सत्यं शिवं सुन्दरं संस्कृतम्
कक्षा 9 'शारदा' - श्लोक एवं भावार्थ
॥ श्लोक १ ॥
सर्वदानन्दसन्दोहदं संस्कृतम् ॥ १ ॥
भारतीयैकतासाधकं संस्कृतम्
भारतीयत्वसम्पादकं संस्कृतम्
ज्ञानपुञ्जप्रभादर्शकं संस्कृतम्
भारतीयैकतासाधकं संस्कृतम्
भारतीयत्वसम्पादकं संस्कृतम्
ज्ञानपुञ्जप्रभादर्शकं संस्कृतम्
संस्कृत भावार्थ:
संस्कृतभाषा भारतीयानाम् ऐक्यं साधयति, भारतीयत्वं सम्पादयति, ज्ञानसमूहस्य प्रभां दर्शयति, सर्वदा आनन्दस्य परम्परामेव जनयति च ।
हिंदी भावार्थ:
संस्कृत भाषा भारतीयों में एकता लाती है, भारतीयता की भावना को सिद्ध करती है, ज्ञान के समूह का प्रकाश दिखाती है, और हमेशा आनंद की परम्परा उत्पन्न करती है।
॥ श्लोक २ ॥
सर्वमस्तिष्कसंस्कारकं संस्कृतम्
सर्ववाणीपरिष्कारकं संस्कृतम्
सत्पथप्रेरणादायकं संस्कृतम्
सद्गुणग्रामसन्धायकं संस्कृतम् ॥ २ ॥
सर्ववाणीपरिष्कारकं संस्कृतम्
सत्पथप्रेरणादायकं संस्कृतम्
सद्गुणग्रामसन्धायकं संस्कृतम् ॥ २ ॥
संस्कृत भावार्थ:
संस्कृतं सर्वेषां जनानां मानसं शोधयति, वचनानि परिष्करोति, सन्मार्गं दर्शयति, सद्गुणानां समूहमेव उत्पादयति ।
हिंदी भावार्थ:
संस्कृत सभी लोगों के मस्तिष्क (मन) को शुद्ध करती है, सभी की वाणी को परिष्कृत (शुद्ध/मधुर) करती है, सत्य के मार्ग पर चलने की प्रेरणा देती है, और अच्छे गुणों का समूह उत्पन्न करती है।
॥ श्लोक ३ ॥
विश्वबन्धुत्वविस्तारकं संस्कृतम्
सर्वभूतैकताकारकं संस्कृतम्
सर्वतः शान्तिसंस्थापकं संस्कृतम्
पञ्चशीलप्रतिष्ठापकं संस्कृतम् ॥ ३ ॥
सर्वभूतैकताकारकं संस्कृतम्
सर्वतः शान्तिसंस्थापकं संस्कृतम्
पञ्चशीलप्रतिष्ठापकं संस्कृतम् ॥ ३ ॥
संस्कृत भावार्थ:
संस्कृतं विश्वबन्धुत्वं वर्धयति, सर्वेषां प्राणिनामपि ऐक्यं बोधयति, सर्वत्रापि शान्तिं प्रतिष्ठापयति, प्रसिद्धानां पञ्चानां शीलानां रीतिं गमयति ।
हिंदी भावार्थ:
संस्कृत विश्वबंधुत्व (वैश्विक भाईचारे) को बढ़ाती है, सभी प्राणियों में एकता का बोध कराती है, सब जगह शांति की स्थापना करती है, और प्रसिद्ध पंचशील (सदाचरण के पांच सिद्धांत) के मार्ग को स्थापित करती है।
॥ श्लोक ४ ॥
त्यागसन्तोषसेवाव्रतं संस्कृतम्
विश्वकल्याणनिष्ठायुतं संस्कृतम्
ज्ञानविज्ञानसम्मेलनं संस्कृतम्
भुक्तिमुक्तिद्वयोद्वेलनं संस्कृतम् ॥ ४ ॥
विश्वकल्याणनिष्ठायुतं संस्कृतम्
ज्ञानविज्ञानसम्मेलनं संस्कृतम्
भुक्तिमुक्तिद्वयोद्वेलनं संस्कृतम् ॥ ४ ॥
संस्कृत भावार्थ:
त्यागस्य, हर्षस्य, सेवाबुद्धेश्च व्रतं, प्रपञ्चस्य मङ्गलमेव कर्तव्यम् इति ज्ञानं, विज्ञानञ्च सङ्गमनीयम् इति विचारः, भोगस्य मोक्षस्य च मार्गः च संस्कृतेन लभ्यः ।
हिंदी भावार्थ:
संस्कृत में त्याग, संतोष (हर्ष) और सेवा का व्रत है। यह विश्व के कल्याण की निष्ठा से युक्त है। इसमें ज्ञान और विज्ञान का अनोखा संगम है, और यह भोग तथा मोक्ष दोनों के मार्गों को प्रशस्त (उजागर) करने वाली है।
॥ श्लोक ५ ॥
धर्मकामार्थमोक्षप्रदं संस्कृतम्
ऐहिकामुष्मिकोत्कर्षदं संस्कृतम्
कर्मदं ज्ञानदं भक्तिदं संस्कृतम्
सत्यनिष्ठं शिवं सुन्दरं संस्कृतम् ॥ ५ ॥
ऐहिकामुष्मिकोत्कर्षदं संस्कृतम्
कर्मदं ज्ञानदं भक्तिदं संस्कृतम्
सत्यनिष्ठं शिवं सुन्दरं संस्कृतम् ॥ ५ ॥
संस्कृत भावार्थ:
इहलोके परलोके च संस्कृतेन उत्कर्षः लभ्यते। धर्मस्य, कामानाम्, अर्थस्य, मोक्षस्यापि साधनानि संस्कृतेन लभ्यन्ते। भक्तिम् आचरितुं ज्ञानं प्राप्तुं कर्म कर्तुं च संस्कृतं साधनम्। अतः संस्कृतं सत्यं शिवं सुन्दरं च अस्ति।
हिंदी भावार्थ:
संस्कृत के द्वारा इस लोक (संसार) और परलोक दोनों में उन्नति प्राप्त होती है। धर्म, अर्थ, काम और मोक्ष के साधन भी संस्कृत से ही प्राप्त होते हैं। भक्ति का आचरण करने, ज्ञान प्राप्त करने और कर्म करने का साधन संस्कृत ही है। इसलिए संस्कृत सत्यनिष्ठ, शिव (कल्याणकारी) और सुंदर है।
॥ श्लोक ६ ॥
शब्दलालित्यलीलावनं संस्कृतम्
चारुमाधुर्यधारागृहं संस्कृतम्
विश्वचेतश्चमत्कारकं संस्कृतम्
पूर्वजानां यशः स्मारकं संस्कृतम् ॥ ६ ॥
चारुमाधुर्यधारागृहं संस्कृतम्
विश्वचेतश्चमत्कारकं संस्कृतम्
पूर्वजानां यशः स्मारकं संस्कृतम् ॥ ६ ॥
संस्कृत भावार्थ:
ललितपद्यानि संस्कृतवने वृक्षाः इव सन्ति । अन्वेषकस्य संस्कृतं माधुर्यस्य सौन्दर्यस्य शीतलगृहमिव आह्लादकम् अस्ति। संस्कृतस्य श्रवणेन अखिलस्यापि प्रपञ्चस्य जनाः चमत्कारं लभन्ते। अत एव एतादृशं संस्कृतम् अस्माकं भारतीयानां पूर्वजैः सम्पादितस्य कीर्तिराशेः द्योतकम् अस्ति।
हिंदी भावार्थ:
संस्कृत के सुंदर शब्द इसके वन में वृक्षों की तरह क्रीड़ा करते हैं। ज्ञान खोजने वाले के लिए संस्कृत मधुरता और सुंदरता के शीतल घर के समान आनंददायक है। संस्कृत को सुनकर सम्पूर्ण विश्व के लोगों का मन आश्चर्य और आनंद से भर जाता है। इसलिए ऐसी संस्कृत हमारे पूर्वजों द्वारा अर्जित कीर्ति (यश) की याद दिलाने वाली (स्मारक) है।

