Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

साहित्यदर्पण, दशम परिच्छेद

Sahitya darpan dasham parichchhed (chapter 10)

 

Sahitya darpan dasham parichchhed (chapter 10)
Sahitya darpan dasham parichchhed (chapter 10)

अथावसरप्राप्तानलङ्कारानाह--

शब्दार्थयोरस्थिरा यो ध्रर्माः शोभातिशायिनः ।

रसादीनुपकुर्वन्तोऽलङ्कारास्तेऽङ्गदादिवत् ।। सूत्र १०.१ ।।

 

     यथा अङ्गदादयः शरीरशोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थशोभातिशायिनो रसादेरुपकारकाः ।

अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यरकी स्थितिः । शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वाच्छब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कास्यापि पुनरुक्तवदाभासस्य चिरन्तनैः शब्दालङ्कारमध्ये लक्षितत्वात्प्रथमं तमेवाह--

आपाततो यदर्थस्य पौनरुक्त्येन भासनं ।

पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ।। सूत्र १०.२ ।।

 

भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः ।

जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ।।

 

     अत्र भुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनं । पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वं ।'पायादव्यात्' इत्यत्र क्रियागतोऽयमलङ्गारः, 'पायात्' इत्यास्य 'अपायात्' इत्यत्र पर्यवसानात् ।

'भुजङ्गकुण्डली' इति शब्दयोः प्रथमस्यैव परिवृत्तिसहत्वं ।

'हरः शिवः' इति द्वितीयस्यैव ।

'शशिसुभ्रांशु' इति द्वयोरपि ।

'भाति सदानत्यागः' इति न द्वयोरपि ।

इति शब्दपरिवृत्तिसहत्वासत्वाभ्यामस्योभयालङ्कारत्वं ।

अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् ।

     स्वरमात्रसादृश्यं तु वैचित्र्याभावान्न गणितं । रसाद्यनुगतत्वेन प्रकर्षेण न्यासोऽनुप्रासः ।

छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ।। सूत्र १०.३ ।।

 

     छेकश्छेकानुप्रासः । अनेकधेति स्वरूपतः क्रमतश्च । रसः सर इत्यादे क्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः । उदाहरणं मम तातपादानाम्--

'आदाय बकुलगन्धानन्धीकुर्वन्पदे पदे भ्रमरान् ।

अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ।।'

 

     अत्र गन्धनन्धीतिसंयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृदावृत्तिः । छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः ।

अनेकस्यैकधा साम्यमसकृद्वाष्यनेकधा ।

एकस्य सकृदष्येण वृत्त्यनुप्रास उच्यते ।। सूत्र १०.४ ।।

 

     एकधा स्वरूपत एव, न तु क्रमतोऽपि । अनेकधा स्वरूपतः क्रमतश्च । सकृदपीत्यपि शब्दादसकृदपि । उदाहरणम्--

'उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-

क्रीडत्कोकिलकाकलीकलकलैरुद्रीर्णकर्णज्वराः ।

नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-

प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ।।'

 

     अत्र 'रसोल्लासैरमी' इति रसयोरेकधैव साम्यम्, न तु तेनैव क्रमेणापि । द्वितीये पादे, कलयोरसकृत्तेनैव क्रमेण च ।

प्रथमे एकस्य मकारस्य सकृत्, धकारस्य चासकृत् । रसविषयव्यापारवती वर्णरचनावृत्तिः, तदनुगतत्वेन प्रकर्षेण न्यसनाद्वृत्त्यनुप्रासः ।

उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके ।

सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते ।। सूत्र १०.५ ।।

 

उदाहरणम्--

'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।

विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ।।'

 

     अत्र 'जीवयन्ति' इति, 'याः' इति, 'जयिनीः' इत । अत्र जकारयकारयोरेकत्र स्थाने तालावुच्चार्यत्वात्सादृश्यं । एवं दन्त्यकण्ठ्यानामप्युदाहार्यं । एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रत्यनुप्रासः ।

व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु ।

आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत् ।। सूत्र १०.६ ।।

 

     यथावस्थमिति यथासम्भवमनुस्वारविसर्गस्वरयुक्ताक्षरविशिष्टं । एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः । पदान्तगो यथा मम--

     केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः ।

     चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पं ।।

     पदान्तगो यथा---

'मन्दं हसन्तः पलकं वहन्तः' इत्यादि ।

 

शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः ।

लाटानुप्रस इत्युक्तो--

 

उदाहरणम्---

स्मेरराजीवनयने नयने किं निमीलिते ।

पश्य निजिंतकन्दर्पं कन्दर्पवशगं प्रियं ।।

 

     अत्र विभक्त्यर्थस्य पौनरुक्त्येऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यधर्मिरूपस्य भिन्नार्थत्वाल्लाटानुप्रासत्वमेव ।

'नयने तस्यैव नयने च ।'

 

     अत्र द्वितीयनयनशब्दो भग्यत्त्वादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः । यथा वा---

'यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।

यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।।'

 

     अत्रानेकपदानां पौनरुक्त्यं । एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः ।

--ऽनुप्रासः पञ्चधा ततः ।। सूत्र १०.७ ।।

 

     स्पष्टं ।

सत्यर्थे पृथागर्थायाः स्वरव्यञ्जनसंहतेः ।

क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ।। सूत्र १०.८ ।।

 

     अत्र द्वयोरपि पदयोः क्वचित्सार्थकत्वं, क्वचिन्निरर्थकत्वं । क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वं । अत उक्तम्--'सत्यर्थे' इति ।

'तेनैव क्रमेण' इति दमो मोद इत्यादेर्विविक्तविषयत्वं सूचितं ।

एतच्च पादपादर्ध्दश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविधतया प्रभूततमभेदं । दिङ्मात्रमुदाह्रियते--

'नवपलाश-पलाशवनं पुरः स्फुटपराग-परागत-पङ्कजं ।

मृदुल-तान्त-लतान्तमलोकयत्स सुरभि सुरिभिं सुमनोभरैः ।।'

 

     अत्र पदावृत्तिः 'पलाशपलाश' इति 'सुरभिं सुरभिं' इत्यत्र च द्वयोः सार्थकत्वं । 'लतान्तलतान्त' इत्यत्र प्रथमस्य निरर्थकत्वं ।

'परागपराग' इत्यत्र द्वितीयस्य । एवमन्यत्राप्युदाहार्यं ।

'यमकादौ भवेदैक्यं डलोर्बवोर्लरोस्तथा ।'

 

इत्युक्तनयात्'भुजलतां जडतामबलाजनः' इत्यत्र नं यमकत्वहानिः ।

अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।

अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ।। सूत्र १०.९ ।।

 

द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च ।

क्रमेणोदाहरणम्--

'के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः

किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ।

वामा यूयमहो विडम्बरसिकः कदृक्स्मरो वर्तते

येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः ।।'

 

     अत्र विशेषपदस्य 'विः पक्षी' 'शेषो नागः' इत्यर्थद्वययोग्यत्वात्सभङ्गश्लेषः । अन्यत्र त्वभङ्गः ।

'काले कोकिलवाचाले सहकारमनोहरे ।

कृतागसः परित्यागात्तस्याश्चेतो न दूयते ।।'

 

     अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञ् अन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः ।

शब्दैरेकविधैरेव भाषासु विविधास्वपि ।

वाक्यं यत्र भवेत्सोऽयं भाषासम इतीष्यते ।। सूत्र १०.१० ।।

 

     यथा मम--

'मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे ।

विरसासि केलिकीरे किमीलि धीरे च गन्धसारसमीरे ।।'

 

     एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव ।

'सरसं कैणं कव्वम् ।'

 

     इत्यादौ तु 'सरसम्' इत्यत्र संस्कृतप्राकृतयोः साम्येऽपि वाक्यगतत्वाभावे वैचित्र्याभावान्नायमलङ्कारः ।

श्लिष्टैः पदैरनैकार्थाभिधाने श्लेष इष्यते ।

वणप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ।। सूत्र १०.११ ।।

श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।

 

     क्रमेणोदाहरणम्--

'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।

          अवलम्बनाय दिनभर्त्तुरभून्न पतिष्यतः करसहस्त्रमपि ।।'

 

अत्र 'विधौ' इति विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाच्छ्लेषः ।

'किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः ।

          कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः ।।'

 

     अत्र 'सुधाकिरः' इति क्विप्-क-प्रत्ययोः । किं चात्र बहुवचनैकवचनयोरैकरूप्याद्वचनश्लेषोऽपि ।

'विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी ।

          तव दत्तां सदामोदं लसत्तरलहारिणी ।।'

 

     अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्लेषोऽपि ।

'अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।

          सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ।।'

 

     अत्र 'वक्ष्यति' इति वहि-वच्योः, 'सामर्थ्यकृत्' इति कृन्तति-करोत्योः प्रकृत्योः ।

     'पृथुकार्तस्वरपात्रम्-' इत्यादि । अत्र पदभङ्गे विभक्तिसमासयोरपि वैलक्षण्यात्पदश्लेषः, न तु प्रकृतिश्लेषः । एवञ्च--

'नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।

      सदृशे वनवृद्धानां कमलानां तदीक्षणे ।।'

 

     अत्र लुब्धशिलीमुखादिशब्दानां श्लिष्टत्वेऽपि विभक्तेकभेदात्प्रकृतिश्लेषः, अन्यथा सर्वत्र पदश्लेषप्रसङ्गः ।

'सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।

नयोपकारसांमुख्यमायासि तनुवर्तनम् ।।'

 

     अत्र 'हर' इति पक्षे शिवसम्बोधनमिति सुप् । पक्षे हृधातोस्तिङिति विभक्तेः । एवं 'भव' इत्यादौ । अस्य च भेदस्य प्रत्ययश्लेषेणापि गतार्थत्वे प्रत्ययान्तरासाध्यसुबन्ततिङन्तगतत्वेन विच्छित्तिविशेषाश्रयणात्पृथगुक्तिः ।

'महदे सुरसन्धं मे तमव समासङ्गमागमाहरणे ।

हर बहुसरणं तं चित्तमाहेमवसर उमे सहसा ।।'

 

अत्र संस्कृतमहाराष्ट्रयोः ।

संस्कृतपैशाच्योर्यथा--

(ख)'कमनेकतमादानं सुरतनरजतुच्छलं तदासीनं ।

अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम् ।।'

कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनां ।

अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुं ।।

इति पैशाचीच्छाया ।

संस्कृतशूरसेन्योर्यथा--

(ग)'तोदीसदिगगणमदोऽकलहं स सदा बलं विदन्तरिदं ।

आरदमेहावसरं सासदमारं गदा भारम् ।।'

ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितं ।

आरतमेद्यावसरं शाश्वतमारं गतासारम् ।।'

इति शूरसेनीच्छाया ।

संस्कृतापभ्रंशयोर्यथा--

(घ)'धीरागच्छदुमे हृतमुदुद्धर वारिसदः सु ।

अभ्रमदप्प्रसराहरणुरविकिरणातेजः सु ।।

 

पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ।। सूत्र १०.१२ ।।

 

     एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयं ।

     यथा वा--

'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो

यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् ।

यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामरा ।

पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।।'

 

     अत्र 'येन-' इत्यादौ सभ्ङ्गश्लेषः । 'अन्धक-' इत्यादावभङ्गः । अनयोश्चैकत्र सम्भवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः ।

     अत्र केचिदाहुः--'सभङ्गश्लेष एव शब्दश्लेषविषयः । यत्रोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः । अभङ्गस्त्वर्थश्लेष एव । यत्र स्वराभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदादर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । यो हि यदाश्रितः स तदलङ्कार एव । अलङ्कार्यालङ्कारणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः' इति । तदन्ये न क्षमन्ते ।

      तथाहि--अत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियं इति । न च 'अन्धकक्षय' इत्यादौ शब्दाभेदः, 'अर्थभेदेन शब्दभेदः' इति दर्शनात् । किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रतिभयोट्टङ्कनाच्छब्दालङ्कारत्वमेव । विसदृशशब्दद्वयस्य बन्धे चेवंविधस्य वैचित्र्याभावाद्वैचित्र्यस्यैव चालङ्कारत्वात् ।

अर्थमुखप्रेक्षितया चार्थालङ्कारत्वेऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालङ्कारत्वप्रसङ्गः । शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे 'प्रतिकूलतामुपगते हि विधौ' इत्यादौ शब्दभेदेऽप्यर्थालङ्कारत्वं तथापि प्रसज्यत इत्युभयत्रापि शब्दालङ्कारत्वमेव ।यत्र तु शब्दपरिवर्त्तनेऽपि न श्लेषत्वखण्डना, तत्र--

'स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिं ।

अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ।।'

 

     इत्यादावर्थश्लेषः । अस्य चालङ्कारान्तरविविक्तविषयताया असम्भवाद्विद्यमानेष्वलङ्कारान्तरेष्वपवादत्वेन तद्वाधकतया तत्प्रतिभोत्पत्तिहेतुत्वमिति केचित् ।

     इत्थमत्र विचार्यते--समासोक्त्यप्रस्तुतप्रशांसादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धोऽपि । 'विद्वन्मानसहंस--' इत्यादौ श्लेषगर्भे रूपकेऽपि मानसशब्दस्य चित्तसरोरूपोभयार्थत्वेऽपि रूपकेण श्लेषो बाध्यते । सरोरूपस्यैवार्थस्य विश्रान्तिधामतया प्राधान्यात्, श्लेषे ह्यर्थद्वयस्यापि समकक्षत्वं । 'सन्निहितबालान्धकारा भास्वन्मूर्तिश्च' इत्यादौ विरोधाभासेऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान्न श्लेषः । एवं पुनरुक्तवदाभासेऽपि ।

     तेन 'येन ध्वस्त-' इत्यादौ प्राकरणिकयोः, 'नीतानाम्-' इत्यादावप्रकारणिकयोरेकधर्माभिसंबन्धात्तुल्ययोगितायाम्,

'स्वेच्छोपजातविषयोऽपि न याति वक्तुं

देहीति मार्गणशतैश्च ददाति दुः खं ।

मोहात्समुत्क्षिपति जीवनमप्यकाण्डे

कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः ।।'

 

     इत्यादौ च प्राकरणिकाप्राकरणिकयोरेकधर्माभिसम्बन्धाद्दीपके । 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव ।'

इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासंभवादेषां च शलेषविषयपरिहारेणापि स्थितेरेतद्विषये श्लेषस्य प्राधान्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथा तद्व्यापदेशस्य सर्वथा भावप्रसङ्गाच्चेति ।

     अत्रोच्यते--न तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता 'येनध्वस्त-' इत्यादिना विविक्तविषयत्वात् । न चात्र तुल्ययोगिता, तस्याश्च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभावात् । अत्र च माधवोमाधवयोरेकस्य वाच्यत्वनियमे परस्य व्यङ्ग्यत्वं स्यात् ।

     किञ्च--तुल्ययोगितायामप्येकस्यैव धर्मस्यानेकधर्मिसंबन्धितया प्रतीतिः । इह त्वनेकेषां धर्मिणां पृथक्पृथग्धर्मसंबन्धतया ।

'सकलकलम्--' इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः । पूर्णोपमाया निर्विषयत्वापत्तेः 'कमलमिव मुखं मनोज्ञमेतत्' इत्याद्यस्ति पूर्णोपमाया विषय इति चेत्? , यदि 'सकल-' इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं 'मनोज्ञम्' इत्यादावर्थश्लेषेण ।

'स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ, किन्तु ।

आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ।।'

 

      इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजकत्वात् । ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् । शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् । ततश्च पूर्णोपमाया अन्यथानुपपत्त्या गुणक्रियासाम्यस्यैवार्थश्लेषविषयतयाः परित्यागे पूर्णोपमाविषयता युक्ता, न तु 'सकल-' इत्यादौ शब्दसाम्यस्यैवेति चेत्? न-'साधर्म्यमुपमा' इत्येवाविशिष्टस्योपमालक्षणस्य शब्दसाम्याद्व्यावृत्तेरभावात् । यदि च शब्दसाम्ये साधर्म्यमवास्तवत्वान्नोपमाप्रयोजकम्, तदा कथं 'विद्वन्मानस--' इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेहसाद्याहोपप्रयोजकः ।

     किञ्च । यदि वास्तवसाम्य एवोपमाङ्गीकार्या, तदा कथं त्वयापि 'सकलकलम्-' इत्यादौ बाध्यभूतोपमाङ्गीक्रियते ? किञ्च अत्र श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता, श्लेषबन्धतः प्रथमं साम्यस्यासंभवात्, इत्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान्'प्रधानेन हि ब्यपदेशा भवन्ति' इति न्यायात् ।

     ननु शब्दालङ्कारविषयेऽङ्गाङ्गिभावसङ्करो नाङ्गीक्रियते तत्कथमत्र श्लेषोपमयोरङ्गाङ्गभावः सङ्कर इति चेत्? , अर्थानुसंधानविरहिण्यनुप्रासादावेव तथानङ्गीकारात् । एवं दीपकादावपि ज्ञेयं ।

'सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।

निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ।।'

 

     अत्र शरद्वर्णनया प्रकरणेन धार्तराष्ट्रादिशब्दानां हंसाद्यर्थाभिधाने नियमनाद्दुर्योधनादिरूपोर्ऽथः शब्दशक्तिमूलो वस्तुध्वनिः । इह च प्रकृतप्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानोपमेयभावो न विवक्षित इति नोपमाध्वनिर्न वा श्लेष इति सर्वमवदातं ।

पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।

 

     आदिशब्दात्खङ्ग-मुरज-चक्र-गोमूत्रिकादयः । अस्य च तथाविधिलिपिसन्निवेशविशेषवशेन चमत्कारविधायिनामपि वर्णानां तथाविधश्रोत्राकाशसमवायवि शेषवशेन चमत्कारविधायिभिर्वर्णेरभेदेनोपचाराच्छब्दालङ्कारत्वं । तत्र पद्मबन्धो यथा मम--

'मारमा सुषमा चारु-रुचा मारवधूत्तमा ।

मात्तधूर्ततमावासा सा वामा मेऽस्तु मा रमा ।।'

 

     एषोऽष्टदलपद्मबन्धो दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टवर्णः, किन्तु विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु श्लिष्टमेव । एवं खड्गबन्धादिकमप्यूह्यं ।काव्यान्तर्गडुभूततया तु नेह प्रपञ्च्यते ।

रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका ।। सूत्र १०.१३ ।।

 

उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका ।

च्युताक्षरा दत्ताक्षरा च्युतदत्ताक्षरा च । उदाहरणम्--

'कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजं ।

किं करोतु कुरङ्गक्षी वदनेन निपीडिता ।।'

 

     तत्र 'रसाले' इति वक्तव्ये 'साले' इति '' च्युतः । 'वने' इत्यत्र 'यौवने' इति 'यौ' दत्तः । 'वदनेन' इत्यत्र 'मदनेन' इति '' च्युतः '' दत्तः । आदिशब्दात्क्रियाकारकगुप्त्यादयः । तत्र क्रियागुप्तिर्यथा--

'पाण्डवानां सभामध्ये दुर्योधन उपागतः ।

तस्मै गां च सुवर्णं च सर्वाण्याभरणानि च ।।'

 

     अत्र 'दुर्योधनः' इत्यत्र 'अदुर्योऽधनः' इति । 'अदुः' इति क्रियागुप्तिः । एवमन्यत्रापि ।

     अथावसरप्राप्तेष्वर्थालङ्कारेषु सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्राधान्यात्प्रथममुपमामाह--

साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ।। सूत्र १०.१४ ।।

 

      रुपकादिषु साम्यस्य व्यङ्ग्यत्वम्, व्यतिरेके च वैधर्म्यस्याप्युक्तिः, उपमेयोपमायां वाक्यद्वयम्, अनन्वये त्वेकस्यैव साम्योक्तिरित्यस्या भेदः ।

सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च ।

उपमेयं चोपमानं भवेद्वाच्यम्--

 

     सा उपमा । साधारणधर्मो द्वयोः सादृश्यहेतू गुणक्रिये मनोज्ञत्वादि । औपम्यवाचकमिवादि । उपमेयं मुखादि । उपमानं चन्द्रादि ।

इयं पुनः ।। सूत्र १०.१५ ।।

श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।

 

आर्थो तुल्यसमानाद्यास्तुल्यार्थो तत्र वा वतिः ।। सूत्र १०.१६ ।।

 

     यथेववादयः शब्दा उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौत्युपमा । एवं 'तत्र तस्येव' इत्यनेनेवार्थो विहितस्य वतेरुपादाने । तुल्यादयस्तु-'कमलेन तुल्यं मुखम्' इत्यादावुपमेय एव । 'कमलं मुखस्य तुल्यम्' इत्यादावुपमान एव ।'कमलं मुखं च तुल्यम्' इत्यादावभयत्रापि विश्राम्यन्तीत्यर्थानुसन्धानादेव साम्यं प्रतिपादयन्तीति तत्सद्भावे आर्थो ।एवं 'तेन तुल्यम्--'इत्यादिना तुल्यार्थे विहितस्य वतेरुपादाने

द्वे तद्धिते समासेऽथ वाक्ये

 

     द्वेश्रौती आर्थो च । उदाहरणम्--

'सौरभम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ ।

हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले ।।'

 

     अत्र क्रमेण त्रिविधा श्रौती ।

'मधुरः सुधावदधरः पल्लवतुल्योऽतिलेपवः पाणिः ।

चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः ।।'

अत्र क्रमेण त्रिविधा आर्थो ।

---पूर्णा षदेव तत् ।

 

     स्पष्टं ।

लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः ।। सूत्र १०.१७ ।।

त्रयाणां वानुपादाने श्रौत्यार्थो सापि पूर्ववत् ।

 

     सा लुप्ता । तद्भेदमाह--

पूर्णावद्धर्मलोपे सा विना श्रौतीं तु तद्धिते ।। सूत्र १०.१८ ।।

 

     सा लुप्तोपमा धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षट्प्रकारा, किं त्वत्र तद्धिते श्रौत्या असम्भवात्पञ्चप्रकारा । उदाहरणम्--

'मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ।

वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्मवत् ।।'

आधरकर्मविहिते द्विविधे च क्यचि क्यङि ।

 

कर्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः ।। सूत्र १०.१९ ।।

 

     'धर्मलोपे लुप्ता' इत्यनुषज्यते । क्यच्क्यङ्-णमुलः कलापमते इन्-आयि णमः । क्रमेणोदाहरणम्--

अन्तः पुरीयसि रणेषु, सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः ।

दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- सञ्चारमत्र भुवि सञ्चरसि क्षितीश ।।'

अत्र 'अन्तः पुरीयसि' इत्यत्र सुखविहारास्पदत्वस्य, 'सुतीयसि' इत्यत्र स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः ।

एवमन्यत्र ।

     इह च यथादिलुल्यादिविरहाच्छ्रौत्यादिविशेषचिन्ता नास्ति । इदं च केचिदौपम्यप्रतिपादकस्येवादेर्लोप उदाहरन्ति, तदयुक्तम्--क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् । ननु क्यङादिषु सम्यगौपम्यप्रतीतिर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वादिवादिप्रयोगाभावाच्चेति न वाच्यम्, कल्पबादावपि तथाप्रसङ्गात् । न च कल्पबादीनामिवादितुल्यतयौपम्यस्य वाचकत्वम्, क्यङादीनां तु द्योतकत्वम्; इवादीनामपि वाचकत्वे निश्चयाभावात् । वाचकत्वे वा 'समुदितं पदं वाचकम्' 'प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ' इति च मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेवेति । यच्च केचिदाहुः--'वत्यादय इवाद्यर्थेऽनुशिष्यन्ते, क्यङादयस्त्वाचाराद्यर्थे' इति, तदपि न ; न खलु क्यङादय आचारमात्रार्थाः अपि तु सादृश्याचारार्था इति । तदेवं धर्मलोपे दशप्रकारा लुप्ता ।

उपमानानुपादाने द्विधा वाक्यसमासयोः ।

 

     उदाहरणम्--

'तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यं ।

 

     अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः । अत्रैव च 'मुखेन सदृशम्' इत्यत्र 'मुखं यथेदं' नयनतुल्यम्' इत्यत्र 'दृगीव' इति पाठे श्रौत्यपि संभवतीति । अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थोत्वभेदेन चतुविधत्वसंभवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तं ।

औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ।। सूत्र १०.२० ।।

 

     क्रमेणोदाहरणम्--

'वदनं मृगशावाक्ष्याः सुधाकरमनोहरम् ।'

'गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः ।'

 

     अत्र 'गर्दभति' इत्यत्रौपम्यवाचिनः क्विपो लोपः । न चेहोपयमेयस्यापि लोपः, 'निनदन्' इत्यनेनैव निर्देशात् ।

द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ।

 

     'तस्या मुखेन' इत्यादौ 'रम्यम्' इति स्थाने 'लोके' इति पाठेऽनयोरुदाहरणं ।

क्विप्समासगता द्वेधा धर्मेवादिविलोपने ।। सूत्र १०.२१ ।।

 

     उदाहरणम्--

    

'विधवति मुखाब्जमस्याः'

 

     अत्र 'विधवति' इति मनोहरत्व-क्विप्प्रत्यययोर्लोपः । 'मुखाब्जम्' इति च समासगा । केचित्त्वत्रायिप्रात्ययलोपमाहुः ।

उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि ।

 

     यथा--

'अरातिविक्रमालोकविकस्वरविलोचनः ।

कृपाणोदग्रदोर्दण्डः स सहस्त्रार्युधीयति ।।'

 

     अत्र 'सहस्त्रायुधमिवात्मानमाचरति' इति वाक्ये उपमेयस्यात्मनो लोपः । न चेहौपम्यवाचकलोपः, उक्तादेव न्यायात् । अत्र केचिदाहुः--'सहस्त्रायुधेन सह वर्तत इति ससहस्त्रायुवः स इवाचरतीति वाक्यात्ससहस्त्रायुधीयतीति पदसिद्धौ विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः' इति, तन्न विचारसहं ; कर्तरि क्यचोऽनुशासनविरुद्धत्वात् ।

             धर्मोपमेयलोपेऽन्या--

     यथा--

'यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे ।'

 

     अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्म शुक्लता च लुप्तौ ।

--त्रिलोपे च समासगा ।। सूत्र १०.२२ ।।

 

     यथा--

राजते मृगलोचना ।

 

     अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्मोपमानानां लोपः ।

तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः ।

 

     पूर्णाषड्विधा, लुप्ता चैकविशतिविधेत मिलित्वा सप्तविंशतिप्रकारोपमा । एषु चोपमाभेदेषु मध्येऽलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रतिपाद्यते--

एकरूपः क्वचित्क्वापि भिन्नः साधारणो गुणः ।। सूत्र १०.२३ ।।

भिन्ने बिम्बानुबिम्बत्वं शब्दमात्रेण वा भिदा ।

 

     तत्र एकरूपे यथा उदाहृतम्-'मधुरः सुधावदधरः--' इत्यादि ।

     विम्वप्रतिविम्बत्वे यथा--

'भल्लापवजितैस्तेषां शिरोभिः श्मश्रुलैर्महीं ।

तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ।।'

 

     अत्र 'श्मश्रुलैः' इत्यस्य 'सरघाव्याप्तैः' इति दृष्टान्तवत्प्रतिबिम्बनं । शब्दमात्रेण भिन्नत्वे यथा--

'स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा ।

कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ।।'

 

     अत्रैके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्देन निर्दिष्टे ।

एकदेशविवर्तिन्युपमा वाच्यत्वगम्यते ।। सूत्र १०.२४ ।।

भवेतां यत्र साम्यस्य--

 

     यथा--

'नैत्रैरिवोत्पलैः मद्मैर्मुखैरिव सरः श्रियः ।

पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ।।'

 

     अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं सरः श्रीणां चाङ्गनासाम्यं गम्यं ।

--कथिता रसनोपमा ।

यथोर्ध्वमुपमेयस्य यदि स्यादुपमानता ।। सूत्र १०.२५ ।।

 

     यथा--

'चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता ।

कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ।।'

 

मालोपमा यदेकस्योपमानं बहु दृश्यते ।

 

     यथा--

'वारिजेनेव सरसी शशिनेव निशीथिनी ।

यौवनेनेव वनिता नयेन श्रीर्मनोहरा ।।'

 

     क्वचिदुपमानोपमेययोरपि प्रकृतत्वं यथा--

'हसश्चन्द्र इवाभाति जलं व्योमतलं यथा ।

विमलाः कुमुदानीव तारकाः शरदागमे ।।'

'अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः ।

पुरन्दरस्य भवने कल्पवृक्षभवा इव ।।'

 

     अत्रोपमेयभूतविभूतिभैः 'कल्पवृक्षभवा इव ' इत्युपमानभूता विभूतय आक्षिप्यन्त इत्याक्षेपोपमा । अत्रैव 'गृहे' इत्यस्य 'भवने' इत्यनेन प्रतिनिर्देशात्प्रतिनिर्देस्योपमा इत्यादयश्च न लक्षिताः, एवंविधवैचित्र्यस्य सहस्त्रधा दर्शनात् ।

उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ।। सूत्र १०.२६ ।।

 

     अर्थादेकवाक्ये ।

     यथा--

'राजीवमिव राजीवं जलं जलमिवाजनि ।

चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे ।।'

 

     अत्र राजीवादीनामनन्यसदृशत्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः । 'राजीवमिव पाथोजम्' इति चास्य लाटानुप्रासाद्विविक्तो विषयः । किन्त्वत्रोचितत्वादेकशब्दप्रयोग एव श्रेयान् । तदुक्तम्--

'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकं ।

अस्मिंस्तु लाटानुप्रसे साक्षादेव प्रयोजकम् ।।' इति ।

पर्यायेण द्वयोरेतदुपमेयोपमा मता ।

 

     एतदुपमानोपमेयत्वं । अर्थाद्वाक्यद्वये ।

     यथा--

'कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विभेव तनुः ।

धरणीव धृतिर्धृतिरिव धरणी, सततं विभाति बत यस्य ।।'

 

     अत्रास्य राज्ञः श्रीबुद्ध्यादिसदृशं नान्यदस्तीत्यभिप्रायः ।

सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ।। सूत्र १०.२७ ।।

 

     यथा--

'अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलं ।

स्मरामि वदनं तस्याश्चारु चञ्चललोचनम् ।।'

 

     'मयि सकपटम्--'इत्यादौ च स्मृतेः सादृश्यानुभवं विनोत्थापितत्वान्नायमलङ्कारः ।

राघवानन्दमहापात्रास्तु

-वैसादृश्यात्स्मृतिमपि स्मरणालङ्कारमिच्छन्ति । तत्रोदाहरणं तेषामेव यथा--

'शिरीषमृद्वी गिरिषु प्रपेदे यदा यदा दुः खशतानि सीता ।

तदा तदास्याः सदनेषु सौख्यलक्षाणि दध्यौ गलदस्त्रु रामः ।।'

 

रूपकं रुपितारोपाद्वि (पो वि ) षये निरपह्नवे ।

 

     'रूपितऽ- इति परिणामाद्व्यवच्छेदः । एतच्च तत्प्रस्तावे विवेचयिष्यामः । 'निरपह्नवे' इत्यपह्नुतिव्यवच्छेदार्थं ।

तत्परम्परितं साङ्गं निरङ्गमिति च त्रिधा ।। सूत्र १०.२८ ।।

 

     तद्रूपकं ।

     तत्र--

यत्र कस्यचिदारोपः परारोपणकारणं ।

तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनं ।। सूत्र १०.२९ ।।

प्रत्येकं केवलं मालारूपं चेति चतुर्विधं ।

 

     तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा--

'आहवे जगदुद्दण्ड राजमण्डलाराहवे ।

श्रीनृसिंहमहीपाल स्वस्त्यस्तु तव बाहवे ।।'

 

     अत्र राजमण्डलं नृपसमूह एव चन्द्रबिम्बमित्यारोपो राजबाहौ हाहुत्वारोपे निमित्तं । मालारूपं यथा--

'पद्मोदयदिनाधीशः सदागतिसमीरणः ।

भूभृदावलिदम्भोलिरेक एव भवान्भुवि ।।'

 

     अत्र पद्माया उदय एव पद्मानामुदयः,सतामागतिरेव सदागमनम्, भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वाद्यारोपनिमित्तं ।

     अश्लिष्टशब्दनिबन्धनं केवलं यथा--

'पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।

त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ।।'

 

     अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तं ।

     मालारूपं यथा--

'मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः ।

विराजते व्योमसरः सरोजं कर्पूरपूरप्रभमिन्दुबिम्बम् ।।'

 

     अत्र मनोजादे राजत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तं । 'तत्र च राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपे निमित्तम्' इति केचित् ।

अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ।। सूत्र १०.३० ।।

समस्तवस्तुविषयमेकदेशविवर्ति च ।

 

     तत्र--

आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतं ।। सूत्र १०.३१ ।।

 

     प्रथमं समस्तवस्तुविषयं । यथा--

'रावणावग्रहक्लान्तमिति वागमृतेन सः ।

अभिवृष्य मरुत्सस्यं कृष्णमेधस्तिरोदधे ।।'

 

     अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितं ।

यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् ।

 

     कस्यचिदारोप्यमाणस्य । यथा--

'लावण्यमधुभैः पूर्णमास्यमस्या विकस्वरं ।

लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ।।'

 

     अत्र लावण्यादौ मधुत्वाद्यारोपः शाब्दः, मुखस्य पद्मत्वारोप आर्थः । न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्तमानात्मुखे वोपचरितत्वात् ।

निरङ्गं केवलस्यैव रूपणं तदपि द्विधा ।। सूत्र १०.३२ ।।

मालाकेवलरूपत्वात्--

 

     तत्र मालारूपं निरङ्गं यथा--

'निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषां ।

क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा ।।'

 

केवलं यथा--

'दासे कृतागसि भवत्युचितः प्रभूणां

पादप्रहार इति सुन्दरि नात्र दूये ।

उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै-

र्यद्भिद्यते मृदु पदं ननु सा व्यथा मे ।।'

 

--तेनाष्टौ रूपके भिदाः ।

 

     'चिरन्तनैरुक्ता' इति शेषः । क्वचित्परम्परितमप्येकदेशविवर्ति

यथा--

     'खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।।'

     अत्रार्थः क्ष्मायां महिषीत्वारोपः खड्गे सौविदल्लत्वारोपे निमित्तं ।

अस्य भेदस्य पूर्ववन्मालारोपत्वेऽप्युदाहरणं मृग्यं ।

दृश्यन्ते क्वचिदारोप्याः श्लिष्टाः साङ्गेऽपि रूपके ।। सूत्र १०.३३ ।।

 

     तत्रैकदेशविवर्ति श्लिष्टं यथा मम--

     ('करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य ।

     विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ।।')

     समस्तवस्तुविषयं यथा--अत्रैव 'विचुम्बति-' इत्यादौ 'चुचुम्बे हरिदबलामुखमिन्दुनायकेन' इति पाठे । न चात्र श्लिष्टपरम्परितं अत्र हि 'भूबृदावलिदम्भोलिः--' इत्यादौ राजादौ पर्वतत्वाद्यारोप विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्वथैव सादृश्याभावादसङ्गतं । तर्हि कथं 'पद्मोदयदिनाधीशः-' इत्यादौ परम्परितम्, राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य संभवादिति न वाच्यं । तथा हि--राजादेस्तेजस्तितादिहेतुकं सुव्यक्तं सादृश्यम्, न तु प्रकृते विवक्षितम्, पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षितत्वात् ।

इह तु महीधरादेः स्तनादिना सादृश्यं पीनोतुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितं । क्वचित्समासाभावेऽपि रूपकं

दृश्यते--

'मुखं तव कुरङ्गाक्षि सरोजमिति नान्यथा ।।'

 

     क्वचिद्वैयधिकरण्येऽपि यथा--

'विदधे मधुपश्रेणीमिह भ्रूलतया विधिः ।'

     क्वचिद्वैधर्म्येऽपि यथा--

'सौजन्यम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण-

ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा ।

यैरेषापि दुराशया कलियुगे राजावली सेविता

तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ।।'

 

     इदं मम । अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमव्ये गणनं । एवं वक्ष्यमाणालङ्कारेषु बोध्यं ।

अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् ।

 

     तदेवाधिकारूढवैशिष्ट्यसंज्ञकं । यथा मम--

'इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः

सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ।

इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये

तनुर्लावण्यानां जलधिरवगाहे सुखतरः ।।'

 

     अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यं ।

विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ।। सूत्र १०.३४ ।।

परिणामो भवेत्तुल्यातुल्याधिकरणो द्विधा ।

 

     आरोप्यमाणस्यारोपविषयात्मतया परिणमनात्परिणामः ।

     यथा--

'स्मितेनोपायनं दूरादागतस्य कृतं मम ।

स्तनोपपीडमाश्लेषः कृ (त) तो द्यूते पणस्तया ।।'

 

     अन्यत्रोपायनपणो वसनाभरणादिभावेनोपयुज्येते । अत्र तु नायकसंभावनद्यूतयोः स्मिताश्लेषरूपतया । प्रथमार्द्धेवैयधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन । रूपके 'मुखचन्द्रं पश्यामि' इत्यादावारोप्यमाणचन्द्रादेरुपरञ्जकतामात्रम्, न तु प्रकृते दर्शनादावुपयोगः ।

इह तूपायनोदेर्विषयेण तादात्म्यं प्रकृते च नायकसंभावनादावुपयोगः । अत एव रूपके आरोप्यस्यावच्छेदकत्वमात्रेणान्वयः, अत्र तु तादात्म्येन ।

'दासे कृतागसि-' इत्यादौ रूपकमेव, न तु परिणामः । आरोप्यमाणकण्टकस्य पादभेदनकार्यस्याप्रतुतत्वात् । न खलु तत्कस्यचिदपि प्रस्तुतकार्यस्य घटनार्थमनुसन्धीयते ।

     अयमपि रूपकवदधिकारूढवैशिष्ट्यो दृश्यते । यथा--

'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।

भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।।'

 

     अत्र प्रदीपानामौषध्यात्मतया प्रकृते सुरतोपयोगिन्यन्धकारनाशे उपयोगोऽतलपूरत्वेनाधिकारूढवैशिष्ट्यं ।

संदेहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः ।। सूत्र १०.३५ ।।

शुद्धो निश्चयगर्भोऽसौ निश्चयान्त इति त्रिधा ।

 

     यत्र संशय एव पर्यवसानं स शुद्धः । यथा--

'किं तारुण्यतरोरियं रसभहोद्भिन्ना नवा वल्लरी

वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।

उद्राढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः

किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ।।'

 

     यत्रादावन्ते च संशय एव मध्ये निश्चयः स निश्चयमध्यः ।

     यथा--

'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः

कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतं ।

कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुनः

समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ।।'

 

      अत्र मध्ये मार्तण्डाद्यभावनिश्चयः, राजनिश्चये द्वितीयसंशयोत्थानासंभवात्यत्रादौ संशयोऽन्ते च निश्चयः स निश्चयान्तः । यथा--

'किं तावत्सरसि सरोजमेतदारा-

दाहोस्विन्मुखमवभासते तरुण्याः ।

संशय्य क्षणमिति निश्चिकाय कश्चि-

द्विब्बोकैर्वकसवासिनां परोक्षैः ।।'

 

     अप्रतिभोत्थापिते तु 'स्थाणुर्वा पुरुषो वा' इत्यादिसंशये नायमलङ्कारः ।

'मध्यं तव सरोजाक्षि पयोधरभरादितं ।

अस्ति नास्तीति संदेहः कस्य चित्ते न भासते ।।'

 

     अत्रातिशयोक्तिरेव, उपमेये उपमानसंशयस्यैवैतदलङ्कारविषयत्वात् ।

साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान्प्रतिभोत्थितः ।। सूत्र १०.३६ ।।

 

यथा--

'मुग्धा दुग्धधिया गवां विदधते कुम्भानघो वल्लवाः

कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि ।

कर्कन्धूफसमुच्चिनोति शबरी मुक्ताफलाशङ्कया

सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ।।'

 

     अस्वरसोत्थापिता भ्रान्तिर्नायमलङ्कारः । यथा--'शुक्तिकायां रजतम्' इति । न चासादृश्यमूला । यथा--

'संगमविरहविकल्पे वरमिह न संगमस्तस्याः ।

सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ।।'

क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् ।

 

एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ।। सूत्र १०.३७ ।।

 

      क्रमेणोदाहरणम्--

'प्रिय इति गोपवधूभिः शिशुरिति वृद्धैरधीश इति देवैः ।

नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः ।।'

 

     अत्रैकस्यापि भगवतस्तत्तद्गुणयोगादनेकधोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः ।

यदाहुः--

'यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।

आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः ।।'

 

     अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद्ग्रहीतृभेदाच्च न मालारूपकम्, न च भ्रान्तिमान् । न चायमभेदे भेद इत्येवंरूपातिशयोक्तिः ।

तथाहि--'अन्यदेवाङ्गलावण्यम्-' इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वेनाध्यवसानं । न चेह भगवति गोपवधूप्रभृतिभिः प्रियत्वाद्यध्यवसीयते प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात् । केचिदाहुः--'अयमलङ्कारो नियमेनालङ्कारान्तरविच्छित्तिमूलः । उक्तोदाहरणे च शिशुत्वादीनां नियमनाभिप्रायात्प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति, तत्सद्भावेऽपि ग्रहीतृभेदेन नानात्वप्रतीतिरूपोविच्छित्ति विशेष उल्लेखाख्यभिन्नालङ्कारप्रयोजकः । श्रीकण्ठजनपदवर्णने--'वज्रपञ्जरमिति शरणागतैः, अम्बरविवरमिति वातिकैः' इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः । इह च रूपकालङ्कारयोगः ।' वस्तुतस्तु--'अम्बरविवरम्-' इत्यादौ भ्रान्तिमन्तमेवेच्छन्ति न रूपकम्, भेदप्रतीतिपुरः सरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात् । यदाहुः शरीरकमीमांसाभाष्यव्याख्याने श्रीवाचस्पतिमिश्राः-'अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरः सरः' इति । इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्तिकृत एवाम्बरविवराद्यारोप इति । अत्रैव च 'चपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः' इत्यादौ परिणामालङ्कारयोगः ।

'गाम्भीर्येण समुद्रोऽसि सौरवेणासि पर्वतः ।'

 

     इत्यादौ चानेकधोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः । अत्र च रूपकयोगः । 'गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि-' इत्यादिषु चास्य रूपकाद्विविक्तो विषय इति । अत्र हि श्लेषमूलातिशयोक्तियोगः ।

प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः ।

 

     इयं द्विधा । क्वचिदपह्नपूर्वक आरोपः, क्वचिदारोपपूर्वकोऽपह्नव इति । क्रमेणोदाहरणम्--

     'नदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः ।

     नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ।।'

'एतद्विभाति चरमाचलचूडचुम्बि हि

ण्डीर-पिण्ड-रुचि-शीतमरीचिबिम्बं ।

उज्ज्वालितस्य रजनीं मदनानलस्य

धूमं दधत्प्रकटलाञ्छनकैतवेन ।।'

 

     इदं पद्यं मम ।

     एवम् 'विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः' इत्याद्याकारेण च प्रकृतनिषेधो बोध्यः ।

गोपनीयं कलप्यर्थं द्योतयित्वा कथञ्चन ।। सूत्र १०.३८ ।।

यदि श्लेषेणान्यथा वान्यथयेत्साप्यह्नुतिः ।

 

     श्लेषेण यथा--

          'काले वारिधराणामपतितया नैव शक्यते स्थातुं ।

          उत्कण्ठितासि तरले नहि नहि सखि पिच्छिलः पन्थाः ।।'

     अत्र 'अपतितया' इत्यत्र पतिं विनेत्युक्त्वा पश्चात्पतनाभावेन इत्यन्यथा कृतं । अश्लेषेण यथा--

'इह पुरोऽनिलकम्पितविग्रहा

मिलति का न वनस्पतिना लता ।

स्मरसि किं सखि कान्तरतोत्सवं

नहि घनागमरीतिरुदाहृता ।।'

 

     वक्रोक्तौ परोक्तेरन्यथाकारः, इह तु स्वौक्तेरेवेति भेदः । गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः ।

अन्यन्निषिध्य प्रकृतस्थापनं निश्चायः पुनः ।। सूत्र १०.३९ ।।

 

     निश्चयाख्योऽयमलङ्कारः । अन्यदित्यारोप्यमाणं ।

     यथा मम--

'वदनमिदं न सरोजं नयने नेन्दीवरे एते ।

इव सविधे मुग्धदृशो भ्रमर मुदा किं परिभ्रमसि ।।'

 

     यथा वा--

'हृदि विसलताहारो नायं भुजङ्गमनायकः

कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।

मलयजरजो नेदं भस्म प्रियारहिते मयि

प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ।।'

 

     न ह्ययं निश्चयान्तः संदेहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् । अत्र तु भ्रमरादेः संशयो नायकादेर्निश्चयः । किञ्च न भ्रमरादेरपि संशयः एककोट्यधिके ज्ञाने, तथा समीपागमनासंभावत् । तर्हि भ्रान्तिमानस्तु, अस्तु नाम भ्रमारादेर्भ्रान्तिः । न चेह तस्याश्चमत्कारविधायित्वम्, अपि तु तथाविधनायकाद्युक्तेरेवेति सहृदयसंवेद्यं । किञ्चाविवक्षितेऽपिं भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव संभवति तथाविधोक्तिः । न च रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् ।

न चापह्नुतिः, प्रस्तुतस्यानिषेधादितिपृथगेवायमलङ्कारश्चिरन्तनोक्तालङ्कारेभ्यः । शुक्तिकायां रजतधिया पतति पुरुषे शुक्तिकेयं न रजतमिति कस्याचिदुक्तिर्नायमलङ्कारो वैचित्र्याभावात् ।

भवेत्संभावनोत्प्रेक्षा प्रकृतस्य परात्मना ।

वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ।। सूत्र १०.४० ।।

वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः ।

जातिगुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ।। सूत्र १०.४१ ।।

तदष्टधापि प्रत्येकं भावाभावाभिमानतः ।

गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च ताः ।। सूत्र १०.४२ ।।

द्वात्रिंशद्विधतां यान्ति--

     तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा--

'ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलो भाति ।

सपताकः कनकमयो विजयस्तम्भः स्मरस्येव ।।'

     अत्र विजयस्तम्भस्य बहुवाचकत्वाज्जात्युप्रेक्षा ।

'ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।

गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ।।'

     अत्र सप्रसवत्वं गुणः ।

'गङ्गाम्भसि सुरत्राण तव निः शाननिस्वनः ।

स्नातीवारिधूवर्गगर्भपातनपातकी ।।'

अत्र स्नातीति क्रिया ।

'मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः ।'

अत्र चन्द्र इत्येकव्यक्तिवाचकत्वाद्द्रव्यशब्दः । एते भावाभिमाने ।

अभावाभिमाने यथा--

'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।

उपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ।।'

     अत्रापश्यन्ताविति क्रियाया अभावः । एवमन्यत् । निमित्तस्य गुणक्रियारूपत्वे यथा--'गङ्गम्भसि' इत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः । 'अपश्यन्तौ-' इत्यादौ क्षामतागमनरूपं निमित्तं क्रिया । एवमन्यत् । प्रतीयमानोत्प्रेक्षा यथा--

'तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतं ।

हाराय गुणिने स्थानं न दत्तमिति लज्जया ।।'

 

     अत्र लज्जयेवेति इवाद्यभावात्प्रतीयमानोत्प्रेक्षा । एवमन्यत् । ननु ध्वनिनिरूपणप्रस्तावेऽलङ्काराणां सर्वेषामपि व्यङ्ग्यात्वं भवतीत्युक्तं ।

सम्प्रति पुनविशिष्य कथमुत्प्रेक्षायाः प्रतीयमानत्वं ? उच्यतेव्यङ्ग्योत्प्रेक्षायाम्--'महिलासहस्स-' इत्यादावुत्प्रेक्षणं विनापि वाक्यविश्रान्तिः ।

इह तु स्तनयोर्लज्जाया असम्भवाल्लज्जयेवेत्युत्प्रेक्षयैवेति व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेदः । अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु मध्ये विशेषमाह--

--तत्र वाच्याभिदाः पुनः ।

विना द्रव्यं त्रिधा सर्वाः स्वरूपफलहेतुगाः ।। सूत्र १०.४३ ।।

 

     यत्रोक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश भेदास्तेषु च जात्यादीनां त्रयाणां ये द्वादश भेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः । द्रव्यस्य स्वरूपोत्प्रेक्षणमेव सम्भवतीति चत्वार इति मिलित्वा चत्वालिंशद्भेदाः ।

अत्र स्वरूपोत्प्रेक्षा यथा पूर्वोदाहरणेषु 'स्मारस्य विजयस्तम्भः' इति । 'सप्रसवा इव' इत्यादयो जातिगुणस्वरूपगाः । फलोत्प्रेक्षा यथा--

'रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।

विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ।।'

 

     अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितं । हेतूत्प्रेक्षा यथा--

     'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्यां ।

     अदृश्यत त्वच्चरणारविन्दविश्लेषदुः खादिव बद्धमौनम् ।।'

     अत्र दुः खरूपो गुणो हेतुत्वेनोत्प्रेक्षितः । एवमन्यत् ।

उक्त्यनुक्तयोर्निमित्तस्य द्विधा तत्र स्वरूपगाः ।

 

     तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः । तत्र निमित्तस्योपादानं यथा पूर्वोदाहृते 'स्नातीव' इत्युत्प्रेक्षायं निमित्तं पातकित्वमुपात्तं । अनुपादाने यथा--'चन्द्र इवापरः' इत्यत्र तथाविधसौन्दर्याद्यतिशयो नोपात्तः । हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव, तथाहि--'विश्लेषदुः खादिव' इत्यत्र यन्निमित्तं बद्धमौनत्वं 'आख्यातुमिव' इत्यत्र च भूप्रवेशस्तयोरनुपादानेऽसङ्गतमेव वाक्यं स्यात् । प्रतीयमानायाः षोडशसु भेदेषु विशेषमाह--

प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः ।। सूत्र १०.४४ ।।

 

     यथैदाहृते 'नन्वङ्ग्याः स्तनयुग्मेन' इत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः । अस्यामपि निमित्तस्यानुपादानं न सम्भवति । इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात् । स्वरूपोत्प्रेक्षाप्यत्र न भवति, धर्मान्तरतादात्मयनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् । यथा--'अयं राजापरः पाकशासनः' इति । (विशेषणाभावे च रूपकस्य, यथा--'राजा पाकशासनः' इति । ) तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा ।

उक्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।

 

     ता उत्प्रेक्षाः । उक्तौ यथा--'उरुः कुरङ्गकदृशः-' इति । अनुक्तौ यथा मम प्रभावत्याम--'प्रद्युम्नः--इव हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेन--

घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः ।

ततमिव तमालतरूभिर्वृतमिव नीलांशुकैर्भुवनम् ।।'

 

     अत्राञ्जनेन घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तं ।

     यथा वा--

'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।'

 

     अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तः । अञ्जनवर्षणस्य तमः सम्पातः । अनयोरुत्प्रेक्षानिमित्तं च तमसोऽतिबहुलत्वं धारारूपेणाधः संयोगश्च यथासंख्यं । केचित्तु--'अलपनकर्तृभऊतमपि तमो लेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभोऽपि वर्षणाक्रियाकर्तृत्वेन' इत्याहुः ।

अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं भजेत् ।। सूत्र १०.४५ ।।

 

     तत्र सापह्नवोत्प्रेक्षा यथा मम--

'अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः ।

अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव ।।'

 

     श्लेषहेतुगा यथा--

     'मुक्तोत्करः सङ्कटशुक्तिमध्यद्विनिर्गतः सारसलोचनायाः ।

     जानीमहेऽस्याः कमनीयकम्बुग्रीवाधिवासाद्गुणवत्त्वमाप ।।'

     अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिवासादिवेति हेतूत्प्रेक्षाया हेतुः ।

अत्र 'जानीमहे' इत्युत्प्रेक्षावाचकं । एवम् मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः ।

     क्वचिदुपमोपक्रमोत्प्रेक्षा यथा--

'पारेजलं नीरनिधेरपस्यन्मुरारिरानीलपलाशराशीः ।

वनावलीरुत्कलिकासहस्त्रप्रतिक्षणोत्कूलितशैवलाभाः ।।'

 

     इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा । पर्यवसाने तु जलधितीरे शैवालस्थितेः सम्भावनानुपपत्तौ सम्भावनोत्थापनमित्युत्प्रेक्षा ।

एवं विरहवर्णने--'केयूरायितमङ्गदैः--' इत्यत्र 'विकासिनीलोत्पलतिस्म कर्णे मृगायताक्ष्याः कुटिलः कटाक्षः' इत्यादौ च ज्ञेयं । भ्रान्तिमदलङ्कारे 'मुग्घा दुग्धधिया--' इत्यादौ भ्रान्तानां बल्लवादीनां विषयस्य चन्द्रिकादेर्ज्ञानमेव नास्ति, तदुपनिबन्धनस्य कविनैव कृतत्वात् ।

इह तु संभावनाकर्तुविषयस्यापि ज्ञानमिति द्वयोर्भेदः । संदेहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा संभाव्यभूतैककोटिः ।

अतिशयोक्तौ विषयिणः प्रतीतस्य पर्ववासनेऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः ।

     'रञ्जिता नु विविधास्तरुशला नामितं नु गगनं स्थगितं नु ।

     पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।।'

     इत्यत्र यत्तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण संदिह्यत इति संदेहालङ्कार इति केचिदाहुः, तन्न-एकविषये मानबलतयानेककोटिस्फुरणस्यैव संदेहत्वात् । इह तु तर्वादिव्याप्तेः प्रतिसंबन्धिभेदो व्यापनादेर्निगरणेन रञ्जनादेः स्फुरणं च । अन्ये तु--'अनेकत्वनिर्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्यधिकेऽपि भिन्नोऽयं संदेहप्रकारः' इति वदन्ति स्म; तदप्ययुक्तम्--निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि संभावना, तस्याश्चात्र स्फुटतया सद्भावात्नुशब्देन चेवशब्दवत्तस्याद्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता, अलमदृष्टसंदहप्रकारकल्पनया ।

'यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते

तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।

अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-

कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् ।।'

 

     इत्यत्र 'भन्ये' शब्दप्रयोगेऽप्युक्तरूपायाः सम्भावनाया अप्रतीतेवितर्कमात्रं नासावपह्नवोत्प्रेक्षा ।

सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।

 

     विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । अस्य चोत्प्रेक्षायां विषयिणोऽनिश्चितत्वेन निर्देशात्साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वं ।

विषयनिगरणं चोत्प्रेक्षायां विषयस्याधः करणमात्रेण, इहापि मुखं द्वितीयश्चन्द्र इत्यादौ ।

यदाहुः--

'विषयस्यानुपादानेऽप्युपादानेऽपि सूरयः ।

अधः करणमात्रेण निगीर्णत्वं प्रचक्षते ।।' इति ।

 

          भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययौ ।। सूत्र १०.४६ ।।

          पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः ।

     तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः । सा अतिशयोक्तिः । अत्र भेदेऽभेदो यथा मम--

'कथमुपरि कलापिनः कलापो

विलसति तस्य तलेऽष्टमीन्दुखण्डं ।

कुवलययुगलं ततो विलोलं

तिलकुसुमं तदधः प्रवालमस्मात् ।।'

 

     अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः । यथा वा--'विश्लेषदुः खादिव बद्धमौनम् ।' अत्र चेतनगतमौनित्वमन्यत्, अचेतनगतं चान्यदिति द्वयोर्भेदेऽप्यभेदः । एवम्--

'सहाधरदलेनास्य यौवने रागभाक्प्रियः ।'

 

     अत्राधरस्य रागो लौहित्यम्, प्रियस्य रागः प्रेम, द्वयोरभेदः ।

     अभेदे भेदो यथा--

'अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः ।

तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम् ।।'

 

     सम्बन्धेऽसम्बन्धो यथा--

          'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः ।

               शृङ्गारैकरसः स्वय नु मदनो मासो नु पुष्पाकरः ।

          वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो

               निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।।'

     अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धः ।

     असम्बन्धे सम्बन्धो यथा--

'यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयं ।

तदोपमीयते तस्या वदनं चारुलोचनम् ।।'

 

     अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः । कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति । कारणात्प्रथमं कार्यस्य भावे द्वयोः समकालत्वेच । क्रमेण यथा--

'प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलं ।

पश्चादुद्भिन्नबकुलरसालमुकुलश्रियः ।।'

'सममेव समाक्रान्तं द्वयं द्विरदगामिना ।

तेन सिंहासनं पित्र्यं मण्डलं च कहीक्षिताम् ।।'

 

     इह केचिदाहुः--केशपाशादिगतो लौकिकोऽतिशयोऽलौकिकत्वेनाध्यवसीयते । केशपाशादीनां कलापादिभिरध्यवसाये 'अन्यदेवाङ्गलावण्यम्' इत्यादिप्रकारेष्वव्याप्तिर्लक्षणस्य' इति । तन्न,--तत्रापि ह्यन्यदङ्गलावण्यमन्यत्वेनाध्यवसीयते । तथाहि 'अन्यदेव' इति स्थाने 'अन्यदिव' इति पाठेऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाङ्गीक्रियते । 'प्रगेव हरिणाक्षीणाम्--' इत्यत्र बकुलादीश्रीणां प्रथमभावितापि पश्चाद्भावित्वेनाध्यवसिता, अत एवात्रापीवशब्दयोगे उत्प्रेक्षा एवमन्यत्र ।

पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।। सूत्र १०.४७ ।।

एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ।

 

     अन्येषामप्रस्तुतानां धर्मो गुणक्रियारूपः । उदाहरणम्--

'अनुलेपनानि कुसुमान्यबलाः

कृतमन्यवः पतिषु दीपदशाः ।

समयेन तेन सुचिरं शयित-

प्रतिबोधितस्मरमबोधिषत ।।'

 

     अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात्प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाभिसम्बन्धः ।

          'तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।

          मालतीशशभृल्लेखाकदलीनां कठोरता ।।'

     इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः ।

     एवम्--

          'दानं वित्तादृतं वाचः कीर्त्तिधर्मौ तथायुषः ।

          परोपकारणं कायादसारात्सारमाहरेत् ।।'

     अत्र दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः ।

अप्रस्तुतप्रस्तुतयोर्देपकं तु निगद्यते ।। सूत्र १०.४८ ।।

अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ।

 

     क्रमेणोदाहरणम्--

'बलावलेपादधुनापि पूर्वव-

त्प्रबाध्यते तेन जगज्जिगीषुणा ।

सतीव योषित्प्रकृतिः सुनिश्चला

पुमांसमभ्येति भवान्तरेष्वपि ।।'

 

     अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेरप्रस्तुतायाश्च योषित एकानुगमनक्रियासम्बन्धः ।

'दूरं समागतवति त्वयि जीवनाथे

भिन्ना मनोभवशरेण तपस्विनी सा ।

उत्तिष्ठति स्वपिति वासगृह त्वदीय-

मायाति याति हसति श्वसिति क्षणेन ।।'

 

     इदं मम । अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः । अत्र च गुणक्रिययोरादिमध्यावसानसद्भावेन त्रैविध्यं न लक्षितम्, तथाविधवैचित्र्यस्य सर्वत्रापि सहस्त्रधासम्भवात् ।

          प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ।। सूत्र १०.४९ ।।

          एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ।

     यथा--

     'धन्यासि वैदभि गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि ।

     इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ।।'

     अत्र समाकर्षणमुत्तरलीकरणं च क्रियैकैव पौनरुक्त्यनिरासाय भिन्नवाचकतया निदिष्ट । इयञ्च मालयापि दृश्यते यथा--

'विमल एव रविर्विशदः

शशी प्रकृतिशोभन एव हि दर्ण्णः ।

शिवगिरिः शिवहाससहोदरः

सहजसुन्दर एव हि सज्जनः ।।'

 

     अत्र विमलविशदादिरर्थत एव । वैधर्म्येण यथा--

        'चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि ।

        विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि ।।'

दृष्टन्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनं ।। सूत्र १०.५० ।।

 

     सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः अयमपि साधर्म्यवैधर्म्याभ्यां द्विधा । क्रमेणोदाहरणम्--

     'अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधारां ।

     अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ।।'

'त्वयि दृष्टे कुरङ्गाक्ष्याः स्त्रंसते मदनव्यथा ।

दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः ।।'

 

     'वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः ।

     प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम् ।।'

     इदं पद्यं मम । अत्र 'मनः कुतो नः' इत्यस्य 'काङ्क्षति वल्लिमन्याम्' इत्यस्य चैकरूपतयैव वर्यवसानात्प्रतिवस्तूपमैव ।

इह तु कर्णे मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यं ।

अत्र समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोर्ऽथन्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः ।

सम्भवन्वस्तुसम्बन्धोऽसम्भवन्वापि कुत्रचित् ।

यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ।। सूत्र १०.५१ ।।

 

     तत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा--

          'कोऽत्र भूमिवलये जनान्मुधा तापयन्सुचिरमेति सम्पदं ।

          वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः ।।'

     अत्र रवेरीदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः सम्भवत्येव । ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्मवत्वात् । स च रवेरस्ताचलगमनस्य परितापिनां विपत्प्राप्तेश्च बिम्बप्रतिबिम्बभावं बोधयति । असम्भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा ।

तत्रैकवाक्यगा यथा--

          'कलयति कुवलयमालाललितं कुटिलः कटाक्षविक्षेपः ।

          अधरः किसलयलीलामाननमस्याः कलानिधेविलासम् ।।'

      अत्रान्यस्य धर्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवात्तल्ललितादिसदृशं ललितादिकमवगमयत्कटाक्षविक्षेपादेः कुवलयमालादेश्च बिम्बप्रतिबिम्बभावं बोधयति । यथा वा--

'प्रयाणे तव राजेन्द्र मुक्ता वैरिमृगीदृशां ।

राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः ।।'

 

     अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्थागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन्राजहंसगतिमिव गतिं बोधयति ।

अनेकवाक्यगा यथा--

     'इदं किलाव्याजमनोहरं वपुस्तपः क्लपं साधयितुं य इच्छति ।

     ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ।।'

     अत्र चच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस्तादृशवपुषस्तपः क्लमत्वसाधनेच्छा नीलोत्पलपत्नधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्यवस्यति ।

     यथा--

          'जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया ।

          काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ।।'

     अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्तामणिविक्रय इवेति पर्यवसानं । एवम्--

'क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।

तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।।'

 

     अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्यवसानं ।

     इयं च क्वचिदुपमेयवृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा--

          'योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे ।

          समास्वादि स मृद्वीकारसे रसविशारदैः ।।'

     अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसेऽसम्भवात्पूर्ववत्साम्ये पर्यवसानं । मालारूपापि यथा मम--

'क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने ।

वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने ।।'

 

     इह विम्बप्रतिबम्बताक्षेपं विना वाक्यार्थापर्यवसानं । दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनं । नापीयमर्थापत्तिः, तत्र 'हारोऽयं हरिणाक्षीणाम्--' इत्यादौ सादृश्यपर्यवसानाभावात् ।

          आदिक्यमुपमेयस्योपमानान्न्यूनताथवा ।

          व्यतिरेकः--

     स च--

--एक उक्तेऽनुक्ते हेतौ पुनस्त्रिधा ।। सूत्र १०.५२ ।।

चतुर्विधोऽपि साम्यस्य बोधनाच्छब्दतोर्ऽथतः ।

आक्षेपाच्च द्वादशधा श्लेषेऽपीति त्रिरष्टधा ।। सूत्र १०.५३ ।।

प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः ।

 

     उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणं च । तयोर्द्वयोरप्युक्तावेकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुविधेऽप्यस्मिन्नुपमानोपमेयत्वस्य निवेदनं शब्देन अर्थेन आक्षेपेण चेति द्वादशप्रकारोऽपि श्लेषे, 'अपि' शब्दादश्लेषेऽपीति चतुर्विंशतिप्रकारः । उपमानान्न्यूनतायामप्यनयैव भङ्ग्या चतुर्विंशतिप्रकारतेति मिलित्वा अष्टचत्वारिंशत्प्रकारो व्यतिरेकः ।

उदाहरणम्--

'अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा ।'

 

     अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कलङ्कित्वं हेतुद्वयमप्युक्तम्, यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यं । अत्रैव 'न कलङ्किविधूपमम्' इति पाठे आर्थं । 'जयतीन्दुं कलङ्किनम्' इति पाठे त्विववत्तुल्यादिपदविरहादाक्षिप्तं । अत्रैवाकलङ्कपदत्यागे उपमेयतोत्कर्षकारणानुक्तिः ।

कलङ्किपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः । द्वयोरनुक्तौ द्वयोरनुक्तिः । श्लेषे यथा--

'अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः ।'

 

     अत्रेवार्थे वतिरिति शाब्दमौपम्यं । उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः । गुणशब्दः श्लिष्टः । अन्ये भेदाः पूर्ववदूह्याः ।

एतानि चोपमेयस्योपमानादाधिक्य उदारणानि । न्यूनत्वे दिङ्मात्रं यथा--

'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यं ।

विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।।'

 

     अत्रोपमेयभूतयोवनास्थैर्यस्याधिक्यं । तेनात्र 'उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः' इति केषांचिल्लक्षणे 'विपर्यये वेतिपदमनर्थकम्' इति यत्केचिदाहुः । तन्न विचारसहं । तथाहि-अत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते । अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव । अस्तु वात्रोदाहरणे यथाकथंचिद्रतिः ।

'हनूमदाद्यैर्यशसा मया पुनद्विषां हसैर्दूतपथः सितीकृतः ।'

इत्यादिषु का गतिरिति सुष्ठूक्तं 'न्यूनताथवा' इति ।

सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः ।। सूत्र १०.५४ ।।

सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ।

 

     अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरूपा च । अभेदाध्यवसायमूलापि श्लेषभित्तिकान्यथा च ।

क्रमेणोदाहरम्--

'सहाधरदलेनास्या यौवने रागभाक्प्रियः ।'

 

     अत्र रागपदे श्लेषः ।

'सह कुमुदकदम्बैः कालमुल्लासयन्तः

सह घनतिमिरौघैर्धैर्यमुत्सारयन्तः ।

सह सरसिजषण्डैः स्वान्तमामीलयन्तः

प्रतिदिशममृतांशोरंशवः सञ्चरन्ति ।।'

 

     इदं मम । अत्रोल्लासादीनां संबन्धिभेदादेव भेदः, न तु श्लिष्टतया ।

'सममेव नराधिपेन सा गुरुसंमोहविलुप्तचेतना ।

अगमत्सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम् ।।'

 

     इयं च मालयापि संभवति । यथोदाहृते 'सह कुमुदकदम्बैः--' इत्यादौ ।

'लक्ष्मणेन समं रामः काननं गहनं ययौ ।'

इत्यादौ चातिशयोक्तिमूलाभावान्नायमलङ्कारः ।

विनोक्तिर्यद्विनान्येन नासाध्वन्यदसाधु वा ।। सूत्र १०.५५ ।।

 

     नासाधु अशोभनं न भवति । एवं च यद्यपि शोभनत्व एव पर्यवसानं तथाप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत्कस्यचिद्वर्णनीयस्याशोभनत्वं तत्परसन्निधेरेव दोषः । तस्या पुनः स्वभावतः शोभनत्वमेवेति ।

     यथा--

'विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः ।

विना ग्रीष्मोष्मणा मञ्जुर्वनराजिरजायत ।।'

 

     'असाध्वशोभनं यथा--

          'अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतं ।

          का दिनश्रीर्विनार्केण का निशा शशिना विना ।।'

     'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बं ।

     उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ।।'

     अत्र परस्पराविनोक्तिभङ्ग्या चकत्कारातिशयः ।

     विनाशब्दप्रयोगाभावेऽपि विनार्थविवक्षायं विनोक्तिरेवेयं ।

     एवं सहोक्तिरपि सहशब्दप्रयोगाभावेऽपि सहार्थविवक्षायां भवतीति बोध्यं ।

समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः ।

व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः ।। सूत्र १०.५६ ।।

 

     अत्र समेन कार्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः । यथा--

'व्याधूय यद्वसनमम्बुजलोचनाया

वक्षोजयोः कनककुम्भविलासभाजोः ।

आलिङ्गसि प्रसभमङ्गमशेषमस्या

धन्यस्त्वमेव मलयाचलगन्धवाह ।।'

 

     अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः ।

     लिङ्गसाम्येन यथा--

'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।

अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः ।।'

 

     अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः । विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन, औपम्यगर्भत्वेन च त्रिधा ।

श्लिष्टतया यथा मम--

'विकसितमुखीं रागासङ्गाद्रलत्तिमिरावृतिं

दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः ।

जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः

श्रयति हरितं हन्त प्राचेतसीं तुहिनद्युतिः ।।'

 

     अत्र मुखरागादिशब्दानां श्लिष्टता । अत्रैव हि 'तिमिरावृतिम्' इत्यत्र 'तिमिराशुकम्' इति पाठे एतदेशस्य रूपणेऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम्, तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्रविश्रान्त इति न समासोक्तिबुद्धिं व्याहन्तुमीशः । यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादित्यशाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्तिरूपकमेव । यथा--

'जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलां ।

रगसंमुही वि सहसा परम्मुही होइ रिउसेणा ।।'

 

     अत्र रणान्तः पुरयोः सादृश्यमस्फुटमेव । क्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनां रूपणं शाब्दमेकदेशस्य चार्थं तत्रैकदेशविवर्ति रूपकमेव । रूपकप्रतीतेर्व्यापितया समासोक्तिप्रतीतितिरोधायकत्वात् । नन्वस्ति रणान्तः पुरयोरपि सुखसंचारतया स्फुटं सादृश्यमिति चेत्? सत्यमुक्तं ; अस्त्येव किंतु वाक्यार्थपर्यालोचनसापेक्षम्, न खलु निरपेक्षम्, मुखचन्द्रादेर्मनोहरत्वादिवद्रणान्तः- पुरयोः स्वतः सुखसञ्चारत्वाभावात् । साधरण्येन यथा--

'निसर्गसौरभोद्भ्रान्तभृङ्गसंगीतशालिनी ।

उदिते वासराधीशे स्मेराजनि सरोजिनी ।।'

 

     अत्र निसर्गेत्यादिविशेषणसाम्यात्सरोजिन्यां नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मेरत्वधर्मस्य समारोपः कारणं । तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् । औपम्यगर्भत्वं पुनस्त्रिधा सम्भवति, उपमारूपसङ्करगर्भत्वात् । तत्रोपमागर्भत्वे यथा--

'अदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।

केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।।'

 

     अत्र सुवेषत्ववशात्प्रथमं दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेन समासः । अनन्तरं च दन्तप्रभासदृशैः पुष्पैश्चितेत्यादिसमासान्तराश्रयेण समानविशेषणमहात्म्याद्धरिणेक्षणायां लताव्यवहारप्रतीतिः । रूपकगर्भत्वे यथा--'लावण्यमधुभिः पूर्णम्-' इत्यादि । सङ्करगर्भत्वे यथा-'दन्तप्रभापुष्प-' इत्यादि । 'सुवेषा' इत्यत्र 'परीता' इति पाठे ह्युपमारूपकसाधकाभावात्सङ्करसमाश्रयणं । समासान्तरं पूर्ववत् । समासान्तरमहिम्ना लताप्रतीतिः । एषु च यषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति तन्मते आद्यतृतीययोः समासोक्तिः ।

द्वितीयस्तु प्रकार एकदेशविर्विंतरूपकविषय एव । पर्यालोचने त्वाद्ये प्रकारे एवदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता । अन्यथा--

'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभं ।

प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ।।'

 

     इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः, नायिकापयोधरेणार्द्रनखक्षताभशक्रचापधारणासम्भवात् । ननु 'आर्द्रनखक्षताभम्' इत्यत्र स्थितमप्युपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयं । यथा--'दध्ना जुहोति' इत्यादौ हवनस्यान्यथासिद्धेर्दध्नि सञ्चार्यते विधिः ।

एवञ्चेन्द्रचापाभमार्द्रनखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत्? , एवंविधनिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्त्युपमाङ्गीकारस्यैव ज्यायस्त्वात् ।

अस्तु वात्र यथाकथञ्चित्समासोक्तिः । 'नेत्रैरिवोत्पलैः पद्मैः-' इत्यादौ चान्यगत्यसम्भवात् । किं चोपमायां व्यवहारप्रतीतेरभावात्कथं तदुपजीविकायाः समासोक्तेः प्रवेशः । यदाहुः--

'व्यवहारोऽथवा तत्त्वमौपम्ये यत्प्रतीयते ।

तन्नौपम्यं समासोक्तिरेकदेशोपमा स्फुटा ।।'

 

     एवञ्चोपमारूपकयोरेकदेशविवर्तिताङ्गीकारे तन्मूलसङ्करेऽपि समासोक्तेरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति विशेषणसाम्ये श्लिष्टवेशेषणोत्थापिता साधारणविशेषणोत्थापिता चेति द्विधा । कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुः प्रकारा समासोक्तिः । सर्वत्रैवात्र व्यवहारसमारोपः कारणं । स च क्वचिल्लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा ।

तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधं । शास्त्रीयमपि तर्कायुर्वेदज्योतिः शास्त्रप्रसिद्धतयोति बहुप्रकारा समासोक्तिः । दिङ्मात्रं यथा--'व्याधूय यद्वसनम्-' इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकव्यवहारादेः समारोपः ।

'यैरेकरूपमखिलास्वपि वृत्तिषु त्वां

पश्यद्भिरव्ययमसंख्यतया प्रवृत्तं ।

लोपः कृतः किल परत्वजुषो विभक्ते-

स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ।।'

 

     अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः । एवमन्यत्र । रूपकेऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति । इह तु स्वावस्थासमारोपेणावच्छादितस्वरूपमेव तं पूर्वावस्थातो विशेषयति । अत एवात्र व्यवहारसमारोपो न तु स्वरूपसमारोप इत्याहुः । उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषणमात्रस्य । अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्येति भेदः ।

उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः ।

 

यथा--

     'अङ्गराज सेनापते द्रोणोपहासिन् कर्ण , रक्षैनं भीमाद्दुः शानं '

          शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचनं ।। सूत्र १०.५७ ।।

     'स्वभावादेकार्थैः' इति शब्दश्लेषाद्व्यवच्छेदः । 'वाचनम्' इति च ध्वनेः । उदाहरणम्--

'प्रवर्तयन्क्रियाः साध्वीर्मालिन्यं हरिता हरन् ।

महसा भूयसा दीप्तो विराजति विभाकरः ।।'

 

     अत्र प्रकरणादिनियमाभावाद्द्वावपि राजसूर्यौ वाच्यौ ।

क्वचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः ।

कार्यान्निमित्तं कार्यं च हेतोरथ समात्समं ।। सूत्र १०.५८ ।।

अप्रस्तुतात्प्रस्तुतं चेद्गम्यते पञ्चधा ततः ।

 

अप्रस्तुतप्रशंसा स्याद्--

 

     क्रमेणोदाहरणम्---

'पादाहतं यदुत्थाय मूर्धानमधिरोहति ।

स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ।।'

 

     अत्रास्मदपेक्षया रजोऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितं ।

     'स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति मां ।

     विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ।।'

     अत्रेश्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं हितकारिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः ।

एवञ्चात्राप्रस्तुतप्रशंसामूलोर्ऽथान्तरन्यासः । दृष्टान्ते प्रख्यातमेव वस्तु प्रतिबिम्बत्वेनोपादीयते, इह तु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः ।

'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव,

प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा ।

कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं

सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सहर्हा इव ।।'

 

     अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते ।

'गच्छामीति यथोक्तया मृगदृशा निः श्वासमुद्रेकिणं

त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेनैकेन मां चक्षुषा ।

अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यता-

मित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः ।।'

 

     अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितं । तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च ।

श्लेषमूलापि समासोक्तिवद्विशेषणमात्रस्य श्लेषे श्लेषवद्विशेष्यस्यापि श्लेषे भवतीति द्विधा । क्रमेण यथा--

'सहकारः सदामोदो वसन्तश्रीसमन्वितः ।

समुज्ज्वलरुचिः श्रीमान्प्रभूतोत्कलिकाकुलः ।।'

 

     अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात्सहकारात्कस्यचित्प्रस्तुतस्य नायकस्य प्रतीतिः ।

'पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि

यायाद्यदि प्रणयने न महानपि स्यात ।

भ्युद्धरेत्तदपि विश्वमितीदृशीयं

केनापि दिक्प्रकटिता पुरुषोत्तमेन ।।'

 

     अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते । तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते ।

     सादृश्यमात्रमूला यथा--

'एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति ।

अम्बरमावृतिशून्यं हरहर शरणं विधेः करुणा ।।'

 

     अत्र कपोतादप्रतुस्तात्कश्चित्प्रस्तुतः प्रतीयते । इयं च क्वचिद्वैधर्म्येणापि भवति ।

'धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः ।

राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ।।'

 

     अत्र वाता धन्या अहमधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते । वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयं । तत्र सम्भवे उक्तोदाहरणान्येव ।

     असम्भवे यथा--

'कोकिलोऽहं भवान्काकः समानः कालिमावयोः ।

अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः ।।'

 

     अत्र काककोकिलयोर्वाकोवाक्यं प्रस्तुतस्याध्यारोपणं विनासम्भवि ।

     उभयरूपत्वे यथा--

'अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।

कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ।।'

 

     अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमलनालान्तश्छिद्राणां गुणभङ्गुरीकरणे हेतुत्वमसम्भवि । अन्येषां तु सम्भवीत्युभयरूपत्वं ।

अस्याश्च समासोक्तिवद्व्यवहारसमारोपप्राणत्वाच्छब्दशक्तिमूलाद्वस्तुध्वनेर्भेदः । उपमाध्वनावप्रस्तुतस्य व्यङ्ग्यत्वं । एवं समासोक्तावपि ।

श्लेषे तु द्वयोरपि वाच्यत्वं ।

उक्ता व्याजस्तुतिः पुनः ।। सूत्र १०.५९ ।।

निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः ।

 

     निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः । स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः ।

क्रमेण यथा--

'स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव ।

त्वयि कुपितेऽपि प्रागिव विश्वस्ता द्विट्स्त्रियो जाताः ।।'

 

इदं मम ।।

'व्याजस्तुतिस्तव पयोद मयोदितेयं

यज्जीवनाय जगतस्तव जीवनानि ।

स्तोत्रं तु ते महदिदं घन धर्मराज-

साहय्यमर्जयसि यत्पथिकान्निहत्य ।।'

पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते ।। सूत्र १०.६० ।।

 

     उदाहरणम्--

'स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः ।

सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ।।'

 

     अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्यद्वारेणाभिहितं । न चेदं कार्यात्कारणप्रतीतिरूपाप्रस्तुतप्रशंसा, तत्र कार्यस्याप्रस्तुतत्वात्; इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन कार्यमिति कारणवत्प्रस्तुतं । एवञ्--

     'अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।

     प्रत्यापताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः ।।'

   अत्र वर्णनीयस्य राज्ञो गम्यभूतशत्रुमारणरूपकारणवत्कार्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्यायोक्तमेव ।

     'राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः

          कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।

     इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा-

          च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ।।'

     अत्र प्रस्थानेद्यतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतं । 'कार्यमपि वर्णनार्हत्वेन प्रस्तुतम्' इति केचित् ।

     अन्ये तु--'राजशुकवृत्तान्तेन कोऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव' इत्याहः,

          सामान्यं वा विशेषण विशेषस्तेन वा यदि ।

          कार्यं च कारणेनेदं कार्येण च समर्थ्यते ।। सूत्र १०.६१ ।।

          साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ।

     क्रमेणोदाहरणम्--

          'बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।

          सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ।।'

     अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योर्ऽथः सोपपत्तिकः क्रियते ।

'यावदर्थपदां वाचमेवमादाय माधवः ।

विरराम महीयांसः प्रकृत्या मितभाषिणः ।।'

'पृथ्वि स्थिरा भव भुजङ्गं धारयैनां

त्वं कूर्मराज तदिदं द्वितयं दधीथाः ।

दिक्कुञ्जराः कुरुत तत्नितये दिधीर्षां

आर्यः करोति हरकार्मुकमाततज्यम् ।।'

 

     अत्र कारणभूतं हरकार्मुकाततज्यीकरणं पृथिवीस्थैर्यादेः कार्यस्य समर्थकं ।

     'सहसा विदधीत न क्रियाम्' इत्यादौ सम्पद्वरणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकं ।

एतानि साधर्म्य उदाहरणानि । वैधर्म्ये यथा--

'इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयं ।

शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ।।'

 

     अत्र सामान्यं विशेषस्य समर्थकं । 'सहसा विदधीत-' इत्यत्र सहसा विधानाभावस्यापत्प्रदत्वं विरुद्धं कार्यं समर्थकं । एवमन्यत् ।

हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ।। सूत्र १०.६२ ।।

 

     तत्र वाक्यार्थता यथा--

'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं

मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।

येऽपि त्वद्रमनानुकारिगतयस्ते राजहंसा गता-

स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ।।'

 

     अत्र चतुर्थपादे पादत्रयवाक्यानि हेतवः । पदार्थता यथा मम--

('त्वद्वजिराजिनिर्धूतधूलीपटलपङ्किलां ।

न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ।।')

 

     अत्र द्वितीयार्धे प्रथमार्धमेकपदं हेतुः । अनेकपदं यथा मम--

(पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीं ।

देव त्रिपथगात्मानं गोपयत्युग्रमूर्धनि ।।)

 

     इह केचिद्वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेर्ऽथान्तरन्यासं नाद्रियन्ते । तदयुक्तम्, तथा ह्यत्र हेतुस्त्रिधा भवति--ज्ञापको निष्पादकः समर्थकश्चेति । तत्र ज्ञापकोऽनुमानस्य विषयः, निष्पादकः काव्यलिङ्गस्य, समर्थकोर्ऽथान्तरन्यासस्य, इति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गीत् । तथाहि--'यत्त्वन्नेत्र-' इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साकाङ्क्षतयासमञ्जसमेव स्यातिति पादत्रयगतवाक्यं निष्पादकत्वेनापेक्षते । 'सहसा विदधीत-' इत्यादौ तु--

'परापकारनिरतैदुर्जनैः सह सङ्गतिः ।

वदामि भवतस्तत्त्वं न विधेया कदाचन ।।'

 

     इत्यादिवदुपदेशमात्रेणापि निराकाङ्क्षतया स्वतोऽपि गतार्थं सहसा विधानाभावं सम्पद्वरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् ।

'न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ।

त्वद्वाजिराजिनिर्धूतधूलिभिः पङ्किला हि सा ।।'

 

     इत्यत्र हिशब्दोपादानेन पङ्किलत्वादितिवद्धेतुत्वस्य स्फुटतया नायमलङ्कारः, वैचित्र्यस्यैवालङ्कारत्वात् ।

अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात् ।

 

     यथा--

     'जानीमहेऽस्या हृदि सारसाक्ष्या विराजतेऽन्तः प्रियवक्त्रचन्द्रः ।

     तत्कान्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुड्मलताक्षिपद्मे ।।'

     अत्र रूपकवशाद्विच्छित्तिः ।

     यथा वा--

          'यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः ।

          तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये ।।'

     अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः । उत्प्रेक्षायामनश्चिततया प्रतीतिः, इह तु निश्चिततयेत्युभयोर्भेदः ।

अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह ।। सूत्र १०.६३ ।।

 

     यथा मम--'तारुण्यस्य विलासः--' इत्यत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्ता, विलासहासयोस्त्वध्यवसायमूलोऽयमङ्कारः ।

अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् ।

 

     यथा--

'कुपितासि यदा तन्वि निधाय करजक्षतं ।

बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा ।।'

 

     अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात्पृथगलङ्कारत्वमेव न्याय्यं ।

वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ।। सूत्र १०.६४ ।।

निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ।

 

      तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः क्वचिदंशोक्तावंशान्तरे निषध इति द्वौ भेदौ । उक्तविषये च क्वचिद्वस्तुस्वरूपस्य निषेधः, क्वचिद्वस्तुकथनस्येति द्वौ, इत्याक्षेपस्य चत्वारो भेदाः ।

क्रमेण यथा--

          'स्मरशरशतविधुराया भणामि संख्याः कृते किमपि ।

          क्षणमिह विश्रम्य सखे निर्दयहृदयस्य किं वदाम्यथवा ।।'

     अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविषये निषेधः ।

          'तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलितां ।

          हन्त नितान्तमिदानीं आः किं हतजल्पितैरथवा ।।'

     अत्र मरिष्यतीत्यंशो नोक्तः ।

          'बाला णाहं दूती तुअ पिओसि त्ति ण मह वावारो ।

          सा मरै तुज्भ्क्त आसो एत्नं धम्मक्खरं भणिमो ।।'

     अत्र दूतीत्वस्य वस्तुनो निषेधः ।

          'विरहे तव तन्वङ्गी कथं क्षपयतु क्षपां ।

          दारुणव्यवसायस्य पुरस्ते भणितेन किं ।।'

     अत्र कथनस्योक्तस्यैव निषेधः । प्रथमोदाहरणे संख्या अवश्यम्भाविमरणमिति विशेषः प्रतीयते । द्वितीयेऽशक्यवक्तव्यत्वादि, तृतीये दूतीत्वे यथार्थवादित्वम्, चतुर्थे दुः खस्यातिशयः । न चायं विहितनिषेधः, अत्र निषेधस्याभासत्वात् ।

अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ।। सूत्र १०.६५ ।।

 

     तथेति पूर्ववद्विशेषप्रतिपत्तये । यथा--

          'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।

          ममापि. जन्म तत्रैव भूयाद्यत्र गतो भवान् ।।'

     अत्रानिष्टत्वाद्रमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्यवस्यति ।

विशेषश्च गमनस्यात्यन्तपरिहार्यत्वरूपः प्रतीयते ।

विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते ।

उक्तानुक्तनिमित्तत्वाद्द्विधा सा परिकीर्तिता ।। सूत्र १०.६६ ।।

 

     विना कारणमुपनिबध्यमानोऽपि कार्योदयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः । तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा ।

यथा--

'अनायासकृशं मध्यमशङ्कतरले दृशौ ।

अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ।।'

 

     अत्र वयोरूपनिमित्तमुक्तं । अत्रैव 'वपुर्भाति मृगीदृशः' इति पाठेऽनुक्तम्

सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा ।

 

     तथेत्युक्तानुक्तनिमित्तत्वात् । तत्रोक्तनिमित्ता यथा--

'धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः ।

प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः ।।'

 

     अत्र महामहिमशालित्वं निमित्तमुक्तं । अत्रैव चतुर्थपादे 'कियन्तः सन्ति भूतले' इति पाठे त्वनुक्तं । अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तस्यैव भेद इति पृथङ्नोक्तं । यथा--

'स एकस्त्री४णि जयति जगन्ति कुसुमायुधः ।

हरतापि तनुं यस्य शम्भुना न हृतं बलम् ।।'

 

     अत्र तनुहरणेनापि बलाहरणे निमित्तमचिन्त्यं । इह च कार्याभावः कार्यविरुद्धसद्भावमुखेनापि निबद्ध्यते । विभावनायामपि कारणाभावः कारणविरुद्धसद्भावमुखेन । एवञ्च 'यः कौमारहरः' इत्यादेरुकण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना । 'यः कौमार-' इत्यादेः कारणस्य च कार्यविरुद्धाया उत्कण्ठाया निबन्धनाद्विशेषोक्तिः, एवं चात्र विभावनाविशेषोक्त्योः सङ्करः । शुद्धोदाहरणं तु मृग्यं ।

     जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।। सूत्र १०.६७ ।।

     क्रिया क्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः ।

     विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः ।। सूत्र १०.६८ ।।

     क्रमेण यथा--

    'तव विरहे मलयमरुद्दवानलः शशिरुचोऽपि सोष्माणः ।

     हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः ।।'

     'सन्ततमुसलासङ्गाद्वहुतरगृहकर्मघटनया नृपते ।

     द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः ।।'

'अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।

स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव ।।'

'वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः ।

राकाविभावरीजानिर्विषज्वालाकुलोऽभवत् ।।'

 

(नयनयुगासेचनकं मानसवृत्तयापि दुष्प्रापं ।

रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ।।)

 

     'त्वद्वाजि' इत्यादि । 'वल्लभोत्सङ्गऽ--इत्यादिश्लोके चतुर्थपादे 'मध्यन्दिनदिनाधिपः' इति पाठे द्रव्ययोर्विरोधः । अत्र 'तव विरह-' इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दवानलोष्महृदयभेदनसूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोधो मुखत आभासते, विरहहेतुकत्वात्समाधानं । 'अजस्य-' इत्यादावजत्वादिगुणस्य जन्मप्रहणादिक्रियया विरोधः, भगवतः प्रभावस्यातिशायित्वात्तु समाधानं ।

'त्वद्वाजि-' इत्यादौ 'हरोऽपि शिरसा गङ्गां न धत्ते' इति विरोधः, 'त्वद्वाजि-' इत्यादिकविप्रौढोक्त्या तु समाधानं ।

स्पष्टमन्यत् । विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यमेव बाध्यत्वेन प्रतीयते, विशोषोक्तौ च कार्याभावेन कारणमेव; इह त्वन्योन्यं द्वयोरपि बाध्यत्वमिति भेदः ।

कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः ।

 

     यथा--

'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः

सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं ।

साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं

दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ।।'

 

     अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः ।

     गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः ।। सूत्र १०.६९ ।।

     यद्वरब्धस्य वैफल्यनर्थस्य च सम्भवः ।

     विरूपयोः संघटना या च तद्विषमं मतं ।। सूत्र १०.७० ।।

क्रमेण यथा--

'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।

तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभारणं प्रसूते ।।'

 

     अत्र कारणरूपासिलतायाः 'कारणगुणा हि कार्यगुणमारभन्ते' इति स्थतेर्विरुद्धा शुक्लयशस उत्पत्तिः ।

         'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वं ।

         विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।।'

     अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः ।

         'अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया ।

         धनं दूरेऽस्तु वदनमपूरि क्षारवारिभैः ।।'

     अत्र केवलं काङ्क्षितधनलाभो नाभूत्, प्रत्यत क्षारवारिभिर्वदनपूरणं ।

'क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ।

नियतं प्रतिकूलवतिनो बत धातुश्चरितं सुदुः सहम् ।।'

 

     अत्र वनराज्यश्रियोर्विरूपयोः संघटना । इदं मम ।

     यथा वा--

'विपुलेन सागरशयस्य कुक्षिणा

भुवनानि यस्य पपिरे युगक्षये ।

मदविभ्रमासकलया पपे पुनः

स पुरस्त्रियैकतमयैकया दृशा ।।'

 

समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः ।

 

यथा--

'शशिनमुपगतेयं कौमुदी मेघमुक्तं

जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।

इति समगुणयोगप्रीतयस्तत्र पौराः

श्रवणकटु नृपाणामेकवाक्यं विबव्रुः ।।'

 

विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ।। सूत्र १०.७१ ।।

 

     यथा--

          'प्रणमत्युन्नतिहेतोर्जोवितहेतोर्विमुञ्चति प्राणान् ।

          दुः खीयति सुखहेतोः को मूढः सेवकादन्यः ।।'

          आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते ।

    आश्रयाधिक्ये यथा--

'किमधिकमस्य ब्रूमो महिमानं वारिघेर्हरिर्यत्र ।

अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ।।'

 

    आश्रिताधिक्ये यथा--

'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।

तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ।।'

 

अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः ।। सूत्र १०.७२ ।।

 

'त्वया सा शोभते तन्वी तया त्वमपि शोभसे ।

रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी ।।'

यदाधेयमनाधारमेकं चानेकगोचरं ।

किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा ।। सूत्र १०.७३ ।।

कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः ।

 

क्रमेण यथा--

'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषां ।

रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ।।'

'कानने सरिदुद्देशे गिरीणामपि कन्दरे ।

पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः ।।'

 

     'गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ।।'

व्याघातः स तु केनापि वस्तु येन यथाकृतं ।। सूत्र १०.७४ ।।

तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा ।

 

     यथा--'दृशा दग्धं मनसिजम्-' इत्यादि ।

सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ।। सूत्र १०.७५ ।।

 

     व्याघात इत्येव ।

'इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः

समागन्ता कान्ते मृदुरसि न चायाससहना ।

मृदुत्वं मे हेतुः सुभग भवता गन्तुमधिकं

न मृद्वी सोढा यद्विरहकृतमायासमसमम् ।।'

 

     अत्र नायकेन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तं । नायिकया च प्रत्युत सहगमने ततोऽपि सौकर्येण हेतुतयोपन्यस्तं ।

परं परं प्रति यदा पूर्वपूर्वस्य हेतुता ।

तदा कारणमाला स्यात्--

 

     यथा--

'श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् ।

लोकानुरागो विनयान्न किं लोकानुरागतः ।।'

--तन्मालादीपकं पुनः ।। सूत्र १०.७६ ।।

धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरं ।

 

     यथा--

'त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः ।

शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः ।।'

 

     अत्रासादनक्रिया धर्मः ।

पूर्वं पूर्वं प्रति विशेषणत्वेन परं परं ।। सूत्र १०.७७ ।।

स्थाप्यतेऽपोह्यते वा चेत्स्यात्तदैकावली द्विधा ।

 

     क्रमेणोदाहरणम्--

'सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतं ।

भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम् ।।'

 

     'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदं ।।

     न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ।।'

     कचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते । यथा--

'वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु ।

कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम् ।।'

 

     एवमपोहनेऽपि ।

उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ।। सूत्र १०.७८ ।।

 

यथा--

'राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधं ।

सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ।।'

यथासंख्यमूद्देश उद्दिष्टानां क्रमेण यत् ।

 

     यथा--

'उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु

क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्नासय ।

इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक-

व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ।।'

क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ।। सूत्र १०.७९ ।।

भवति क्रियते वा चेत्तदा पर्याय इष्यते ।

 

     क्रमेण यथा--

'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।

वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्धवः ।।'

'विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः ।

वृककाकशिवास्तत्र धावन्त्यरिपुरे तव ।।'

'विसृष्टरागादधारान्निवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् ।

कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ।।'

'ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः ।।'

निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुविन्दवः ।।'

 

     एषु च क्वचिदाधारः संहतरूपोऽसंहतरूपश्च । क्वाचिदाधेयमपि । यथा-- 'स्थिताः क्षणम्-' इत्यत्रोदबिन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् । 'विचरन्ति-' इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् । एवमन्यत् । अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेविशेषालङ्काराद्भेदः । विनिमयाभावात्परिवृत्तेः ।

परिवृत्तिविंनिमयः समन्यूनाधिकैर्भवेत् ।। सूत्र १०.८० ।।

 

     क्रमेणोदाहरणम्--

'दत्त्वा कटाक्षमेणाक्षी जग्रह हृदयं मम ।

मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः ।।'

 

     अत्र प्रथमेर्ऽधे समेन, द्वितीयेर्ऽधे न्यूनेन ।

'तस्य च प्रवयसो जटायुषः

स्वर्गिणः किमिव शोच्यतेऽधुना ।

येन जर्जरकलेवरव्यया-

त्क्रीतमिन्दुकिरणोज्ज्वलं यशः ।।'

 

     अत्रादिक्येन ।

          प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् ।

          तादृगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ।। सूत्र १०.८१ ।।

          परिसंख्या--

     क्रमेणोदाहरणम्--

'किं भूषणं सुदृढमत्र यशो न रत्नं

किं कार्यमार्यचरितं सुकृतं न दोषः ।

किं चक्षुरप्रतिहतं धिषणा न नेत्रं

जानाति कस्त्वदपरः सदसद्विवेकम् ।।'

 

     अत्र व्यवच्छेद्यं रत्नादि शाब्दं ।

          'किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः ।

          को ध्येयो भगवान्विष्णुः किं काम्यं परमं पदम् ।।'

     अत्र व्यवच्छेद्यं पापाद्यार्थं । अनयोः प्रश्नपूर्वकत्वं ।

     अप्रश्नपूर्वकत्वे यथा--

          'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।

          चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ।।'

          'बलमार्तभयोपशान्तये विदुषां संमतये बहु श्रुतं ।

          वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम् ।।'

श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा--

     'यस्मिंश्च राजनि 'जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करश्चापेषु गुणच्छेदः-' इत्यादि ।

--उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ।

यच्चासकृदसंभाव्यं सत्यपि प्रश्न उत्तरं ।। सूत्र १०.८२ ।।

 

     यथा मम--

          'वीभितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः ।

          अहमेकाकिनी बाला तवेह वसतिः कुतः ।।'

     अनेन पथिकस्य वसतियाचनं प्रतीयते ।

          'का विसमा देव्यगई किं लद्धव्वं जणो गुणग्गाही ।

          कि सोक्खं सुकलत्तं किं दुग्गोज्भ्क्तं खलो लू ।।'

     अत्रान्यव्यपोहे तात्पर्याभावात्परिसंख्यातो भेदः । न चेदमनुमानम्, साध्यसाधनयोर्द्वयोनिर्देश एव तस्याङ्गीकारात् । न च काव्यलिङ्गम्, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् ।

दण्डापूपिकयान्यार्थागमोर्ऽथापत्तिरष्यते ।

 

     'मूषिकेण दण्डो भक्षित' इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका । अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थत्प्राकरणिकार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणम्--

'हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।

मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः ।।'

'विललाप स बाष्पगद्रदं सहजामप्यपहाय धीरतां ।

अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् ।।'

 

     अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते-'हारोऽयम्-' इत्यादौ न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् ।

विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य) तः ।। सूत्र १०.८३ ।।

 

     यथा--'नमयन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा ।'

     अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात्सन्धिविग्रहयोश्चैकदा कर्तुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः ।

तुल्यबलत्वं चात्र धनुः शिरोनमनयोर्दूयोरपि स्पर्धया सम्भाव्यमानत्वात् । चातुर्यं चात्रौपम्यगर्भत्वेन । एवं 'कर्णपूरीक्रियन्ताम्' इत्यत्रापि एवं--

'युष्माकं कुरुतां भवातिशमनं नेत्रे तनुर्वा हरेः ।' अत्र श्लेषावष्टम्भेन चारुत्वं ।

'दीयतामजितं वित्तं देवाय ब्राह्मणाय वा ।'

 

     इत्यत्र चातुर्याभावान्नायमलङ्कारः ।

समुच्चयोऽयमेकस्मिन्सति कार्यस्य साधके ।

खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेत् ।। सूत्र १०.८४ ।।

गुणौ क्रिये वा युगपत्स्यातां यद्वा गुणक्रिये ।

 

     यथा मम--

'हंहो धीरसमिर हन्त जननं ते चन्दनक्ष्माभृतो

दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः ।

प्रत्यङ्गं दहसीति मे त्वमपि चेदुद्दामदावाग्निव-

न्मत्तोयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः ।।'

 

     अत्र दाहे एकस्मिंश्चन्दनक्ष्माभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानं । अत्र सर्वेषामपि हेतूनां शोभनत्वात्सद्योगः ।

अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः ।

     सदसद्योगो यथा--

'शशी दिवसधूसरो गलितयौवना कामिनी

सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।

प्रभूर्धनपरायणः सततदुर्गतः सज्जनो

नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे ।।'

 

     इह केचिदाहुः--'शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योगः' इति अन्ये तु--'शशिप्रभृतीनां स्वतः शोभनत्वं धूसरत्वादीनां त्वशोभनत्वमिति सदसद्योगः ।' अत्र हि शशिप्रभृतिषु धूसरत्वादेरत्यन्तचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वं ।

'मनसि सप्तशल्यानि मे' इति सप्तानामपि शल्यत्वेनोपसंहारश्च । 'नृपाङ्गनगतः खल' इति तु क्रमभेदाद्दुष्टत्वमावहति सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमादिति । इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः । समाध्यलङ्कारे त्वेककार्यं प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः ।

          'अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखं ।

          मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः ।।'

     अत्राद्येर्ऽथे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः । उभयोर्यौगपद्ये यथा--

     'कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चश्रुः ।

     पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ।।'

'धुनोति चासिं तनुते च कीर्तिम् ।'

 

     इत्यादावेकाधिकरणेऽप्येष दृश्यते । न चात्र दीपकम्, एते हि गुणक्रियायौगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः, दीपकस्य चातिशयोक्तिमूलत्वाभावः ।

समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ।। सूत्र १०.८५ ।।

 

     यथा--

          'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।

          उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ।।'

          प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि ।

          तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः ।। सूत्र १०.८६ ।।

     तस्यैवेति रिपोरेव । यथा मम--

          'मध्येन तनुमध्या मे मध्यं जितवतीत्ययं ।