bhagwat chapter 2.3
॥ श्रीशुक
उवाच ॥ एवमेतन्निगदितं
पृष्टवान्
यद्भवान्
मम ।
नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम्
॥१॥
ब्रह्मवर्चसकामस्तु
यजेत
ब्रह्मणस्पतिम् ।
इन्द्रं इन्द्रियकामस्तु प्रजा कामः प्रजापतीन्
॥२॥
देवीं
मायां
तु
श्रीकामः
तेजस्कामो
विभावसुम्।
वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान्
॥३॥
अन्नाद्यकामस्तु
अदितिं
स्वर्गकामोऽदितेः
सुतान्।
विश्वान्देवान् राज्यकामः साध्यान्संसाधको विशाम्
॥४॥
आयुष्कामोऽश्विनौ
देवौ
पुष्टिकाम
इलां
यजेत्।
प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥५॥
रूपा भिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम्।
आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥६॥
यज्ञं यजेत् यशस्कामः कोशकामः प्रचेतसम् ।
विद्या कामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥७॥
धर्मार्थ
उत्तमश्लोकं
तन्तुं
तन्वन्
पितॄन्
यजेत् ।
रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान्
॥८॥
राज्यकामो
मनून्
देवान्
निर्ऋतिं
त्वभिचरन्
यजेत् ।
कामकामो यजेत्सोमं अकामः पुरुषं परम् ॥९॥
अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्ति योगेन यजेत पुरुषं परम् ॥१०॥
एता वा नेव यजतां इह निः श्रेयसोदयः ।
भगवत्यचलो भावो यद्भागवतसङ्गतः ॥११॥
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् ।
आत्मप्रसाद उत यत्र गुणेष्वसङ्गः ।
कैवल्यसम्मतपथस्त्वथ भक्ति यो गः
को निर्वृतो हरि कथासु रतिं न कुर्यात् ॥१२॥
॥ शौनक उवाच ॥
इत्यभि व्याहृतं राजा निशम्य भरतर्षभः ।
किमन्यत् पृष्टवान् भूयो वैयासकिं ऋषिं कविम् ॥१३॥
एतद्
शुश्रूषतां
विद्वन्
सूत
नोऽर्हसि
भाषितुम् ।
कथा हरि कथो दर्काः सतां स्युः सदसि ध्रुवम् ॥१४॥
स
वै
भागवतो
राजा
पाण्डवेयो
महारथः ।
बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे
॥१५॥
वैयासकिश्च
भगवान्
वासुदेवपरायणः ।
उरुगायगुणो दाराः सतां स्युर्हि समागमे
॥१६॥
आयुर्हरति
वै
पुंसां
उद्यन्नस्तं
च
यन्नसौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया
॥१७॥
तरवः
किं
न
जीवन्ति
भस्त्राः
किं
न
श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥१८॥
श्वविड्वराहोष्ट्रखरैः
संस्तुतः
पुरुषः
पशुः ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥१९॥
बिले बतोरुक्रमविक्रमान् ये
न शृण्वतः कर्णपुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्युरुगायगाथाः ॥२०॥
भारः परं पट्टकिरीटजुष्टं
अप्युत्तमाङ्गं न नमेन्मुकुंदम् ।
शावौ करौ नो कुरुते सपर्यां
हरेर्लसत्काञ्चनकङ्कणौ वा ॥२१॥
बर्हायिते ते नयनेनराणां
लिङ्गानि विष्णोर्ननिरीक्षतोये ।
पादौ नृणां तौ द्रुमजन्मभाजौ
क्षेत्राणि ना नुव्रजतो हरेर्यौ ॥२२॥
जीवन्शवो भागवताङ्घ्रिरेणुं
न जातु मर्त्योऽभिलभेत यस्तु ।
श्रीविष्णुपद्या मनुजस्तुलस्याः
श्वसन् शवो यस्तु न वेद गन्धम् ॥२३॥
तदश्मसारं हृदयं बतेदं
यद्गृह्यमाणैर्हरिनामधेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्षः ॥ २४ ॥
अथा भिधेह्यङ्ग मनोऽनुकूलं
प्रभाषसे भागवतप्रधानः ।
यदाह वैयासकिरात्मविद्या
विशारदो नृपतिं साधु पृष्टः ॥ २५ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे तृतीयोऽध्यायः ॥ ३ ॥
thanks for a lovly feedback