Aham Pratah Uttishthami Class 6 Chapter 6 Sanskrit Question Answers | अहं प्रातः उत्तिष्ठामि अभ्यास प्रश्न उत्तर

Sooraj Krishna Shastri
By -
0

१. मम दिनचर्या (My Daily Routine)

सन्दीपः: नमो नमः। मम नाम सन्दीपः। अहं मम दिनचर्यां वदामि।
खुशी: नमो नमः। मम नाम खुशी। अहम् अपि मम दिनचर्यां वदामि।

प्रातःकालस्य दिनचर्या (Morning Routine)

प्रथमं भूमेः वन्दनं करोमि, मातापितरौ च नमामि।
(सबसे पहले भूमि की वन्दना करता हूँ, और माता-पिता को प्रणाम करता हूँ।)

ततः उषःपानं करोमि, कवोष्णं जलं पिबामि।
(उसके बाद उषापान (सुबह का पानी) करता हूँ, गुनगुना पानी पीता हूँ।)

अहं प्रतिदिनं प्रातः पञ्चवादने (५:००) उत्तिष्ठामि।
(मैं प्रतिदिन सुबह पाँच बजे उठता हूँ।)

अहं सपाद-पञ्चवादने (५:१५) शौचं करोमि, तदनन्तरं मुखप्रक्षालनं दन्तधावनं च करोमि।
(मैं सवा पाँच बजे शौच करता हूँ, उसके बाद मुँह धोता हूँ और दाँत साफ़ करता हूँ।)

अहं सार्ध-पञ्चवादने (५:३०) सूर्य-नमस्कारं योगासनं च करोमि।
(मैं साढ़े पाँच बजे सूर्य नमस्कार और योगासन करता हूँ।)

अहं षड्वादने (६:००) स्वाध्यायं करोमि।
(मैं छह बजे स्वाध्याय (पढ़ाई) करता हूँ।)

ततः पादोन-सप्तवादने (६:४५) स्नानं करोमि। तदनन्तरं मातुः पितुः च चरणवन्दनं करोमि।
(उसके बाद पौने सात बजे स्नान करता हूँ। तत्पश्चात माता-पिता के चरण स्पर्श करता हूँ।)

अहं सप्तवादने (७:००) प्रार्थनां करोमि, गीतापाठं च करोमि।
(मैं सात बजे प्रार्थना करता हूँ, और गीता पाठ करता हूँ।)

अहं सार्ध-सप्तवादने (७:३०) प्रातराशं करोमि।
(मैं साढ़े सात बजे नाश्ता करता हूँ।)

तत्पश्चात् अष्टवादने (८:००) विद्यालयं गच्छामि।
(उसके बाद आठ बजे विद्यालय (स्कूल) जाता हूँ।)

२. इदानीं कः समयः? (Time Reading)

समय-सारणी (Clock Times)

पूर्ण समयः (O'clock) सपाद (सवा / 15 Min) सार्ध (साढ़े / 30 Min) पादोन (पौने / 45 Min)
पञ्च-वादनम् (5:00) सपाद-पञ्चवादनम् (5:15) सार्ध-पञ्चवादनम् (5:30) पादोन-षड्वादनम् (5:45)
षड्-वादनम् (6:00) सपाद-षड्वादनम् (6:15) सार्ध-षड्वादनम् (6:30) पादोन-सप्तवादनम् (6:45)
सप्त-वादनम् (7:00) सपाद-सप्तवादनम् (7:15) सार्ध-सप्तवादनम् (7:30) पादोन-अष्टवादनम् (7:45)
अष्ट-वादनम् (8:00) सपाद-अष्टवादनम् (8:15) सार्ध-अष्टवादनम् (8:30) पादोन-नववादनम् (8:45)

३. शब्दार्थ-सारणी (Word Meanings)

संस्कृत शब्दः संस्कृत-पर्यायः हिन्दी अर्थः English Meaning
दिनचर्याम्दैनन्दिन-कार्यसरणीम्दैनिक कार्य / दिनचर्याDaily Routine
वदामिकथयामिबोल रहा/रही हूँI speak
प्रतिदिनम्नित्यम्हर दिन / रोज़ानाDaily
उत्तिष्ठामिजागर्मिजागता/जागती हूँI wake up/get up
भूमेःपृथिव्याःभूमि काOf the earth
वन्दनम्नमनम्अभिवादन / प्रणामSalutation
मुखप्रक्षालनम्मुखधावनम्मुँह धोनाFace wash
तदनन्तरम्ततः परम्उसके पश्चात्After that
दन्तधावनम्दन्तशोधनम्दाँतों का मञ्जनBrushing teeth
योगासनम्योगासनक्रियायोगासनYogasana
स्वाध्यायम्स्व-अध्ययनम्स्वयं अध्ययन (पढ़ाई)Self-study
स्नानम्शरीरशुद्धिःनहाना / स्नानBath
श्लोकान्छन्दोबद्धानि पद्यानिश्लोकों कोMetred verses
प्रातराशम्कल्याहारम्अल्पाहार / नाश्ताBreakfast
विद्यालयम्पाठशालाम्विद्यालय कोTo the school
गच्छामियामिजाता/जाती हूँI go
इदानीम्सम्प्रतिअभीNow
उषःपानम्प्रातः कवोष्ण-जलस्य पानम्सुबह गुनगुना जल पीनाDrinking warm water in morning

४. अभ्यासः - भाग १ (प्रश्नोत्तराणि १-३)

१. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु:

(पट्टिका: कलहः, गुरुवन्दनम्, वृद्धसेवा, अतिथिसत्कारः, अहङ्कारः, मातृप्रेम, पितृभक्तिः, ज्येष्ठेषु आदरः, कनिष्ठेषु प्रीतिः, परस्परद्वेषः, बन्धुषु प्रीतिः, असूया, स्वाभिमानम्, परोपकारः, प्राणिषु दया, प्रियवचनम्, हिंसा, सत्यकथनम्, सत्पात्रे दानम्, सर्वेषु मैत्रीभावः, अहिंसा, समयपालनम्, स्वच्छता, प्रकृतिरक्षणम्, भ्रातृषु भगिनीषु च स्नेहः)

शिष्टाचारपदानि (Good Habits):

गुरुवन्दनम्, वृद्धसेवा, अतिथिसत्कारः, मातृप्रेम, पितृभक्तिः, ज्येष्ठेषु आदरः, कनिष्ठेषु प्रीतिः, बन्धुषु प्रीतिः, स्वाभिमानम्, परोपकारः, प्राणिषु दया, प्रियवचनम्, सत्यकथनम्, सत्पात्रे दानम्, सर्वेषु मैत्रीभावः, अहिंसा, समयपालनम्, स्वच्छता, प्रकृतिरक्षणम्, भ्रातृषु भगिनीषु च स्नेहः।

२. उदाहरणानुगुणं समयं सङ्ख्याभिः लिखन्तु:

यथा – पादोन-सप्तवादनम् – ६:४५

• सार्ध-दशवादनम् – १०:३०

• दशवादनम् – १०:००

• सपाद-षड्वादनम् – ६:१५

• सार्ध-चतुर्वादनम् – ४:३०

• पादोन-एकादशवादनम् – १०:४५

३. उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु:

यथा – ०६:०० – षड्वादनम्

• ०५:३० – सार्ध-पञ्चवादनम्

• ०६:४५ – पादोन-सप्तवादनम्

• ०९:४५ – पादोन-दशवादनम्

• १२:०० – द्वादशवादनम्

• ११:३० – सार्ध-एकादशवादनम्

५. अभ्यासः - भाग २ (प्रश्नोत्तराणि ४-६)

४. उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु:

यथा – सः सार्ध-सप्तवादने अध्ययनं करोति। – सः कदा अध्ययनं करोति?

• (क) सा सपाद-नववादने विद्यालयं गच्छति। – सा कदा विद्यालयं गच्छति?

• (ख) सतीशः सार्ध-द्वादशवादने भोजनं करोति। – सतीशः कदा भोजनं करोति?

• (ग) यानं पञ्चवादने आगच्छति। – यानं कदा आगच्छति?

• (घ) गोपालः षड्वादने गोदोहनं करोति। – गोपालः कदा गोदोहनं करोति?

• (ङ) माता दशवादने कार्यालयं गच्छति। – माता कदा कार्यालयं गच्छति?

५. स्वस्य दिनचर्यां सरलवाक्यैः लिखन्तु:

यथा – अहं प्रातः षड्वादने उत्तिष्ठामि।

अहं सपाद-षड्वादने (६:१५) दन्तधावनं करोमि।

अहं सार्ध-षड्वादने (६:३0) स्नानं करोमि।

अहं सप्तवादने (७:००) पूजां करोमि।

अहं सार्ध-सप्तवादने (७:३०) प्रातराशं (नाश्ता) करोमि।

अहं अष्टवादने (८:००) विद्यालयं गच्छामि।

अहं द्विवादने (२:००) गृहम् आगच्छामि।

६. वाक्येषु शिष्टाचारपदं संयोजयन्तु:

(पट्टिका: नियमपालनं, सेवां, मैत्रीभावः, साहाय्यं, सत्कारं, दयाभावः)

यथा – युवकः मातापित्रोः सेवां करोति।

• (क) सा दुर्बलानां साहाय्यं करोति।

• (ख) सर्वेषु प्राणिषु दयाभावः भवतु।

• (ग) सर्वे छात्राः पाठशालायाः नियमपालनं कुर्वन्तु।

• (घ) वयं सर्वे अतिथीनां सत्कारं कुर्मः।

• (ङ) परस्परं छात्रेषु मैत्रीभावः भवतु।

६. योग्यताविस्तरः एवं परियोजनाकार्यम्

भारतीयज्ञान-परम्परायां समयः घटीयन्त्राणि च

प्राचीनभारते जनाः समयनिर्देशार्थं सूर्यस्य गतिं पश्यन्ति स्म। तस्य कृते ते बहुविधस्य विज्ञानस्य आविष्करणं कृतवन्तः। तादृशानि विज्ञानयन्त्राणि सामान्यतः वयं प्रसिद्धेषु देवालयेषु पश्यामः। यथा ओडिशाराज्ये कोणार्कक्षेत्रे विद्यमाने सूर्यमन्दिरे चक्राणि सन्ति।

• सूर्यमन्दिरम् – कोणार्कः (ओडिशा)
• घटिकायन्त्रम् – जन्तरमन्तरं, जयपुरम्
• मिश्रयन्त्रम् – जन्तरमन्तरं, देहली

प्रातः स्मरणम् (भूमिवन्दना)

समुद्रवसने देवि पर्वतस्तनमण्डले।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे॥

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती।
करमूले तु गोविन्दः प्रभाते करदर्शनम्॥

परियोजनाकार्यम्

१. स्फोरकपत्रे घटीनां चित्राणि रचयन्तु, तेषु विविधान् रङ्गान् पूरयन्तु, संस्कृतेन समयं च लिखन्तु।

२. मात्रा/पित्रा सह चर्चां कृत्वा स्वस्याः/स्वस्य दिनचर्यां संस्कृतेन लिखन्तु।

३. शिष्टाचारस्य विषये पञ्चानां श्लोकानां सङ्ग्रहणं कुर्वन्तु स्मरन्तु च।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!