Class 6 deepakam Chapter 10 – बुद्धिः सर्वार्थसाधिकाः | Buddhih Sarvarthasadhika Question Answers & Solutions

Sooraj Krishna Shastri
By -
0

१. मूल पाठः एवं भावार्थः (हाथी और खरगोश की कथा)

संसारे उत्तमजीवनाय बुद्धिपूर्वकः व्यवहारः आवश्यकः भवति। बुद्धिपूर्वेकेण व्यवहारेण कठिनम् अपि कार्यं सहजं भवति। विशेषतः स्पर्धायाः समये यदि प्रतिपक्षः अतीव प्रबलः, तर्हि बुद्धिबलेन वयं तं जेतुं शक्नुमः। शरीरबलात् बुद्धिबलस्य महत्त्वं कथम् अधिकम् इति एषा कथा प्रतिपादयति। एतां कथां वयं पठामः।

हिन्दी अर्थ: संसार में अच्छे जीवन के लिए बुद्धिमानी से व्यवहार करना आवश्यक है। बुद्धिमानी पूर्ण व्यवहार से कठिन काम भी आसान हो जाता है। विशेष रूप से जब मुकाबला हो और सामने वाला बहुत ताकतवर हो, तो हम अपनी बुद्धि के बल पर उसे जीत सकते हैं। शरीर के बल से बुद्धि का बल कैसे अधिक महत्त्वपूर्ण है, यह कथा इसे ही साबित करती है। आइए हम इस कथा को पढ़ते हैं।


एकस्मिन् वने एकः नित्यजलपूर्णः महान् सरोवरः अस्ति। कदाचित् एकं पिपासाकुलं गजयूथं वनान्तरात् तत्र आगच्छति। तस्मिन् सरोवरे ते गजाः स्वेच्छया जलं पीत्वा, स्नात्वा, क्रीडित्वा च सूर्यास्तसमये निर्गच्छन्ति। तस्य च सरोवरस्य तीरे समन्तात् सुकोमलभूमौ बहूनि शशक-बिलानि सन्ति, येषु बहवः शशकाः निवसन्ति। गजानां परिभ्रमणेन तेषु बिलेषु निवसन्तः बहवः शशकाः क्षतविक्षताः भवन्ति, केचन पुनः मृताः अपि भवन्ति। अतः शशकाः भीताः चिन्तामग्नाः च भवन्ति। ते दुःखम् अनुभवन्ति। स्वरक्षार्थं च ते उपायं चिन्तयन्ति।

हिन्दी अर्थ: एक जंगल में एक बड़ा तालाब था जो हमेशा पानी से भरा रहता था। एक बार किसी दूसरे जंगल से प्यास से व्याकुल हाथियों का एक झुंड वहाँ आया। उस तालाब में वे हाथी अपनी इच्छा से पानी पीकर, नहाकर और खेलकर सूर्यास्त के समय निकल जाते थे। उस तालाब के किनारे चारों ओर की कोमल ज़मीन पर बहुत सारे खरगोशों के बिल थे, जिनमें कई खरगोश रहते थे। हाथियों के घूमने-फिरने से उन बिलों में रहने वाले बहुत से खरगोश कुचलकर घायल हो जाते थे, और कुछ तो मर भी जाते थे। इसलिए खरगोश डरे हुए और चिंतित हो गए। उन्हें बहुत दुख हुआ। अपनी रक्षा के लिए उन्होंने एक उपाय सोचा।


एकस्मिन् दिने सायङ्काले तेषां शशकानां सभा भवति। सर्वे शशकाः स्वमतं प्रकाशयन्ति। परं ते समाधानं न प्राप्नुवन्ति। अन्ते शशकराजः वदति– “अहमेव उपायं चिन्तयामि। अधुना वयं सर्वे स्वगृहं गच्छामः।”

हिन्दी अर्थ: एक दिन शाम के समय उन खरगोशों की सभा हुई। सभी खरगोशों ने अपने-अपने विचार रखे। लेकिन उन्हें कोई समाधान नहीं मिला। अंत में खरगोशों का राजा बोला- "मैं ही कोई उपाय सोचता हूँ। अब हम सब अपने-अपने घर चलते हैं।"


अन्यस्मिन् दिवसे रात्रौ सः शशकराजः यूथाधिपस्य गजराजस्य समीपं गच्छति। सः गजराजं कथयति– “हे गजराज! एषः सरोवरः चन्द्रस्य वासस्थानम् अस्ति। वयं शशकाः तस्य प्रजाः स्मः, अत एव सः शशाङ्कः इति नाम्ना प्रसिद्धः। यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति।”

हिन्दी अर्थ: अगले दिन रात के समय वह खरगोशों का राजा हाथियों के राजा (गजराज) के पास गया। उसने गजराज से कहा - "हे गजराज! यह तालाब चन्द्रमा का निवास स्थान है। हम खरगोश उनकी प्रजा हैं, इसीलिए वे 'शशांक' (जिसकी गोद में खरगोश हो) के नाम से प्रसिद्ध हैं। जब खरगोश जीवित रहते हैं, तभी चन्द्रमा प्रसन्न रहते हैं।"


गजराजः पृच्छति– “कथम् अहं विश्वासं करोमि? किं सत्यमेव चन्द्रः सरोवरे तिष्ठति?” यदि सरोवरः चन्द्रदेवस्य वासस्थानं तर्हि तत् प्रदर्शयतु। शशकः कथयति- "आम्, चन्द्रस्य दर्शनाय अावाम् अधुना एव सरोवरं प्रति चलावः।”

हिन्दी अर्थ: गजराज ने पूछा - "मैं कैसे विश्वास करूँ? क्या सचमुच चन्द्रमा तालाब में रहते हैं? यदि यह तालाब चन्द्रदेव का निवास स्थान है तो मुझे दिखाओ।" खरगोश ने कहा - "हाँ, चन्द्रमा के दर्शन के लिए हम दोनों अभी तालाब की ओर चलते हैं।"


गजराजः शशकराजेन सह सरोवरस्य समीपं गच्छति। सः जले चन्द्रस्य प्रतिबिम्बं पश्यति, चकितः च भवति। सः भयेन चन्द्रं नमति। ततः सः गजयूथेन सह अन्यत्र गच्छति। सः गजयूथः पुनः कदापि तस्य सरोवरस्य समीपं न आगच्छति। शशकाः तत्र सुखेन तिष्ठन्ति। सत्यम् एव उक्तम्– ‘बुद्धिः सर्वार्थसाधिका’।

हिन्दी अर्थ: गजराज खरगोशों के राजा के साथ तालाब के पास गया। उसने पानी में चन्द्रमा की परछाई देखी, और हैरान रह गया। उसने डर के मारे चन्द्रमा को प्रणाम किया। उसके बाद वह हाथियों के झुंड के साथ कहीं और चला गया। हाथियों का वह झुंड फिर कभी उस तालाब के पास नहीं आया। खरगोश वहाँ सुख से रहने लगे। सच ही कहा गया है – ‘बुद्धि सभी कार्यों को सिद्ध (सफल) करने वाली होती है’।

२. शब्दार्थ-सारणी (Word Meanings)

संस्कृत शब्दः संस्कृत-पर्यायः हिन्दी अर्थः English Meaning
सरोवरःजलाशयःतालाबPond / Lake
गजःहस्तीहाथीElephant
शशकःशशःखरगोशRabbit
मृताःहताःमरे हुएDead
भीताःभययुक्ताःडरे हुएScared
प्रतिबिम्बम्प्रतिबिम्बम्परछाईंReflection
चिन्तामग्नःचिन्ताकुलःचिन्तितWorried
शशाङ्कःचन्द्रःचन्द्रमाMoon
नाम्नानामधेयेननाम सेBy name

३. अभ्यासः - भाग १ (प्रश्नोत्तराणि १-३)

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु:

• (क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति? – शशकाः

• (ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति? – गजानाम्

• (ग) शशकराजः कस्य समीपं गच्छति? – गजराजस्य

• (घ) के स्वमतं प्रकाशयन्ति? – शशकाः

• (ङ) कः चन्द्रं नमति? – गजराजः

• (च) के सुखेन तिष्ठन्ति? – शशकाः

२. पूर्णवाक्येन उत्तराणि लिखन्तु:

• (क) चन्द्रः कदा प्रसन्नः भवति?
यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति।

• (ख) सायङ्काले केषां सभा भवति?
सायङ्काले शशकानां सभा भवति।

• (ग) शशकाः किमर्थम् उपायं चिन्तयन्ति?
शशकाः स्वरक्षार्थम् उपायं चिन्तयन्ति।

• (घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति?
चन्द्रः शशाङ्कः इति नाम्ना प्रसिद्धः अस्ति।

• (ङ) “आम्, चन्द्रस्य दर्शनाय अावाम् अधुना एव सरोवरं प्रति चलावः” इति कः कथयति?
"आम्, चन्द्रस्य दर्शनाय अावाम् अधुना एव सरोवरं प्रति चलावः" इति शशकराजः कथयति।

३. पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु:

(पट्टिका: निवसन्ति, चिन्तयन्ति, भवति, कथयति, तिष्ठति)

• (क) किं चन्द्रः सरोवरे तिष्ठति?

• (ख) सर्वे शशकाः उपायं चिन्तयन्ति

• (ग) सायङ्काले शशकानां सभा भवति

• (घ) शशकाः सरोवरस्य तीरे निवसन्ति

• (ङ) सः गजराजं कथयति

४. अभ्यासः - भाग २ (प्रश्नोत्तराणि ४-७)

४. उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु:

पदम् पुरुषः वचनम्
चिन्तयतिप्रथमपुरुषःएकवचनम्
तिष्ठन्तिप्रथमपुरुषःबहुवचनम्
जीवन्तिप्रथमपुरुषःबहुवचनम्
नमतिप्रथमपुरुषःएकवचनम्
कथयतिप्रथमपुरुषःएकवचनम्
गच्छतिप्रथमपुरुषःएकवचनम्

५. उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानानि पूरयन्तु:

धातुः एकवचनम् द्विवचनम् बहुवचनम्
गम्गच्छतिगच्छतःगच्छन्ति
कथ्कथयतिकथयतःकथयन्ति
स्थातिष्ठतितिष्ठतःतिष्ठन्ति
कृकरोमिकुर्वःकुर्मः
जीव्जीवतिजीवतःजीवन्ति
चल्चलामिचलावःचलामः

६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु:

(चित्र में वृक्ष, बच्चे, सेब, टोकरी आदि हैं)

(क) अत्र एकः विशालः वृक्षः अस्ति। (यहाँ एक विशाल पेड़ है।)

(ख) वृक्षे बहूनि फलानि सन्ति। (पेड़ पर बहुत से फल हैं।)

(ग) बालकाः बालिकाः च फलानि खादन्ति। (लड़के और लड़कियाँ फल खा रहे हैं।)

(घ) एकः बालकः फलं त्रोटयति। (एक लड़का फल तोड़ रहा है।)

(ङ) अत्र एकः करण्डकः अपि अस्ति। (यहाँ एक टोकरी भी है।)

७. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु:

(कॉलम अ और ब के समान अर्थ वाले शब्दों का मिलान)

• (क) गजः ➔ हस्ती

• (ख) पदम् ➔ चरणः

• (ग) चन्द्रः ➔ शशाङ्कः

• (घ) सरोवरः ➔ जलाशयः

• (ङ) प्रजा ➔ जनता

५. योग्यताविस्तरः एवं परियोजनाकार्यम्

अवधेयांशः (क्रियापदानां मूलं धातुः)

क्रियापदानां मूलं धातुः अस्ति। यथा– पठति इति क्रियापदस्य मूलं ‘पठ्’ इति धातुः अस्ति।

  • निवसन्ति – नि + वस्
  • भवन्ति – भू (भव्)
  • गच्छति – गम् (गच्छ्)
  • प्रकाशयन्ति – प्र + काश् (काशि)
  • नमति – नम्
  • तिष्ठन्ति – स्था (तिष्ठ्)

वर्तमानकालः (लट्-लकारः)

१. कार्यारम्भात् कार्यपरिसमाप्तेः कालः वर्तमानकालः उच्यते। (कार्य शुरू होने से खत्म होने तक का समय वर्तमान काल कहलाता है।)

२. वर्तमान-कालस्य कृते लट् लकारः भवति।

३. लकारेषु त्रयः पुरुषाः (प्रथमः, मध्यमः, उत्तमः) एवञ्च त्रीणि वचनानि (एकवचनम्, द्विवचनम्, बहुवचनम्) भवन्ति।

लट् लकारस्य प्रत्ययाः (Suffixes):

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषःअतिअतःअन्ति
मध्यमपुरुषःअसिअथःअथ
उत्तमपुरुषःआमिआवःआमः

उदाहरणम् ('पठ्' धातु):

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषःपठतिपठतःपठन्ति
मध्यमपुरुषःपठसिपठथःपठथ
उत्तमपुरुषःपठामिपठावःपठामः

परियोजनाकार्यम्

पाठे पठितानां धातुरूपाणां सङ्ग्रहणं कुर्वन्तु। तेषां पुरुषं वचनं च लिखन्तु।
(पाठ में आए हुए धातु रूपों को छाँटकर उनका पुरुष और वचन लिखें। जैसे: अस्ति - प्रथमपुरुषः, एकवचनम्।)

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!