Class 9 Sanskrit Sharda Chapter 8 NCERT Solutions | अन्नाद् आनन्दं प्रति सम्पूर्ण अभ्यास

Sooraj Krishna Shastri
By -
0

अभ्यासाद् जायते सिद्धिः (सम्पूर्ण प्रश्नोत्तर)

१. एकेन पदेन रिक्तस्थानं पूरयत

(क) अन्नेन शरीरं वर्धते ।
(ख) प्राणे शरीरं प्रतिष्ठितम् ।
(ग) प्राणेन विना शरीरं क्रियाशून्यं भवति।
(घ) अन्नाद् एव इमानि भूतानि जायन्ते।
(ङ) मनसा समस्तानि इन्द्रियाणि सञ्चाल्यन्ते।
(च) बुद्धितत्त्वं विना बोधशक्तेः तर्कशक्तेश्च विकासो न भवति।
(छ) मन एव सर्वकर्मणः प्रवर्तकम् ।

२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत

(क) भृगोः जिज्ञासा कस्मिन् विषये आसीत् ?
उत्तर: भृगोः जिज्ञासा ब्रह्मविषये आसीत्। (किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते)
(ख) भृगुणा ब्रह्मज्ञानाय किम् आचरितम् ?
उत्तर: भृगुणा ब्रह्मज्ञानाय अनेकवर्षाणि तपः आचरितम्।
(ग) भृगुः प्रथमं तपसा ब्रह्मरूपेण किं ज्ञातवान् ?
उत्तर: भृगुः प्रथमं तपसा 'अन्नं वै ब्रह्म' इति ज्ञातवान्।
(घ) मनसः के जायन्ते ?
उत्तर: मनसः सङ्कल्पाः, भावाः, विचाराश्च जायन्ते।
(ङ) प्राणिनः कस्मात् जायन्ते ?
उत्तर: प्राणिनः अन्नाद् (प्राणाद् च) जायन्ते।
(च) इन्द्रियाणि केन सञ्चाल्यन्ते ?
उत्तर: समस्तानि इन्द्रियाणि मनसा सञ्चाल्यन्ते।
(छ) शरीरं कुत्र प्रतिष्ठितम् अस्ति ?
उत्तर: शरीरं प्राणे प्रतिष्ठितम् अस्ति।
(ज) केन विना स्मृतिशक्तेर्विकासो न भवति ?
उत्तर: बुद्धितत्त्वं (विज्ञानं) विना स्मृतिशक्तेर्विकासो न भवति।
(झ) भृगुः तपसा केषां महत्त्वं ज्ञातवान् ?
उत्तर: भृगुः तपसा अन्नस्य, प्राणस्य, मनसः, विज्ञानस्य, आनन्दस्य च महत्त्वं ज्ञातवान्।

३. 'किं सत्यं किम् असत्यम्' इति रिक्तस्थाने पूरयत

वाक्यम्सत्यम् / असत्यम् (उत्तरम्)
(क) प्रस्तुते पाठे पितापुत्रयोः संवादः अस्तिसत्यम्
(ख) अस्मिन् संवादे अन्नस्य महत्त्वं वर्णितम्सत्यम्
(ग) प्राणिनः मनसः जायन्ते इति कथनम् अस्तिअसत्यम्
(घ) अन्नेन शरीरं वर्धते इतिसत्यम्
(ङ) मनः सारथिरूपेण अस्मान् कर्मणि प्रवर्तयतिअसत्यम्
(च) भृगुः वरुणस्य पुत्रोऽस्तिसत्यम्
(छ) भृगुः तपसा मनो ब्रह्मरूपेण ज्ञातवान्सत्यम्
(ज) विना योगे तृतीया विभक्तिर्भवतिसत्यम्

४. क्रियापदेन सह समुचितं पदं योजयत

पदम् समुचितं क्रियापदम् (उत्तरम्)
(क) प्राणिनःजायन्ते
(ख) शरीरम्वर्धते
(ग) तपःक्रियताम् (अथवा कुरुताम्)
(घ) पितरंनिवेदयति (अथवा उपगच्छति)
(ङ) यत्नःक्रियताम्

५. अवशिष्ट-धातुरूपाणि पूरयत (आत्मनेपदम् - लट् लकारः)

एकवचनम् द्विवचनम् बहुवचनम्
वर्ततेवर्तेतेवर्तन्ते

८. कर्तृपदानुसारं लोट्-लकारेण क्रियापदं परिवर्तयत

वाक्यम् परिवर्तितवाक्यम् (लोट्-लकारः)
(क) बालकः अन्नस्य निन्दां न कुरुते ।भवान् अन्नस्य निन्दां न कुरुताम्
(ख) मम जीवने यशो वर्धते ।तव जीवने यशो वर्धताम्
(ग) अहं बौद्धिकविकासाय सदा योगासनं कुर्वे।त्वं बौद्धिकविकासाय सदा योगासनं कुरुष्व
(घ) रमेशः सर्वदा सत्यं भाषते ।दिनेशः सर्वदा सत्यं भाषताम्
(ङ) छात्रः लक्ष्यसिद्धये कष्टं सहते।अहं लक्ष्यसिद्धये कष्टं सहै
(च) साधवः सर्वदा रमन्ते।भवन्तः सर्वदा रमन्ताम्
(छ) भवान् योगेन आरोग्यं लभते ।अहं योगेन आरोग्यं लभै
(ज) रमा सदा सत्कर्मणि यतते।लता सदा सत्कर्मणि यतताम्
(झ) भक्तः ईश्वरं वन्दते।भक्तः ईश्वरं वन्दताम्
प्रस्तुति: Sooraj Kumar Tiwari
अधिक जानकारी के लिए विजिट करें: bhagwatdarshan.com

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!