bhagwat chapter 2.4
॥ सूत
उवाच ॥ वैयासकेरिति
वचः
तत्त्वनिश्चयमात्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात्
॥१॥
आत्मजाया
सुतागार
पशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं विरूढां ममतां जहौ
॥
२
॥
पप्रच्छ
चेममेवार्थं
यन्मां
पृच्छथ
सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥३॥
संस्थां
विज्ञाय
सन्न्यस्य
कर्म
त्रैवर्गिकं
च
यत् । वासुदेवे भगवति आत्मभावं दृढं गतः ॥४॥ ॥ राजोवाच ॥ समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ ।तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥५॥
भूय
एव
विवि
त्सामि
भगवान्
आत्ममायया । यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ॥६॥
यथा गोपायति विभुः यथा संयच्छते पुनः । यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् । आत्मानं क्रीडयन्क्रीडन् करोति विकरोति च ॥७॥ नूनं
भगवतो
ब्रह्मन्
हरेरद्भुतकर्मणः । दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम्
॥८॥
यथा
गुणांस्तु
प्रकृतेः
युगपत्
क्रमशोऽपि
वा । बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः
॥९॥ विचिकित्सितमेतन्मे
ब्रवीतु
भगवान्
यथा । शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु
॥१०॥ ॥ सूत
उवाच ॥ इत्युपामंत्रितो
राज्ञा
गुणानुकथने
हरेः । हृषीकेशं अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे
॥
१
१
॥
॥ श्रीशुक
उवाच ॥ नमः परस्मै पुरुषाय
भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्ति त्रितयाय देहिनां अंतर्भवायानुपलक्ष्यवर्त्मने ॥१२॥
भूयो
नमः
सद्वृजिनच्छिदेऽसतां असंभवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे
॥१३॥
नमो
नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय
मुहुः
कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥१४॥
यत्कीर्तनं
यत्स्मरणं
यदीक्षणं यद्वंदनं
यच्छ्रवणं यदर्हणम् । लोकस्य
सद्यो
विधुनोति
कल्मषं तस्मै
सुभद्रश्रवसे
नमो
नमः
॥१५॥
विचक्षणा
यच्चरणोपसादनात् सङ्गं
व्युदस्योभयतोऽन्तरात्मनः । विन्दन्ति हि ब्रह्मगतिं गतक्लमाः तस्मै सुभद्रश्रवसे नमो नमः ॥१६॥
तपस्विनो दानपरा
यशस्विनो मनस्विनो
मंत्रविदः
सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥१७॥
किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरकङ्का
यवनाः
खसादयः । येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥१८॥
स
एष
आत्मात्मवतामधीश्वरः त्रयी
मयो
धर्ममयस्तपो
मयः । गतव्यलीकैरजशङ्करादिभिः वितर्क्यलिङ्गो भगवान्प्रसीदताम्
॥१९॥
श्रियः
पतिर्यज्ञपतिः
प्रजापतिः धियां
पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णि सात्वतां प्रसीदतां मे भगवान् सतां पतिः
॥२०॥ यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति
हि
तत्त्वमात्मनः । वदन्ति चैतत् कवयो यथा रुचं स मे मुकुंदो भगवान् प्रसीदताम्
॥२१॥
प्रचोदिता
येन
पुरा सरस्वती वितन्वताऽजस्य
सतीं
स्मृतिं
हृदि । स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणां ऋषभः प्रसीदताम् ॥२२॥
भूतैर्महद्भिर्य
इमाः
पुरो
विभुः निर्माय शेते यदमूषुपूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान्
वचांसि
मे
॥२३॥
नमस्तस्मै
भगवते
वासुदेवाय
वेधसे । पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम्
॥२४॥
एतद्
एवात्मभू राजन्
नारदाय
विपृच्छते । वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः
॥२५॥
इति
श्रीमद्भागवते
महापुराणे
पारमहंस्यां
संहितायां द्वितीयस्कंधे
चतुर्थोऽध्यायः
॥४॥
॥ सूत
उवाच ॥
वैयासकेरिति
वचः
तत्त्वनिश्चयमात्मनः ।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात्
॥१॥
आत्मजाया
सुतागार
पशुद्रविणबन्धुषु ।
राज्ये चाविकले नित्यं विरूढां ममतां जहौ
॥
२
॥
पप्रच्छ
चेममेवार्थं
यन्मां
पृच्छथ
सत्तमाः ।
कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥३॥
संस्थां
विज्ञाय
सन्न्यस्य
कर्म
त्रैवर्गिकं
च
यत् ।
वासुदेवे भगवति आत्मभावं दृढं गतः ॥४॥
॥ राजोवाच ॥
समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ ।
तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥५॥
भूय
एव
विवि
त्सामि
भगवान्
आत्ममायया ।
यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ॥६॥
यथा गोपायति विभुः यथा संयच्छते पुनः ।
यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् ।
आत्मानं क्रीडयन्क्रीडन् करोति विकरोति च ॥७॥
नूनं
भगवतो
ब्रह्मन्
हरेरद्भुतकर्मणः ।
दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम्
॥८॥
यथा
गुणांस्तु
प्रकृतेः
युगपत्
क्रमशोऽपि
वा ।
बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः
॥९॥
विचिकित्सितमेतन्मे
ब्रवीतु
भगवान्
यथा ।
शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु
॥१०॥
॥ सूत
उवाच ॥
इत्युपामंत्रितो
राज्ञा
गुणानुकथने
हरेः ।
हृषीकेशं अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे
॥
१
१
॥
॥ श्रीशुक
उवाच ॥
नमः परस्मै पुरुषाय
भूयसे
सदुद्भवस्थाननिरोधलीलया ।
गृहीतशक्ति त्रितयाय देहिनां
अंतर्भवायानुपलक्ष्यवर्त्मने ॥१२॥
भूयो
नमः
सद्वृजिनच्छिदेऽसतां
असंभवायाखिलसत्त्वमूर्तये ।
पुंसां पुनः पारमहंस्य आश्रमे
व्यवस्थितानामनुमृग्यदाशुषे
॥१३॥
नमो
नमस्तेऽस्त्वृषभाय सात्वतां
विदूरकाष्ठाय
मुहुः
कुयोगिनाम् ।
निरस्तसाम्यातिशयेन राधसा
स्वधामनि ब्रह्मणि रंस्यते नमः ॥१४॥
यत्कीर्तनं
यत्स्मरणं
यदीक्षणं
यद्वंदनं
यच्छ्रवणं यदर्हणम् ।
लोकस्य
सद्यो
विधुनोति
कल्मषं
तस्मै
सुभद्रश्रवसे
नमो
नमः
॥१५॥
विचक्षणा
यच्चरणोपसादनात्
सङ्गं
व्युदस्योभयतोऽन्तरात्मनः ।
विन्दन्ति हि ब्रह्मगतिं गतक्लमाः
तस्मै सुभद्रश्रवसे नमो नमः ॥१६॥
तपस्विनो दानपरा
यशस्विनो
मनस्विनो
मंत्रविदः
सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यदर्पणं
तस्मै सुभद्रश्रवसे नमो नमः ॥१७॥
किरातहूणान्ध्रपुलिन्दपुल्कशा
आभीरकङ्का
यवनाः
खसादयः ।
येऽन्ये च पापा यदपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥१८॥
स
एष
आत्मात्मवतामधीश्वरः
त्रयी
मयो
धर्ममयस्तपो
मयः ।
गतव्यलीकैरजशङ्करादिभिः
वितर्क्यलिङ्गो भगवान्प्रसीदताम्
॥१९॥
श्रियः
पतिर्यज्ञपतिः
प्रजापतिः
धियां
पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णि सात्वतां
प्रसीदतां मे भगवान् सतां पतिः
॥२०॥
यदङ्घ्र्यभिध्यानसमाधिधौतया
धियानुपश्यन्ति
हि
तत्त्वमात्मनः ।
वदन्ति चैतत् कवयो यथा रुचं
स मे मुकुंदो भगवान् प्रसीदताम्
॥२१॥
प्रचोदिता
येन
पुरा सरस्वती
वितन्वताऽजस्य
सतीं
स्मृतिं
हृदि ।
स्वलक्षणा प्रादुरभूत् किलास्यतः
स मे ऋषीणां ऋषभः प्रसीदताम् ॥२२॥
भूतैर्महद्भिर्य
इमाः
पुरो
विभुः
निर्माय शेते यदमूषुपूरुषः ।
भुङ्क्ते गुणान् षोडश षोडशात्मकः
सोऽलङ्कृषीष्ट भगवान्
वचांसि
मे
॥२३॥
नमस्तस्मै
भगवते
वासुदेवाय
वेधसे ।
पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम्
॥२४॥
एतद्
एवात्मभू राजन्
नारदाय
विपृच्छते ।
वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः
॥२५॥
इति
श्रीमद्भागवते
महापुराणे
पारमहंस्यां
संहितायां
द्वितीयस्कंधे
चतुर्थोऽध्यायः
॥४॥
thanks for a lovly feedback