानेषु योजयत —
(कोष्ठकम् : स्वामी, अमात्यः, दुर्गम्, कोषः, मित्रम्)
उत्तरम्
(क) यः शासनविषये परामर्शं यच्छतिअमात्यः
(ख) यः शासनं करोतिस्वामी
(ग) देशः यः मैत्रीभावेन तिष्ठतिमित्रम्
(घ) सुरक्षितं स्थानं यत्र भोजनम् अभयं च अस्तिदुर्गम्
(ङ) यत्र देशस्य धन-धान्यादीनां सङ्ग्रहः भवतिकोषः
३. वाक्यम् समानार्थकसूक्तिः (पाठात्)
(क) धर्मः अस्ति चेत् तत्र जयः अपि भविष्यति।यतो धर्मस्ततो जयः।
(ख) धर्मस्य प्रवर्तनार्थं वयं तिष्ठामः।धर्मचक्रप्रवर्तनाय।
(ग) निश्चितं यत् सत्यं जयति।सत्यमेव जयते।
(घ) शासकस्य प्रियं तु प्रजानां हिते भवेत्।प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
(ङ) धनं विना काऽपि योजना न प्रवर्तेत।कोषपूर्वाः सर्वारम्भाः।
४. अनुच्छेदं पठित्वा अधः प्रदत्तप्रश्नानाम् उत्तराणि लिखत (सुखस्य मूलं धर्मः) —
(क) सुखार्थं जनाः किं किम् अर्जयन्ति ?
➔ सुखार्थं जनाः धनं, पदवीं, साधनानि च अर्जयन्ति।
(ख) सुखस्य मूलं _______ अस्ति।
➔ धर्मः
(ग) जितात्मा किं प्राप्नोति ?
➔ जितात्मा इच्छानुसारं फलानि प्राप्नोति।
(घ) सुभाषिते त्रीणि क्रियापदानि सन्ति। प्रथमं _______ द्वितीयं _______ इति तृतीयं च आप्नोति इति।
➔ प्रथमं ‘ददाति’, द्वितीयं ‘याति’ इति।
५. स्वाध्यायान्मा प्रमदः (चाणक्यसूत्राणि एवं अमरकोश-परिचयः)
१. चाणक्यप्रणीतसूत्राणि (१-१०) — सुखस्य मूलं धर्मः। धर्मस्य मूलम् अर्थः। अर्थस्य मूलं राज्यम्। राज्यस्य मूलम् इन्द्रियजयः। इन्द्रियजयस्य मूलं विनयः। विनयस्य मूलं वृद्धोपसेवा। वृद्धोपसेवायाः मूलं विज्ञानम्। विज्ञानेन आत्मानं सम्पादयेत्। सम्पादितात्मा जितात्मा भवति। जितात्मा सेवार्थैः संयुज्येत।
२. अमरकोशः — आचार्य अमरसिंह द्वारा रचित प्रसिद्ध संस्कृत कोशग्रन्थ है, जिसके तीन काण्ड हैं। इसके तृतीय काण्ड में नानार्थवर्ग है, जैसे— “आकाशे त्रिदिवे नाको लोकस्तु भुवने जने। पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥” (अर्थात् ‘नाकः’ के दो अर्थ हैं— आकाश और स्वर्ग; ‘श्लोकः’ के पद्य और यश; ‘सायकः’ के बाण और तलवार)।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!