Shurah Vayam Dheerah Vayam Class 6 Sanskrit Chapter 7 – Question Answers, Solutions & Notes | शूराः वयं धीराः वयम्

Sooraj Krishna Shastri
By -
0

१. पाठ-परिचयः (कक्षायां सम्भाषणम्)

छात्रः: श्रीमन्! अहम् अद्य ‘शूरा वयं धीरा वयम्’ इति गीतं श्रुतवान्।
शिक्षिका: अस्तु! शोभनम्।
छात्रा: श्रीमन्! अहम् अपि एतत् गीतं श्रुतवान्। सुन्दरं गीतम् अस्ति।
शिक्षकः: छात्राः! “शूरा वयं धीरा वयम्” अत्र ‘वयम्’ इति शब्दः केषां कृते प्रयुक्तः?
छात्रः: वयम् शब्दः भारतीयानां कृते अस्ति इति चिन्तयामि।
छात्रा: श्रीमन्! वयं भारतीयाः शूराः वीराः च स्मः।
शिक्षकः: सत्यम्। वयं भारतीयाः शूराः वीराः च। एतत् एव सस्वरं मिलित्वा गायामः।

२. देशभक्ति-गीतम् एवं श्लोक-अर्थः

श्लोक १

शूरा वयं धीरा वयं वीरा वयं सुतराम्।
गुणशालिनो बलशालिनो जयगामिनो नितराम्॥१॥
शूरा वयम्॥

हिन्दी अर्थ: हम बहुत शूरवीर (शूर), धैर्यवान (धीर), और वीर हैं। हम अत्यधिक गुणवान, बलवान और हमेशा विजय की ओर जाने वाले हैं। हम शूरवीर हैं।

श्लोक २

दृढमानसा गतलालसाः प्रियसाहसाः सततम्।
जनसेवका अतिभावुकाः शुभचिन्तका नियतम्॥२॥
शूरा वयम्॥

हिन्दी अर्थ: हम दृढ़ निश्चय वाले, लालच से रहित (निर्लोभी) और हमेशा साहस से प्रेम करने वाले हैं। हम निश्चित रूप से लोगों की सेवा करने वाले, अत्यन्त संवेदनशील (भावुक) और सबका भला सोचने वाले हैं। हम शूरवीर हैं।

श्लोक ३

धनकामना सुखवासना न च वञ्चना हृदये।
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये॥३॥
शूरा वयम्॥

हिन्दी अर्थ: हमारे हृदय में न तो धन की इच्छा है, न सुख की लालसा है, और न ही किसी को धोखा देने (वंचना) की भावना है। हम विजय प्राप्ति में अत्यन्त ऊर्जायुक्त, तेजपूर्ण (वर्चस्व वाले) और अडिग (निश्चल) हैं। हम शूरवीर हैं।

श्लोक ४

गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः।
यामो वयं समराङ्गणं विजयार्थिनो बालाः॥४॥
शूरा वयम्॥

हिन्दी अर्थ: हम सभी बच्चे भय से रहित (निडर), नीति का पालन करने वाले और दृढ़ शक्ति वाले हैं। हम विजय की इच्छा रखने वाले बच्चे युद्ध के मैदान (संघर्ष) की ओर प्रस्थान करते हैं। हम शूरवीर हैं।

श्लोक ५

जगदीश हे! परमेश हे! सकलेश हे! भगवन्।
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन्॥५॥
शूरा वयम्॥

हिन्दी अर्थ: हे जगदीश्वर! हे परमेश्वर! हे सबके स्वामी भगवन्! हे परमात्मा, आप हमें परम उज्ज्वल और मंगलमयी विजय प्रदान करें। हम शूरवीर हैं।

३. शब्दार्थ-सारणी (Word Meanings)

संस्कृत शब्दः संस्कृत-पर्यायः हिन्दी अर्थः English Meaning
नितराम्सुतराम्अत्यधिक रूप सेAbundantly
दृढमानसाःदृढचित्ताःदृढ़ मन वालेDetermined
गतलालसाःलोभरहिताःलालच रहितWithout greed
प्रियसाहसाःसाहसयुक्ताःसाहसीBrave
नियतम्निश्चितम्निश्चितCertainly/Definitely
ऊर्जस्वलाःस्फूर्तियुक्ताःफुर्तीलेEnergetic
वर्चस्वलाःतेजोयुक्ताःतेजस्वीRadiant
अतिनिश्चलाःअविचलिताःदृढ़ निर्णय वालेDetermined
शूराःवीराःपराक्रमीBrave
गतभीतयःभीतिरहिताःभयरहितFearless
धृतनीतयःनीतिम् आचरन्तःनीतिमान्Righteous
दृढशक्तयःशक्तियुक्ताःशक्तिमान्Powerful
निखिलाःसमग्राःसम्पूर्णAll
यामःगच्छामःजाते/जाती हैं(We) are going
समराङ्गणम्युद्धक्षेत्रम्युद्ध का मैदानBattlefield
विजयार्थिनःविजयम् इच्छन्तःविजय चाहने वालेThose who want victory
सकलेशसर्वेषाम् ईशसभी के ईश (भगवान)Supreme God
परमोज्ज्वलम्अत्यन्तं प्रकाशमानम्परम उज्ज्वलExtremely bright
नःअस्मान्हमेंUs
देहियच्छदीजिए(You) Give

४. अभ्यासः - भाग १ (प्रश्नोत्तराणि १-४)

१. एतत् सम्पूर्णं गीतं सस्वरं गायन्तु, लिखन्तु, कण्ठस्थं च कुर्वन्तु।

(छात्र स्वयं गीत का सस्वर वाचन व स्मरण करें।)

२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु:

• (क) शूराः के? – भारतीयाः / वयम् / बालाः

• (ख) वयं कीदृशमानसाः स्मः? – दृढमानसाः

• (ग) वयं कीदृशचिन्तकाः स्मः? – शुभचिन्तकाः

• (घ) वयं कुत्र अतिनिश्चलाः स्मः? – विजये

• (ङ) वयं विजयार्थिनः कुत्र यामः? – समराङ्गणम्

३. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु:

(एकवचन ⟷ बहुवचन)

• (क) शूराः वयम् = शूरः अहम्  |  वीराः वयम् = वीरः अहम्

• (ख) बलशाली अहम् = बलशालिनो वयम्  |  जयगामी अहम् = जयगामिनो वयम्

• (ग) दृढमानसाः वयम् = दृढमानसः अहम्  |  प्रियसाहसाः वयम् = प्रियसाहसः अहम्

• (घ) अतिभावुकः अहम् = अतिभावुकाः वयम्  |  शुभचिन्तकः अहम् = शुभचिन्तकाः वयम्

• (ङ) धनकामना = धनकामनाः  |  वञ्चना = वञ्चनाः

• (च) वर्चस्वलः अहम् = वर्चस्वलाः वयम्  |  अतिनिश्चलः अहम् = अतिनिश्चलाः वयम्

४. स्तम्भौ मेलयन्तु उत्तरं च लिखन्तु:

(अ) (ब) उत्तराणि (सही मिलान)
(क) गतभीतयो धृतनीतयोशुभचिन्तका नियतम्दृढशक्तयो निखिलाः
(ख) यामो वयं समराङ्गणंसकलेश हे भगवन्!विजयार्थिनो बालाः
(ग) जगदीश हे! परमेश हे!विजयार्थिनो बालाःसकलेश हे भगवन्!
(घ) जयमङ्गलं परमोज्ज्वलंदृढशक्तयो निखिलाःनो देहि परमात्मन्!
(ङ) जनसेवका अतिभावुकाःनो देहि परमात्मन्!शुभचिन्तका नियतम्
(च) ऊर्जस्वला वर्चस्वलाअतिनिश्चला विजयेअतिनिश्चला विजये

५. अभ्यासः - भाग २ (प्रश्नोत्तराणि ५-८)

५. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु:

एकवचनम् बहुवचनम्
यथा – शूरःशूराः
(क) धीरःधीराः
(ख) वीरःवीराः
(ग) जनसेवकःजनसेवकाः
(घ) धनकामनाधनकामनाः
(ङ) निखिलःनिखिलाः
(च) बालःबालाः

६. उदाहरणं दृष्ट्वा अधोलिखितानि पदानि परस्परं संयोज्य वाक्यानि रचयन्तु:

(अ) छात्रः, छात्रौ, छात्राः, अहम्, आवाम्, वयम्, त्वम्, युवाम्, यूयम्
(ब) पठामि, पठसि, पठति, पठन्ति, पठथः, पठथ, पठतः, पठामः, पठावः

• (क) छात्रः ➔ छात्रः पठति।

• (ख) छात्रौ ➔ छात्रौ पठतः।

• (ग) छात्राः ➔ छात्राः पठन्ति।

• (घ) अहम् ➔ अहं पठामि।

• (ङ) आवाम् ➔ आवां पठावः।

• (च) वयम् ➔ वयं पठामः।

• (छ) त्वम् ➔ त्वं पठसि।

• (ज) युवाम् ➔ युवां पठथः।

• (झ) यूयम् ➔ यूयं पठथ।

७. कोष्ठकात् उचितं पदं स्वीकृत्य रिक्तस्थाने लिखन्तु:

यथा– तद्, स्त्रीलिङ्गम्, प्रथमा विभक्तिः, एकवचनम् – सा (एषा/अहम्/सा)

• (क) अस्मद्, प्रथमा विभक्तिः, एकवचनम् – अहम् (वयम्/त्वम्/अहम्)

• (ख) युष्मद्, प्रथमा विभक्तिः, द्विवचनम् – युवाम् (त्वम्/सः/युवाम्)

• (ग) तद्, पुंलिङ्गम्, प्रथमा विभक्तिः, बहुवचनम् – ते (एषः/ते/सा)

• (घ) एतद्, नपुंसकलिङ्गम्, प्रथमा विभक्तिः, बहुवचनम् – एतानि (एतानि/वयम्/तत्)

• (ङ) एतद्, स्त्रीलिङ्गम्, प्रथमा विभक्तिः, एकवचनम् – एषा (अहम्/एषा/एतत्)

• (च) तद्, स्त्रीलिङ्गम्, प्रथमा विभक्तिः, द्विवचनम् – ते (ते/अहम्/एषा)

८. उदाहरणमनुसृत्य उचितेन पदेन रिक्तस्थानं पूरयन्तु:

यथा– नायिका नृत्यति। (नृत्)

• (क) बालकः लिखति। (लिख्)

• (ख) छात्रौ क्रीडतः। (क्रीड्)

• (ग) अहम् गच्छामि। (गच्छ्)

• (घ) कविः रचयति। (रच्)

• (ङ) महिलाः वदन्ति। (वद्)

• (च) देवाः आगच्छन्ति। (आगच्छ्)

• (छ) फलानि पतन्ति। (पत्)

• (ज) गृहिण्यः उपविशन्ति। (उपविश्)

६. योग्यताविस्तरः एवं परियोजनाकार्यम्

सर्वनाम-रूपाणि (Pronouns in Prathama Vibhakti)

शब्दः (लिङ्गम्) एकवचनम् द्विवचनम् बहुवचनम्
तद् (पुंलिङ्गम्)सःतौते
तद् (स्त्रीलिङ्गम्)सातेताः
तद् (नपुंसकलिङ्गम्)तत्तेतानि
एतद् (पुंलिङ्गम्)एषःएतौएते
एतद् (स्त्रीलिङ्गम्)एषाएतेएताः
एतद् (नपुंसकलिङ्गम्)एतत्एतेएतानि
अस्मद् (त्रिषु लिङ्गेषु)अहम्आवाम्वयम्
युष्मद् (त्रिषु लिङ्गेषु)त्वम्युवाम्यूयम्

महापुरुषाणां स्मरणम् (महान पुरुषों/स्त्रियों का स्मरण)

अरुन्धत्यनसूया च सावित्री जानकी सती।
द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा॥

लक्ष्मीरहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा।
निवेदिता सारदा च प्रणम्याः मातृदेवताः॥

अगस्त्यः कम्बुकौण्डिन्यौ राजेन्द्रश्चोलवंशजः।
अशोकः पुष्यमित्रश्च खारवेलः सुनीतिमान्॥

रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः।
रामतीर्थोऽरविन्दश्च विवेकानन्द उद्यशाः॥

गीतस्य रचनाकारः (Poet Information)

अस्य गीतस्य रचनाकारः श्रीधरः भास्करः वर्णेकरः अस्ति। एषः सुप्रसिद्धः आधुनिकः कविः अस्ति। वर्णेकरमहोदयस्य जन्म महाराष्ट्र-राज्ये नागपुरनगरे अभवत्। एषः अनेकानि काव्यानि नाटकानि गीतानि च रचितवान्। वर्णेकरमहोदयः राष्ट्रपतिपुरस्कारेण अपि सम्मानितः अस्ति।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!