Class 9 Sanskrit Sharda Chapter 5 NCERT Solutions | एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी अभ्यास

Sooraj Krishna Shastri
By -
0

अभ्यासाद् जायते सिद्धिः (सम्पूर्ण प्रश्नोत्तर)

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत

(क) कृतकबुद्धिः का अस्ति ?
उत्तर: यया अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति, चिन्तयन्ति निर्णयं च कुर्वन्ति, सा कृतकबुद्धिः (Artificial Intelligence) अस्ति।
(ख) अध्यापकः कृतकबुद्धेः कानि उदाहरणानि दत्तवान् ?
उत्तर: अध्यापकः चैट-जीपीटी, सिरि, एलेक्सा, गूगल मानचित्रं, जेमिनि, मेटा-कृतकबुद्धिः, परप्लेक्सिटि इत्यादीनि कृतकबुद्धेः उदाहरणानि दत्तवान्।
(ग) यन्त्राणि कथं शिक्ष्यन्ते ?
उत्तर: प्रौद्योगिकीविशारदाः यन्त्राधिगमः (Machine Learning) तथा गहनाधिगमः (Deep Learning) चेति विधिना दत्तांशमाध्यमेन यन्त्राणि प्रशिक्षयन्ति।
(घ) 'डेटासेट्' केषां पाठशाला अस्ति ?
उत्तर: 'डेटासेट्' यन्त्राणां (कृतकबुद्धेः) पाठशाला अस्ति।
(ङ) कृतकबुद्धिः कुत्र प्रयुज्यते ?
उत्तर: शिक्षायां, चिकित्सायां, कृषि-क्षेत्रे, न्यायालये, सञ्चारे, वित्ते, कलासङ्गीतक्षेत्रे मनोरञ्जनादिषु क्षेत्रेषु च कृतकबुद्धिः प्रयुज्यते।
(च) शिक्षायां कृतकबुद्धेः उपयोगः कथं भवति ?
उत्तर: शिक्षायां दीक्षा, स्वयम्, सर्वेषां कृते कृतकबुद्धिः, पी.एम्.-ईविद्या, संशयनिराकरणार्थं चैट्बोट्, भाषानुवादोपकरणानि च प्रयुज्यन्ते, यैः छात्राः स्वयम् अध्येतुं शक्नुवन्ति।
(छ) यदि अशुद्धदत्तांशः दीयते तर्हि का समस्या भवति ?
उत्तर: यदि अशुद्धदत्तांशः (पक्षपातयुक्तः) दीयते तर्हि कृतकबुद्धिः त्रुटिं करोति तथा निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति, यः 'पूर्वग्रहः' इति कथ्यते।
(ज) कृतकबुद्धेः दुरुपयोगेन कीदृशं भयम् अस्ति ?
उत्तर: कृतकबुद्धेः दुरुपयोगेन विभिन्नप्रकारकाः साइबर्-अपराधाः (यथा डीप्-फेक् द्वारा मिथ्याचित्रस्य निर्माणम्) समाजेषु देशेषु च चलन्ति इति भयम् अस्ति।
(झ) 'कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी' इति वाक्यस्य कः अर्थः ?
उत्तर: अस्य अर्थः अस्ति यत् कृतकबुद्धिः अस्माकं सहायिका अस्ति, सा अस्माकं प्रतिस्पर्धिनी न भवेत् न च अस्माकम् उपरि शासनं कुर्यात्।

२. मेलनं कुरुत (तन्त्रांशानां कार्याणि विचिन्त्य यथोचितं विकल्पं चिनुत)

स्तम्भः अ स्तम्भः ब (उत्तरम्)
(क) चैट-जीपीटी (Chat-GPT)४. संवादयन्त्रम्
(ख) डीप्-फेक् (Deepfake)७. मिथ्याचित्रस्य निर्माणम्
(ग) शिक्षकः१. नैतिकतायाः शिक्षां करोति
(घ) एलेक्सा (Alexa)६. गीतं गायति, दीपं प्रकाशितं करोति च
(ङ) डेटासेट् (Dataset)९. यन्त्रपाठशालायाः नाम
(च) दीक्षा (DIKSHA)२. ए.आई. आधारित-शिक्षाप्रणाली
(छ) अपूर्वानुमेय-नियन्त्रणम् (Predictive Policing)१०. अपराधशमनाय प्रयोगः
(ज) गूगल मानचित्रं (Google Maps)३. पथनिर्देशनं करोति
(झ) पूर्वग्रहः५. पक्षपातयुक्तं प्रशिक्षणफलम्
(ञ) डाल-ई (DALL-E)८. चित्रोत्पादनाय ए.आई. अनुप्रयोगः

३. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत

(क) यन्त्राणां शिक्षणाय डेटासेट् नामकः दत्तांशसमूहः उपयुज्यते ।
(ख) चैट-जीपीटी, एलेक्सा, सिरि इत्यादीनि कृतकबुद्धिः इत्यस्य उदाहरणानि सन्ति ।
(ग) यः मनुष्यवत् प्रश्नोत्तरं करोति, सः सम्वादयन्त्रम् इति उच्यते ।
(घ) यदा पक्षपातयुक्तः दत्तांशः प्रयुज्यते तर्हि कृतकबुद्धिः अपि पूर्वाग्रहः करोति ।
(ङ) शिक्षकः सदैव करुणां, विवेकं च शिक्षयन्ति, कृतकबुद्धिः तु तस्य सहायिका अस्ति।
(च) कृतकबुद्धिः यन्त्राणि अभ्यासेन प्रशिक्षणम् प्राप्नुवन्ति ।
(छ) मिथ्याचित्रं, मिथ्यावाणी च यदि कृतकबुद्ध्या निर्मीयते तर्हि सः दोषः डीप-फेक् इति कथ्यते।
(ज) कृषिक्षेत्रे ड्रोनस्य माध्यमेन बीज-वपनं, भूमिक्षमतापरीक्षणं च भवति।
(झ) यदा कृतकबुद्धिः विवेकहीनतया उपयुज्यते तर्हि नैतिकता हानिं प्राप्नोति ।

४. पाठे आगतानां शब्दानाम् आधारेण शब्दजालं

कृतकबुद्धिः, डेटासेट्, गूगल मानचित्रं, डीप्-फेक्, चैट्बोट्, सिरि, एलेक्सा, दीक्षा, जेमिनि।

५. अधोलिखितानि वाक्यानि पठित्वा शुद्धम् (√) अशुद्धं (x) वा चिनुत

वाक्यम्उत्तरम्
(क) आर्यः यशिका च विद्यालये कृतकबुद्धेः उपयोगं कुरुत।शुद्धम् (√)
(ख) कृतकबुद्धिः केवलं विनोदानुकूलम् उपकरणम् अस्ति।अशुद्धम् (x)
(ग) अथर्वः अपि शिक्षायां कृतकबुद्धेः प्रयोगं करोति ।शुद्धम् (√)
(घ) अक्षतः चैट्बोट् इत्यस्य साहाय्येन उपन्यासलेखनं करोति ।अशुद्धम् (x)
(ङ) ए.आइ. डीप्-फेक् इत्यपि कश्चन दुरुपयोगः अस्ति।शुद्धम् (√)
(च) आर्यः चित्रनिर्माणाय कृतकबुद्धेः साहाय्यं प्राप्नोति ।अशुद्धम् (x)
(छ) शिक्षकः गम्भीरतया चैट्बोट् वाक्यानां मूल्याङ्कनं करोति ।शुद्धम् (√)

६. एतत् चित्रम् आधारीकृत्य संस्कृतभाषायां पञ्च वाक्यानि रचयत

१. चित्रे एकः शिक्षकः छात्रान् पाठयति।
२. कक्षायाम् एकं रोबोट्-यन्त्रम् अपि अस्ति।
३. उत्पीठिकायाम् कारयानस्य होलोग्राम्-चित्रं दृश्यते।
४. छात्राः ध्यानपूर्वकं कृतकबुद्धेः विषयं शृण्वन्ति।
५. गवाक्षात् बहिः आकाशे एकं ड्रोन-यन्त्रम् उड्डयते।

७. अधोलिखित-वाक्येषु कर्तृपदं-क्रियापदं च चिनुत

वाक्यम् कर्तृपदम् क्रियापदम्
(क) आर्यः संगणकस्य उपयोगं कुर्वन् आसीत् ।आर्यःआसीत्
(ख) यशिका कृतकबुद्धेः उपयुक्तानाम् उपयोगान् वर्णयति ।यशिकावर्णयति
(ग) शिक्षकः बालेभ्यः सतर्कतायाः आवश्यकतां सूचयति ।शिक्षकःसूचयति
(घ) अथर्वः अपि कस्यचित् रोबोटिक्-यन्त्रस्य ज्ञानं दत्तवान् ।अथर्वःदत्तवान्
(ङ) वेदः अपि कृतकबुद्धेः दोषान् विवेचयति ।वेदःविवेचयति

८. अधोलिखितेषु वाक्येषु विशेषणं विशेष्यं च चिनुत

वाक्यम् विशेषणम् विशेष्यम्
(क) अद्यतनं संगणकयन्त्रम्अद्यतनंसंगणकयन्त्रम्
(ग) यशिकायाः प्रस्तुतिः सुबोधा आसीत् ।सुबोधाप्रस्तुतिः
(घ) शिक्षकस्य सन्देशः सुस्पष्टः आसीत् ।सुस्पष्टःसन्देशः
(ङ) आर्यस्य दृष्टिकोणः आधुनिकः आसीत् ।आधुनिकःदृष्टिकोणः
प्रस्तुति: Sooraj Kumar Tiwari
अधिक जानकारी के लिए विजिट करें: bhagwatdarshan.com

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!