Veerangna Pannadhaya Class 7 Deepakam Chapter 12 – Questions Answers

Sooraj Krishna Shastri
By -
0

१. मूलपाठः सार्थः (हिन्दी-अनुवादसहितः)

एषा भारतभूमिः वीराणां त्यागधनानां भूमिः अस्ति। सर्वे भारतीयाः ‘एषा भूमिः अस्माकं माता’ इति वदन्ति। अथर्ववेदे ‘माता भूमिः पुत्रोऽहं पृथिव्याः’ इति उक्‍तम्। मातृभूमेः रक्षणार्थं भारतीयाः सर्वस्वम् अर्पितवन्तः। एतादृशानां भारतीयानां गणनायां महिलानां प्रभूतं योगदानम् अस्ति। त्यागे वीरतायां च महिलाः शत्रुनिबर्हणाः आसन्। एतादृशीषु वीराङ्गनासु राजस्थानस्य पन्नाधाया काचिद्विशिष्‍टा वीराङ्गना आसीत्। एषा साहसस्य त्यागस्य निष्‍ठायाः च अद्वितीया मूर्तिः आसीत्। अस्मिन् पाठे तस्याः त्यागस्य पराक्रमस्य च वर्णनं कृतम्। एषा इतिहासस्य स्वर्णिमाक्षरैः लिखिता घटना अस्ति।

हिन्दी अनुवाद: यह भारतभूमि वीरों और त्यागियों की भूमि है। सभी भारतीय 'यह भूमि हमारी माता है' ऐसा कहते हैं। अथर्ववेद में कहा गया है- 'भूमि माता है और मैं पृथ्वी का पुत्र हूँ।' मातृभूमि की रक्षा के लिए भारतीयों ने अपना सर्वस्व अर्पण कर दिया। ऐसे भारतीयों की गणना में महिलाओं का बहुत बड़ा योगदान है। त्याग और वीरता में महिलाएँ शत्रुओं का विनाश करने वाली रही हैं। ऐसी वीरांगनाओं में राजस्थान की पन्नाधाय कोई विशिष्ट वीरांगना थीं। यह साहस, त्याग और निष्ठा की अद्वितीय मूर्ति थीं। इस पाठ में उनके त्याग और पराक्रम का वर्णन किया गया है। यह इतिहास के स्वर्णिम अक्षरों से लिखी गई घटना है।

षोडशे शतके मेवाडनगरे महाराणा-सङ्ग्रामसिंहः इति सुविख्यातः महाराजः आसीत्। तस्य द्वौ पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्। महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः। बनवीरः पृथ्वीराजस्य अष्‍टादशसु पुत्रेषु अन्यतमः। सः बनवीरः महाराणासङ्ग्रामसिंहस्य प्रथमं पुत्रं विक्रमादित्यं छलेन मारयित्वा मेवाडस्य शासनम् अकरोत्। ततः परमपि सः दष्‍टुबुद्धिः अचिन्तयत् यत् – “अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात्” इति। अतः कदाचित् रात्रौ सः उदयसिंहं मारयितुं कुतन्त्रम् अरचयत्। तद् ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती। सा तस्य दुष्परिणामं जानाति स्म। बनवीरः उदयसिंहस्य शयनागारम् आगच्छत्। तत्र सुप्‍तः चन्दनः एव उदयसिंहः इति मत्वा बनवीरः चन्दनम् अमारयत्।

हिन्दी अनुवाद: सोलहवीं शताब्दी में मेवाड़ नगर में महाराणा संग्राम सिंह नामक विख्यात महाराज थे। उनके दो पुत्र विक्रमादित्य और उदयसिंह थे। महाराणा संग्राम सिंह के भाई पृथ्वीराज थे। बनवीर पृथ्वीराज के अठारह पुत्रों में से एक था। उस बनवीर ने महाराणा संग्राम सिंह के प्रथम पुत्र विक्रमादित्य को छल से मारकर मेवाड़ पर शासन किया। उसके बाद भी उस दुष्ट बुद्धि वाले ने सोचा कि – "मैं ही अकेला उत्तराधिकारी बनूँ। कोई भी मेरा प्रतिद्वंद्वी न हो।" इसलिए एक रात उसने उदयसिंह को मारने का षड्यंत्र रचा। यह जानकर पन्नाधाय ने उदयसिंह के सोने के स्थान (बिस्तर) पर अपने पुत्र चन्दन को सुला दिया। वह इसका बुरा परिणाम जानती थी। बनवीर उदयसिंह के शयनकक्ष में आया। वहाँ सोए हुए चन्दन को ही उदयसिंह मानकर बनवीर ने चन्दन को मार डाला।

पन्नाधायायाः निर्णयः अकल्पनीयः आसीत्। ‘व्यक्‍तिहितं न, राष्ट्रहितम् एव श्रेष्‍ठम्’ इति सा जानाति स्म। तस्याः पुत्रस्तु दिवङ्गतः, परं सा मेवाडराज्यं बनवीरस्य कुतन्त्रात् अरक्षत्। कालान्तरे सः एव उदयसिंहः युद्धे बनवीरं हत्वा मेवाडराज्यस्य राजा अभवत्। तस्य पुत्रः एव पराक्रमी योद्धा महाराणाप्रतापः। सः प्रतापः शौर्येण भारतीयानां हृदये चिरं स्थानं प्राप्नोत्। कथ्यते एव – “यदि पन्नाधाया स्वपुत्रस्य बलिदानं न अकरिष्यत् तर्हि उदयसिंहः न अभविष्यत्। यदि उदयसिंहः न अभविष्यत् तर्हि महाराणाप्रतापः अपि न अभविष्यत्”। पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्कं तिष्‍ठति। भारतीये इतिहासे वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं प्राप्नोत्। पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्‍तिं, कर्तव्यनिष्‍ठां, बलिदानं, विवेकं च शिक्षयति। उच्यते एव − “यदि पन्नाधाया नाभविष्यत् तर्हि कुतो राणाप्रतापः”

हिन्दी अनुवाद: पन्नाधाय का निर्णय अकल्पनीय था। 'व्यक्तिगत हित नहीं, राष्ट्रहित ही श्रेष्ठ है', यह वह जानती थीं। उनका पुत्र तो वीरगति को प्राप्त हो गया, परन्तु उन्होंने मेवाड़ राज्य की बनवीर के कुचक्र से रक्षा की। कुछ समय बाद उसी उदयसिंह ने युद्ध में बनवीर को मारकर मेवाड़ राज्य के राजा का पद प्राप्त किया। उनका पुत्र ही पराक्रमी योद्धा महाराणा प्रताप था। उस प्रताप ने अपनी शूरता से भारतीयों के हृदय में लम्बे समय तक स्थान प्राप्त किया। कहा ही जाता है - "यदि पन्नाधाय अपने पुत्र का बलिदान न करतीं तो उदयसिंह न होते। यदि उदयसिंह न होते तो महाराणा प्रताप भी न होते"। पन्नाधाय का त्याग और शौर्य संसार में जब तक सूर्य-चन्द्र हैं तब तक विद्यमान रहेगा। भारतीय इतिहास में वीरांगनाओं की गणना में पन्नाधाय ने महानतम स्थान प्राप्त किया। पन्नाधाय का बलिदान सभी को शौर्य, राष्ट्रभक्ति, कर्तव्यनिष्ठा, बलिदान और विवेक की शिक्षा देता है। कहा भी गया है − "यदि पन्नाधाय न होतीं, तो राणा प्रताप कहाँ से होते?"

२. शब्दार्थ-सारणी (Word Meanings)

शब्द: अर्थ: हिन्दी अर्थ: English Meaning
त्यागधनानाम्त्यागमूर्तीनाम्बलिदानियों कीOf people who sacrifice everything
सर्वस्वम्स्वीयं सम्पूर्णम्अपना सब कुछOne’s Everything
प्रभूतम्प्रचुरम्अधिकAbundant
शत्रुनिबर्हणाःअरिविनाशकाःशत्रुओं का विनाशकDestroyers of enemies
वीराङ्गनासुवीरनारीषुवीर नारियों मेंAmong brave women
साहसस्यवीरतायाःसाहस काOf courage
स्वर्णिमाक्षरैःसुवर्णाक्षरैःसोने के अक्षरों सेWith golden letters
षोडशे शतकेषोडश-शताब्द्याम्सोलहवीं शताब्दी मेंIn the sixteenth century
छलेनवञ्चनेनकपट सेBy deception
कुतन्त्रम्कुचक्रम्षड्यन्त्रEvil plot
अद्वितीयम्अनुपमम्सर्वोत्कृष्‍टMatchless
धायाधात्रीधाय / दाईWet Nurse
आस्ताम्अभवताम्दो थेTwo were present
अन्यतमःबहुषु एकःबहुतों में एकOne of many
दुष्‍टबुद्धिःदुर्बुद्धिःदुष्‍ट बुद्धि वालाEvil minded
प्रतिस्पर्धीस्पर्धालुःप्रतिद्वन्द्वीCompetitor
मारयितुम्हन्तुम्मारने के लिएTo kill
कदाचित्कस्मिंश्‍चित् समयेकभीSometime
शायितवतीशयनं कारितवतीसुलायाPut to sleep
दुष्परिणामम्कुपरिणामम्अनिष्‍ट कोBad outcome
शयनागारम्शयनप्रकोष्‍ठम्सोने के कक्ष कोBedroom
कल्पनातीतःअकल्पनीयःचिन्तन से परेBeyond imagination
व्यक्‍तिहितम्निजहितम्स्वार्थSelf interest
राष्‍ट्रहितम्देशकल्याणम्राष्‍ट्र का हितNational’s interest
श्रेष्‍ठम्शीर्ष-स्थानीयम्सर्वोपरिHighest
कालान्तरेपरवर्ति-समयेकुछ समय के बादLater on
हत्वामारयित्वामारकरHaving killed
पराक्रमीविक्रमीवीरValorous
योद्धायुद्धे समर्थःसैनिकWarrior
शौर्येणशूरतायाः कारणेनशूरता सेWith bravery
चिरम्बहुकालम्बहुत काल तकFor long time
जगतिविश्‍वेसंसार मेंIn the world
आचन्द्रार्कम्सूर्यस्य चन्द्रस्य च अस्तित्व-पर्यन्तम्जब तक सूर्य और चन्द्र हैंAs long as the sun and the moon are there
गणनासुशृङ्खलासुगिनतियों मेंAmongst the consideration of
महत्तमम्बहुषु श्रेष्‍ठम्बहुतों में श्रेष्‍ठBest among the greats

३. व्याकरण-बोधः (लङ्-लकारः)

✦ लङ्-लकारः (भूतकाले एतस्य लकारस्य प्रयोगः भवति)

पठ् धातुः (परस्‍मैपदम्)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषःअपठत्अपठताम्अपठन्
मध्यमपुरुषःअपठःअपठतम्अपठत
उत्तमपुरुषःअपठम्अपठावअपठाम

वयं वाक्येषु लङ्लकारस्य प्रयोगं पठामः:

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषःबालकः पाठम् अपठत्बालकौ पाठम् अपठताम्बालकाः पाठम् अपठन्
मध्यमपुरुषःत्वं पाठम् अपठःयुवां पाठम् अपठतम्यूयं पाठम् अपठत
उत्तमपुरुषःअहं पाठम् अपठम्आवां पाठम् अपठाववयं पाठम् अपठाम

४. अभ्यासः - भाग १ (प्रश्नोत्तराणि १-२)

१. अधः प्रदत्तानां प्रश्‍नानाम् एकपदेन उत्तरं लिखन्तु:

• (क) राजस्थानस्य वीराङ्गनासु का सुविख्याता?
पन्नाधाया

• (ख) उदयसिंहः कस्य पुत्रः?
महाराणासङ्ग्रामसिंहस्य

• (ग) बनवीरः कं मारयितुं कुतन्‍त्रम् अरचयत्?
उदयसिंहम्

• (घ) कालान्तरे कः मेवाडस्य राजा अभवत्?
उदयसिंहः

• (ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत्?
अकल्पनीयः

• (च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत्?
भारतीयानां

२. अधः प्रदत्तानां प्रश्‍नानां पूर्णवाक्येन उत्तरं लिखन्तु:

• (क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति?
पन्नाधाया साहसस्य त्यागस्य निष्ठायाः च अद्वितीया मूर्तिः (उदाहरणम्) अस्ति।

• (ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम्?
महाराणासङ्ग्रामसिंहस्य पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्।

• (ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत्?
दुष्टबुद्धिः बनवीरः अचिन्तयत् यत् "अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात्।"

• (घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत्?
बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती।

• (ङ) आचन्द्रार्कं किं तिष्ठति?
पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्कं तिष्ठति।

• (च) पन्नाधायायाः बलिदानं किं शिक्षयति?
पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं, कर्तव्यनिष्ठां, बलिदानं, विवेकं च शिक्षयति।

५. अभ्यासः - भाग २ (प्रश्नोत्तराणि ३-७)

३. उदाहरणानुसारम् उचितैः पदैः रिक्‍तस्थानानि पूरयन्तु:

• (क) अमिलत्अमिलताम्अमिलन्

• (ख) अवदत् – अवदतम् (अवदताम्) – अवदन्

• (ग) अखादः – अखादतम्अखादत

• (घ) अलिखत्अलिखताम् – अलिखन्

• (ङ) अरक्षम् – अरक्षाव – अरक्षाम

• (च) अपिबःअपिबतम् – अपिबत

• (छ) अपृच्छम् – अपृच्छावअपृच्छाम

• (ज) अमारयत् – अमारयताम् – अमारयन्

• (झ) अभवम्अभवाव – अभवाम

४. वाक्यानि पठित्वा उदाहरणानुसारं वचनपरिवर्तनं कुर्वन्तु:

यथा – सः शालाम् अगच्छत्। – तौ शालाम् अगच्छताम्।ते शालाम् अगच्छन्।

• (ख) बालिका पद्यम् अलिखत्। – बालिके पद्यम् अलिखताम्।बालिकाः पद्यम् अलिखन्।

• (ग) शिक्षकः अवदत्। – शिक्षकौ अवदताम्।शिक्षकाः अवदन्।

• (घ) सा चित्रम् अपश्यत्। – ते चित्रम् अपश्यताम्।ताः चित्रम् अपश्यन्।

• (ङ) त्वम् अक्रीडः। – युवाम् अक्रीडतम्।यूयम् अक्रीडत।

• (च) त्वं जलम् अनयः। – युवां जलम् अनयतम्।यूयं जलम् अनयत।

• (छ) अहं मन्दिरम् अगच्छम्। – आवां मन्दिरम् अगच्छाव।वयं मन्दिरम् अगच्छाम।

• (ज) अहं मधुरम् अखादम्। – आवां मधुरम् अखादाव।वयं मधुरम् अखादाम।

५. उदाहरणानुसारं रेखाङ्कितानि पदानि आश्रित्‍य प्रश्‍ननिर्माणं कुर्वन्‍तु:

यथा – महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः। – कस्य भ्राता पृथ्वीराजः?

• (क) सः अचिन्तयत्। – सः किम् अचिन्तयत्?

• (ख) शयनस्थाने चन्दनं शायितवती। – शयनस्थाने कं शायितवती?

• (ग) राष्‍ट्रहितं श्ष्रे‍ठम्। – किं श्रेष्ठम्?

• (घ) बनवीरः चन्दनम् अमारयत्। – कः चन्दनम् अमारयत्?

• (ङ) तस्याः निर्णयः अकल्पनीय: आसीत्। – तस्याः निर्णयः कीदृशः आसीत्?

• (च) उदयसिंहः मेवाडस्य राजा अभवत्। – कः मेवाडस्य राजा अभवत्?

• (छ) मम प्रतिस्पर्धी न स्यात्। – मम कः न स्यात्?

६. उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु:

यथा – विद्या + अभ्यासः = विद्याभ्यासः

• (क) मम + अपि = ममापि

• (ख) विद्या + अर्थी = विद्यार्थी

• (ग) सह + अनुभूतिः = सहानुभूतिः

• (घ) कवि + इन्द्रः = कवीन्द्रः

• (ङ) गिरि + ईशः = गिरीशः

• (च) वेद + अलङ्कारः = वेदालङ्कारः

• (छ) दैत्य + अरिः = दैत्यारिः

• (ज) सु + उक्‍तिः = सूक्तिः

७. उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट् लकारे) परिवर्तयन्तु:

यथा – पन्नाधाया राज्यम् अरक्षत्। – पन्नाधाया राज्यं रक्षति।

• (क) उदयसिंहः वीरः आसीत्। – उदयसिंहः वीरः अस्ति।

• (ख) अहं तत् सर्वम् अपश्यम्। – अहं तत् सर्वं पश्यामि।

• (ग) बनवीरः कुतन्त्रम् अकरोत्। – बनवीरः कुतन्त्रं करोति।

• (घ) त्वं शयनस्थानम् अगच्छः। – त्वं शयनस्थानं गच्छसि।

• (ङ) ते कथाम् अपठन्। – ते कथां पठन्ति।

• (च) धात्री उदयसिंहम् अपृच्छत्। – धात्री उदयसिंहं पृच्छति।

• (छ) वयं शूराः अभवाम। – वयं शूराः भवामः।

६. योग्यताविस्तरः एवं परियोजनाकार्यम्

✦ योग्यताविस्तरः

१. सामान्यतः भूतकाले लङ्-लकारस्य स्थाने क्तवतु प्रत्ययान्त-पदस्य प्रयोगः क्रियते।

धातुः लट्-लकारः (वर्तमानकालः) लङ्-लकारः (भूतकालः) क्‍तवतु-प्रत्ययान्त-पदम् (पुंलिङ्गं / स्‍त्रीलिङ्गं च)
पठ्पठतिअपठत्पठितवान् / पठितवती
लिख्लिखतिअलिखत्लिखितवान् / लिखितवती
खाद्खादतिअखादत्खादितवान् / खादितवती
पिब्(पा)पिबतिअपिबत्पीतवान् / पीतवती
रक्ष्रक्षतिअरक्षत्रक्षितवान् / रक्षितवती
कृकरोतिअकरोत्कृतवान् / कृतवती
भूभवतिअभवत्भूतवान् / भूतवती
मिल्मिलतिअमिलत्मिलितवान् / मिलितवती
चल्चलतिअचलत्चलितवान् / चलितवती
गच्‍छ्(गम्)गच्छतिअगच्छत्गतवान् / गतवती
नय्(नी)नयतिअनयत्नीतवान् / नीतवती
स्मर्(स्‍मृ)स्मरतिअस्मरत्स्मृतवान् / स्मृतवती
त्यज्त्यजतिअत्यजत्त्यक्‍तवान् / त्यक्‍तवती
पृच्छ्(प्रच्‍छ्)पृच्छतिअपृच्छत्पृष्‍टवान् / पृष्‍टवती
तिष्‍ठ्(स्‍था)तिष्‍ठतिअतिष्‍ठत्स्थितवान् / स्थितवती
पश्‍य्(दृश्)पश्यतिअपश्यत्दृष्‍टवान् / दृष्‍टवती
क्रीड्क्रीडतिअक्रीडत्क्रीडितवान् / क्रीडितवती

२. राज्यस्य सप्‍त अङ्गानि भवन्ति — १. स्वामी २. अमात्यः ३. सुहृत् ४. कोषः ५. राष्‍ट्रम् ६. दुर्गम् ७. बलम्। एतानि सुदृढानि चेत् राष्‍ट्रं सुदृढं भवति।

३. प्राचीनकाले युद्धेषु विविधव्यूहानां रचना क्रियते स्‍म — यथा – चक्रव्यूहः, गरुडव्यूहः, सर्पव्यूहः, मकरव्यूहः, अर्धचन्द्रव्यूहः, मण्डलव्यूहः, ओरमीव्यूहः, क्रौञ्चव्यूहः, वज्रव्यूहः च इत्यादयः व्यूहाः।

✦ परियोजनाकार्यम्

भारतीयानां वीराङ्गनानां चित्राणि सङ्गृह्य तासां पराक्रमं सारांशरूपेण स्‍वभाषया लिखन्‍तु।
यथा – लक्ष्मीबाई, पद्मावती, कित्तूरुराणी चन्नम्मा, रुद्रम्मादेवी, झलकारी, रानीहाडी चेत्यादीनाम्।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!