Class 9 Sanskrit Sharda Chapter 3 NCERT Solutions | आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः अभ्यास

Sooraj Krishna Shastri
By -
0

अभ्यासाद् जायते सिद्धिः (सम्पूर्ण प्रश्नोत्तर)

१. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) मातामही कस्य कथां श्रावितवती ?
उत्तर: मातामही महात्मनः नामदेवस्य कथां श्रावितवती।
(ख) नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान् ?
उत्तर: नामदेवस्य गुरुः (विसोबा) तम् अध्यापितवान् यत् 'ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति। अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु' इति।
(ग) नामदेवः कया भावनया धावनं कृतवान् ?
उत्तर: नामदेवः करुणया (शुनकस्य उदरवेदना मा भवतु इति करुणाभावनया) धावनं कृतवान्।
(घ) बालकयोः मुखे किमर्थं म्लाने संजाते ?
उत्तर: अपराधभावनया बालकयोः मुखे म्लाने संजाते।
(ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ ?
उत्तर: कपिलः माधवी च सङ्कल्पं कृतवन्तौ यत् 'अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत्, तथैव कस्यापि या कापि पीडा स्यात् तां निवारयितुं प्रयतामहे' इति।
(च) 'तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ' इति वाक्ये 'तम्' इति सर्वनामशब्दः कस्य कृते प्रयुक्तः ?
उत्तर: 'तम्' इति सर्वनामशब्दः शुनकस्य कृते प्रयुक्तः।
(छ) कपिलः माधवी च कुत्र गतवन्तौ ?
उत्तर: कपिलः माधवी च मातुलगृहं गतवन्तौ।
(ज) 'मातामही तं प्रसङ्ग दृष्टवती, तौ आहूतवती च'। इति वाक्ये 'तौ' इति शब्दः कस्यां विभक्तौ अस्ति ?
उत्तर: 'तौ' इति शब्दः द्वितीयाविभक्तौ (द्विवचने) अस्ति।

२. अधोलिखितानि वाक्यानि भूतकालेन (क्तवतु-प्रत्ययेन) परिवर्त्य पुनः लिखत

(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति ।
उत्तर: नैवेद्यं विग्रहस्य पुरतः स्थापितवान्
(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति ।
उत्तर: नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्
(ग) गुरुः विसोबा तम् अध्यापयति ।
उत्तर: गुरुः विसोबा तम् अध्यापितवान्
(घ) अहं शृणोमि ।
उत्तर: अहं श्रुतवान्/श्रुतवती
(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति ।
उत्तर: सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः
(च) नामदेवः शुनकस्य पृष्ठे अनुधावति।
उत्तर: नामदेवः शुनकस्य पृष्ठे अनुधावितवान्

३. अधोलिखितानि कथनानि कः/का कं/कां च प्रति कथयति इति लिखत

कथनम् कः / का (वक्ता) कं / कां प्रति (श्रोता)
(क) कथां श्रोतुम् इच्छतः वा? मातामही कपिलं माधवीं च प्रति
(ख) अहं श्रुतवती यत्... देवः पाण्डुरङ्गः नृत्यं कृतवान् इति। माधवी मातामहीं प्रति
(ग) किं देवेन सह अपि मित्रता सम्भवति ? कपिलः मातामहीं प्रति
(घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु । विसोबा (गुरुः) नामदेवं प्रति
(ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु। नामदेवः पाण्डुरङ्गं प्रति
(च) धिक् शुनकम्। कपिलः मातामहीं प्रति
(छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु ? माधवी मातामहीं प्रति
(ज) किं घृतपात्रम् आधृत्य ? उभावपि (माधवी कपिलश्च) मातामहीं प्रति
(झ) अद्य अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति इति । कपिलः मातामहीं प्रति
(ञ) उत्तीर्णः भवान् परीक्षाम् । पाण्डुरङ्गः नामदेवं प्रति

४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) देवः नामदेवं परितः भवति स्म।
प्रश्न: कः नामदेवं परितः भवति स्म?
(ख) ईश्वरः सर्वेषु भूतेषु निवसति।
प्रश्न: ईश्वरः केषु (कुत्र) निवसति?
(ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्।
प्रश्न: कः आगत्य मुखे रोटिकां धृत्वा धावितवान्?
(घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान् ।
प्रश्न: शुनकस्य स्थाने कः आविर्भूतवान्?
(ङ) आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ।
प्रश्न: आत्मवत् सर्वभूतेषु कः पश्यति स पण्डितः?

५. घटनाक्रमानुसारं लिखत (Sequence of Events)

शुद्धः क्रमः (Correct Sequence):
  • (च) नामदेवः मन्दिरं गतवान् ।
  • (ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
  • (क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान् ।
  • (घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
  • (ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान् ।
  • (ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान् ।

६. कोष्ठकेषु दत्तानां पदानाम् उचितां (उपपद) विभक्तिं योजयित्वा अनुच्छेदं पूरयत

आगच्छन्तु, पायसं कुर्मः । क्षीरेण (क्षीर) सह तण्डुलाः पक्वाः । शर्करां (शर्करा) विना कथं शक्यते। शीघ्रमेव आपणं (आपण) प्रति गत्वा शर्कराम् आनयतु । आपणं (आपण) निकषा वाहनानि तिष्ठन्ति । शर्करा महानसे स्थापिता। शर्करां (शर्करा) परितः पिपीलिकाः आगताः । पिपीलिकाः अपनीय पायसे शर्करा योजिता। मधुरं (मधुर) विना पायसं रुचिकरं न भवति। अधुना पायसं (पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक् अन्यान् मधुरपदार्थान् (अन्ये मधुरपदार्थाः) इति एकः वदति, तेन (तत्) विना जीवनम् अपूर्णम् इति अपरः । पायसेन (पायस) सह एव भोजनं सरसम् इति अन्यः । तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति ।

७. अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं 'क्तवतु' प्रत्ययान्तरूपं योजयित्वा पुनः लिखत

स्थूलाक्षर क्रियापदम् उचितं 'क्तवतु' रूपम् (उत्तरम्)
अददात् (नदी)दत्तवती
अजीवन् (जनाः)जीवितवन्तः
अकरोत् (कृषकः)कृतवान्
अकुर्वन् (कृषकाः)कृतवन्तः
अपूजयन् (महिलाः)पूजितवत्यः
अक्षिपत् (परिवारः)क्षिप्तवान्
अक्षिपन् (अन्ये)क्षिप्तवन्तः
अभवत् (नदी)भूतवती (जाता)
अम्रियन्त (मीनाः)मृतवन्तः
अभवन् (स्त्रियः)भूतवत्यः
अवदत् (बालिका)उक्तवती
अरोपयत् (सा)रोपितवती
अकुर्वन् (महिलाः)कृतवत्यः
अशोधयन् (ग्रामवासिनः)शोधितवन्तः
अददात् (नदी)दत्तवती
अपूजयन् (जनाः)पूजितवन्तः
अकुर्वन् (जनाः)कृतवन्तः

८. एतेषां समस्तपदानि पाठात् चित्वा लिखत

विग्रहवाक्यम् समस्तपदम्
(क) घृतस्य पात्रम्घृतपात्रम्
(ख) पाषाणस्य खण्डःपाषाणखण्डम्
(ग) प्रियः सुहृद्प्रियसुहृद्
(घ) उदरे वेदनाउदरवेदना
(ङ) स्वीयः व्यवहारःस्वीयव्यवहारः
(च) जीवनस्य मूल्यानिजीवनमूल्यानि
(छ) मातुलस्य गृहम्, तत्मातुलगृहम्
(ज) नरेषु रत्नानि इव, तेषाम्नररत्नानाम्
(झ) स्वीयं कर्तृत्वम्, तेनस्वीयकर्तृत्वेन
(ञ) अपराधस्य भावना, तयाअपराधभावनया
(ट) गुरोः उपदेशः, तम्गुरूपदेशम्
(ठ) दिने दिनेप्रतिदिनम्
(ड) राजा ऋषिः इव, तेषाम्राजर्षीणाम्
प्रस्तुति: Sooraj Kumar Tiwari
अधिक जानकारी के लिए विजिट करें: bhagwatdarshan.com

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!