NCERT Sanskrit Class 10 Manika Chapter 4 – आज्ञा गुरूणां हि अविचारणीया | Exercise Solutions & Notes

Sooraj Krishna Shastri
By -
0

NCERT Sanskrit Class 10 ‘Manika’ Chapter 4 – आज्ञा गुरूणां हि अविचारणीया: एकपद, पूर्णवाक्य, प्रश्न-निर्माण, रेखांकित पद विग्रह, विशेषण-विशेष्य मिलान और vocabulary सहित complete solutions। Exam-friendly और structured notes।

NCERT Sanskrit Class 10 Manika Chapter 4 – आज्ञा गुरूणां हि अविचारणीया | Exercise Solutions & Notes


📘 Chapter 4 – आज्ञा गुरूणां हि अविचारणीया

अभ्यासः – प्रश्नोत्तरम्


1. एकपदेन संस्कृतभाषया उत्तरत

(क) राजपुत्राः प्रासादे कैः सह क्रीडन्ति स्म ?
उत्तर – वानरैः |

(ख) राजगृहे कीदृशं मेषयूथम् आसीत ?
उत्तर – बालवाहनयोग्यम् |

(ग) जिह्वालोलुपतया मेषः कुत्र प्रविशति स्म ?
उत्तर – महानसम् |

(घ) के पाकशालां प्रविष्टं मेषं ताडयन्ति स्म ?
उत्तर – सूपकाराः |

(ङ) केन जाज्वल्यमानशरीरः मेषः अश्वशालां प्रविशति ?
उत्तर – वह्निना |

(च) मेषस्य क्षितौ प्रलुठतः तृणेषु काः समुत्थिताः ?
उत्तर – वह्निज्वालाः |

(छ) किमर्थम् अश्वाः इतस्ततः अधावन् ?
उत्तर – प्राणत्राणाय |

(ज) केषां वह्निदोषः कपीनां मेदसा शाम्यति ?
उत्तर – अश्वानाम् |

(झ) कस्य आदेशं श्रुत्वा सर्वे कपयः भयत्रस्ताः जाताः ?
उत्तर – राज्ञः |

(ञ) केषाम् आज्ञा अविचारणीया भवति ?
उत्तर – गुरूणाम् |


2. पूर्णवाक्येन उत्तरत

(क) जिह्वालोलुपतया मेषः अहर्निशं किं करोति स्म ?
उत्तर – जिह्वालोलुपतया मेषः अहर्निशं महानसं प्रविश्य यद् पश्यति तत् भक्षयति स्म |

(ख) सूपकाराः मेषं कैः वस्तुभिः ताडयन्ति स्म ?
उत्तर – सूपकाराः मेषं काष्ठं, मृण्मयं भाजनं, कास्यं ताम्रपात्रं वा यत् पश्यन्ति तेन तं ताडयन्ति स्म |

(ग) मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः किम् अचिन्तयत् ?
उत्तर – मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः अचिन्तयत् – ‘एतेषां कलहो न वानराणां हिताय’ इति |

(घ) मदोद्धताः कपयः वानरयूथपतिं किम् अवदन् ?
उत्तर – ‘न वयं स्वर्गसमानोपभोगान् विहाय अटव्यां क्षारतिक्त-कषाय-कटु-रूक्षफलानि भक्षयिष्यामः’ इति अवदन् |

(ङ) सविषादः राजा वैद्यान् आहूय किम् अकथयत् ?
उत्तर – राजा वैद्यान् – ‘हा ! दग्धाः मे घोटकाः कथं रक्षणीयाः ? सपदि उपायः क्रियताम् |’ इति अकथयत् |

(च) राजादेशं श्रुत्वा भयत्रस्ताः कपयः किम् अचिन्तयन् ?
उत्तर – राजादेशं श्रुत्वा ‘हा ! हताः वयम् | अवधीरिताः अस्माभिः गुरुजनोपदेशाः |’ इति अकथयन् |

(छ) केषाम् उपदेशाः नैव अवधीरणीयाः ?
उत्तर – गुरूणाम् उपदेशाः नैव अवधीरणीयाः |

(ज) नरः कीदृशं गृहं दूरतः परिवर्जयेत् ?
उत्तर – यत्र गृहे नित्यम् अकारणः कलहः भवति तादृशं गृहं दूरतः परिवर्जयेत् |

NCERT Sanskrit Class 10 Manika Chapter 4 – आज्ञा गुरूणां हि अविचारणीया | Exercise Solutions & Notes
NCERT Sanskrit Class 10 Manika Chapter 4 – आज्ञा गुरूणां हि अविचारणीया | Exercise Solutions & Notes


3.अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणम्

क्रमांक कथनम् प्रश्नम्
(क) अश्वाः प्राणत्राणाय इतस्ततः अधावन् । किमर्थम् अश्वाः इतस्ततः अधावन्?
(ख) राजा वैद्यान् आहूय अश्वरक्षार्थम् अपृच्छत् । कान् राजा आहूय अश्वरक्षार्थम् अपृच्छत्?
(ग) सूपकारेण मेषः अर्धज्वलितकाष्ठेन ताडितः । केन मेषः अर्धज्वलितकाष्ठेन ताडितः?
(घ) प्राज्ञः कलहयुक्तं गृहं दूरतः परिवर्जयेत् । कः कलहयुक्तं गृहं दूरतः परिवर्जयेत्?
(ङ) सूर्योदये तमः नश्यति । किं सूर्योदये नश्यति?
(च) ज्वलन् मेषः अश्वशालां प्रविशति । कुत्र ज्वलन् मेषः प्रविशति?

📘 4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत

क्रमांक प्रश्न उत्तर
(क) ‘कस्मिंश्चित् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म।’ अत्र क्रियापदं किम्? प्रतिवसति स्म
(ख) ‘एवं विचार्य सः यूथपः सर्वान् कपीन् आहूय रहसि अवदत्।’ अत्र ‘कपीन्’ पदस्य किं विशेषणपदं? सर्वान्
(ग) ‘मदोद्धताः कपयः प्रहस्य अवदन्।’ अस्मिन् वाक्ये कर्तृपदं किम्? कपयः
(घ) ‘हा दग्धाः मे घोटकाः कथं रक्षणीयाः?’—अत्र ‘अश्वाः’ इत्यर्थे किं पदं प्रयुक्तम्? घोटकाः
(ङ) ‘मेषः महानसं प्रविश्य यत् पश्यति तद् भक्षयति।’—अत्र ‘निर्गत्य’ पदस्य विलोमपदं किम्? प्रविश्य
(च) ‘ज्वालमालाकुलाः’ पदस्य विशेष्यपदं पाठात् चित्वा लिखत। अश्वाः


📘5. 'क' स्तम्भे विशेषणपदानि 'ख' स्तम्भे च विशेष्यपदानि दत्तानि, तेषां समुचितमेलनं कृत्वा लिखत

क्रमांक ‘क’ स्तम्भः (विशेषणपद) ‘ख’ स्तम्भः (विशेष्यपद) समुचित मेल (सही युग्म)
(क) कुवाक्यान्तम् मेषः सौहृदम्
(ख) मदोद्धताः यशः कपयः
(ग) ऊर्णाप्रचुरः हर्म्याणि मेषः
(घ) कुराजान्तानि यूथपतिः राष्ट्राणि
(ङ) मृण्मयम् कपयः भाजनम्
(च) कलहान्तानि राष्ट्राणि हर्म्याणि
(छ) साश्रुनयनः सौहृदम् यूथपतिः
(ज) कुकर्मान्तम् भाजनम् यशः

📘 6. सर्वनामपदानि एवं रिक्तस्थान-पूर्ति — 


(अ) स्थूलाक्षरित सर्वनाम — ‘कस्मै’ प्रयुक्तम्?

क्रम कथन प्रयुक्त सर्वनाम का उत्तर
उदाहरण अस्माकं विनाशकारकः भविष्यति। वानरेभ्यः
(क) तस्य पुत्राः वानरैः सह क्रीडन्ति स्म । भूपतये (चन्द्राय)
(ख) एतेषां कलहः न वानराणां हिताय । मेषाय सूपकारेभ्यः च
(ग) सर्वेषां संक्षयः न भवेत् । वानरेभ्यः
(घ) वयम् अटव्यां रूक्षफलानि नैव भक्षयिष्यामः । वानरेभ्यः
(ङ) अहं तु वनं गच्छामि। वानरयूथपतये
(च) हा! दग्धा मे घोटकाः । भूपतये (चन्द्राय)
(छ) अवधीरिताः अस्माभिः गुरुजनोपदेशाः । वानरेभ्यः
(ज) यूयम् अस्य कुपरिणामं न जानीथ। वानरेभ्यः

(आ) कोष्ठकात् समुचितं पदं चुनकर रिक्तस्थान-पूर्ति

क्रम मूल वाक्य विकल्प (कोष्ठक) उत्तर
(क) नगरे चन्द्रः भूपतिः प्रतिवसति स्म । (कस्याञ्चित् / कस्मिंश्चित्) कस्मिंश्चित्
(ख) एव राजगृहे मेषयूथम् अपि आसीत् । (तस्य / तस्मिन्) तस्मिन्
(ग) अहनि स मेषः महानसं प्रविशति । (अन्यस्मिन् / पूर्वस्मिन्) अन्यस्मिन्
(घ) क्षितौ प्रलुठतः तृणेषु अग्निज्वालाः समुत्थिताः । (तस्याः / तस्य) तस्य
(ङ) भयत्रस्ताः कपयः अचिन्तयन्। (सर्वाः / सर्वे) सर्वे


📘  7. घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि 

क्रमांक प्रश्न (वाक्य) उत्तर (घटनाक्रमानुसार पुनर्लेखन)
(क) सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा वानरयूथपः वानरान् राजभवनं त्यक्तुम् अकथयत् । (ग) भूपतेः चन्द्रस्य पुत्राः वानरान् भोज्यपदार्थैः पुष्टिं नयन्ति स्म ।
(ख) राजा राजवैद्यम् आहूय अश्वरक्षायै न्यवेदयत् । (छ) राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया महानसं प्रविश्य भोजनं खादति स्म ।
(ग) भूपतेः चन्द्रस्य पुत्राः वानरान् भोज्यपदार्थैः पुष्टिं नयन्ति स्म। (क) सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा वानरयूथपः वानरान् राजभवनं त्यक्तुम् अकथयत् ।
(घ) ज्वलन् स मेषः अश्वशालां प्रविष्टः। परिणामतः दग्धाः अश्वाः प्राणत्राणाय अधावन्। (ज) रसनास्वादलुब्धाः मदोद्धताः मर्कटाः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः ।
(ङ) भयत्रस्ता कपयः गुरुजनोपदेशस्य अवधीरणातः पश्चात्तापं कृतवन्तः । (च) अन्यस्मिन् अहनि स मेषः सूपकारेण अर्धज्वलितकाष्ठेन ताडितः ।
(च) अन्यस्मिन् अहनि स मेषः सूपकारेण अर्धज्वलितकाष्ठेन ताडितः । (घ) ज्वलन् स मेषः अश्वशालां प्रविष्टः । परिणामतः दग्धाः अश्वाः प्राणत्राणाय अधावन् ।
(छ) राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया महानसं प्रविश्य भोजनं खादति स्म। (ख) राजा राजवैद्यम् आहूय अश्वरक्षायै न्यवेदयत् ।
(ज) रसनास्वादलुब्धाः मदोद्धताः मर्कटाः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः । (ङ) भयत्रस्ता कपयः गुरुजनोपदेशस्य अवधीरणातः पश्चात्तापं कृतवन्तः ।


📘 8. अधः समस्तपदानां विग्रहाः दत्ताः। उदाहरणम् अनुसृत्य समस्तपदानि लिखत-

क्रमांक विग्रहः समस्तपदानि समासभेदः
(क) मेषाणां मध्ये मेषमध्ये षष्ठीतत्पुरुषः
(ख) वानराणां हिताय वानरहिताय षष्ठीतत्पुरुषः
(ग) प्राणानां त्राणाय प्राणत्राणाय षष्ठीतत्पुरुषः
(घ) कपीनां मेदसा कपिमेदसा षष्ठीतत्पुरुषः
(ङ) राज्ञः आदेशम् राजादेशः षष्ठीतत्पुरुषः
(च) जिह्वायाः लोलुपतया जिह्वालोलुपतया षष्ठीतत्पुरुषः
(छ) अश्वानां नाशः अश्वनाशः षष्ठीतत्पुरुषः
(ज) यूथस्य पतिः यूथपतिः षष्ठीतत्पुरुषः


📘9. अधः मञ्जूषायां प्रत्येकशब्दस्य त्रीणि समानार्थकानि पदानि दत्तानि तानि चित्राणां समक्षं लिखत

क्रमांक मुख्य शब्द समानार्थक पदानि (३-३)
1 वानरः वानरः — कपिः — मर्कटः
2 अग्निः अग्निः — वह्निः — अनलः
3 भूपतिः भूपतिः — राजा — नृपः
4 सूपकारः सूपकारः — औदनिकः — पाचकः
5 घोटकः घोटकः — अश्वः — हयः

📘 10. अधोलिखितानां पङ्क्तीनां शुद्धं भावार्थं (✔) चिह्नेन चिह्नीक्रियताम्

क्र.सं. पंक्ति विकल्प
1 ‘एतेषां कलहो न वानराणां हिताय’ अर्थात् (I) मेषस्य सूपकारैः सह दैनन्दिनः कलहः वानराणां विनाशकारणं भविष्यति ।
(II) एतेषां वानराणां पारस्परिकः विवादः जनानां हिताय न अस्ति।
(III) वानरेभ्यः हितकरम् एतत् यत् ते जनैः सह कलहं न कुर्युः ।
2 ‘तद्गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत्’ अर्थात् (I) यस्मिन् गृहे महान् कोलाहलः वर्तते, धनम् इच्छन् नरः तस्मात् दूरे गृहनिर्माणं कुर्यात् ।
(II) यत्र गृहे नित्यं सुखमयं जीवनम् अस्ति तद्गृहं दूरतः अपि न परिवर्जितव्यम्, तत्रैव वस्तव्यम् ।
(III) यस्मिन् गृहे नित्यं विवादः भवति, नरः सुखेन जीवितुम् तत् गृहं कदापि न प्रविशेत्, तद् दूरतः एव परिवर्जयेत् ।
3 ‘रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणामं न जानीथ’ अर्थात् (I) जिह्वास्वादलोभेन मेषः महानसप्रवेशस्य दुष्परिणामं न जानाति, अतः अवश्यमेव दण्डं प्राप्स्यति ।
(II) यूयं सर्वे वानराः जिह्वास्वादवशाः लोलुपाः, अतः अस्य क्षणिकसुखस्य दुष्परिणामं न अवगच्छथ यत् अनेन युष्माकं विनाशः भविष्यति ।
(III) रसनास्वादेन लुब्धाः जनाः लोभस्य दुरन्तं न जानन्ति । तेषां लोभवृत्तिः तेभ्यः विनाशकारिणी भविष्यति ।
4 ‘हा हन्त! वयम् अवधीरिताः अस्माभिः गुरुजनोपदेशाः’ अर्थात् (I) घोटकाः चिन्तयन्ति — ‘अस्माभिः स्वस्वामिनः आज्ञापालनं न कृतम् अतः वयं दग्धाः ।’
(II) सूपकाराः दुःखिनः भवन्ति — ‘स्वराजादेशस्य पालनं न कृतम् अस्माभिः अतः वयं दण्डिताः भविष्यामः ।’
(III) वानराः पश्चात्तापं कुर्वन्ति — ‘स्वगुरुजनस्य यूथपतेः उपदेशानाम् अस्माभिः अवहेलना कृता अतः वयं विनाशोन्मुखाः ।’

✔ सम्यक् उत्तराणि

  1. मेषस्य सूपकारैः सह दैनन्दिनः कलहः वानराणां विनाशकारणं भविष्यति ।
  2. यस्मिन् गृहे नित्यं विवादः भवति, नरः सुखेन जीवितुम् तत् गृहं कदापि न प्रविशेत्, तद् दूरतः एव परिवर्जयेत् ।
  3. यूयं सर्वे वानराः जिह्वास्वादवशाः लोलुपाः, अतः अस्य क्षणिकसुखस्य दुष्परिणामं न अवगच्छथ यत् अनेन युष्माकं विनाशः भविष्यति ।
  4. वानराः पश्चात्तापं कुर्वन्ति — ‘स्वगुरुजनस्य यूथपतेः उपदेशानाम् अस्माभिः अवहेलना कृता अतः वयं विनाशोन्मुखाः ।’

📘 11. स्थूलाक्षरपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं लिखत

क्र.सं. पंक्ति विकल्प ✔ सही उत्तर
(क) मेषः महानसं प्रविश्य यत् पश्यति तद् भक्षयति । (i) हयशालाम्
(ii) मन्दिरम्
(iii) पाकशालाम्
पाकशालाम्
(ख) कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । (i) राजभवनानि
(ii) उद्यानानि
(iii) मन्दिराणि
राजभवनानि
(ग) अन्यस्मिन् अहनि महानसं प्रविष्टः मेषः सूपकारेण ताडितः । (i) रात्रौ
(ii) मार्गे
(iii) दिवसे
दिवसे
(घ) तस्य क्षितौ प्रलुठतः तृणेषु वह्निज्वालाः समुत्थिताः । (i) मार्गे
(ii) भूमौ
(iii) पाकशालायाम्
भूमौ
(ङ) सपदि उपायः क्रियताम् । (i) एकपदेन
(ii) पादेन सह
(iii) झटिति
झटिति

📘 12. रेखाङ्कितपदानां समस्तपदं विग्रह

क्र.सं. पंक्ति समस्तपद / विग्रह ✔ सही उत्तर
(क) कस्मिंश्चित् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म। भुवः + पतिः भुवः + पतिः
(ख) राजपुत्राः वानरक्रीडारताः वानराणां यूथः, तम् नित्यमेव पुष्टिं नयन्ति स्म । वानरयूथः वानरयूथः
(ग) तेषां मेषाणां मध्ये एकः मेषः जिह्वालोलुपः आसीत् । मेषमध्ये मेषमध्ये
(घ) एकः मेषः जिह्वालोलुपतया महानसं प्रविशति स्म । जिह्वायाः लोलुपतया जिह्वायाः लोलुपतया
(ङ) एतद् राज्ञः भवनं परित्यज्य वनं गच्छामः । राजभवनम् राजभवनम्
(च) जाज्वल्यमानं शरीरं यस्य सः मेषः अश्वशालां प्रविशति जाज्वल्यमानशरीरः जाज्वल्यमानशरीरः

NCERT Sanskrit Class 10

Manika Chapter 4 Solutions

आज्ञा गुरूणां हि अविचारणीया

Class 10 Sanskrit Chapter 4

NCERT Sanskrit Exercises Solutions

Sanskrit Class 10 Manika Chapter 4 Notes

Manika Chapter 4 One-word & Full-sentence Answers

Sanskrit T04 Exercise Solutions Class 10

Class 10 Sanskrit Grammar & Vocabulary Notes

NCERT Sanskrit Manika Chapter 4 PDF Notes

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!