Class 9 Sanskrit Sharda Chapter 10 NCERT Solutions | णमो अरिहन्ताणम् अभ्यास

Sooraj Krishna Shastri
By -
0

अभ्यासाद् जायते सिद्धिः (सम्पूर्ण प्रश्नोत्तर)

१. एकपदेन उत्तरं लिखत

(क) ऋषभेण निर्मितस्य नगरस्य नाम किम् ? ➔ विनिता (विनितानाम्नः नगरस्य)
(ख) ऋषभस्य प्रसिद्धे द्वे कन्ये के ? ➔ ब्राह्मी सुन्दरी च
(ग) कस्यां लिप्यां नैकानि शास्त्राणि लिपिबद्धानि ? ➔ ब्राह्मीलिप्याम्
(घ) विनिता नामकं राज्यं ऋषभः कस्मै समर्पितवान् ? ➔ भरताय
(ङ) ऋषभः बाहुबलिने किं राज्यं प्रदत्तवान् ? ➔ तक्षशिलाम्
(च) प्रजाः भिक्षायां कानि वस्तूनि यच्छन्ति स्म ? ➔ आभरणानि अनर्घवस्तूनि च

२. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत

(क) देशे काः समस्याः सन्ति इति ऋषभदेवस्य कल्पना प्राप्ता ?
उत्तर: जनानाम् आलस्यं, कृषिकार्ये न्यूनता, प्रजासु उत्पादनक्षमतायाः अभावः चेत्येतादृश्यः मूलसमस्याः सन्ति इति ऋषभदेवस्य स्पष्टकल्पना प्राप्ता।
(ख) महाराजः केषु कार्येषु प्रजाः प्रशिक्षितवान् ?
उत्तर: महाराजः कृषिकार्यं, विविधपदार्थैः भोजननिर्माणं, तन्तुभिः वस्त्रनिर्माणं, गवाम् अश्वादीनां पशूनां पालनं, काष्ठैः धातुभिः शिलाभिः च गृहोपयोगिनां वस्तूनां निर्माणं, पात्रनिर्माणं, गृहनिर्माणं, नगरनिर्माणादिकं च प्रजाः प्रशिक्षितवान्।
(ग) ऋषभदेवस्य जीवनपरिवर्तिनी घटना का आसीत् ?
उत्तर: राजप्रासादे नृत्यकलाप्रदर्शनं कुर्वती काचित् आरोग्यवती नर्तकी सहसा भूमौ पतित्वा मृता, इयमेव ऋषभदेवस्य जीवनपरिवर्तिनी घटना आसीत्।
(घ) ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः कथम् अभवत् ?
उत्तर: हस्तिनापुरस्य समीपे इक्षुक्षेत्रे तस्य प्रपौत्रः श्रेयांसः प्रपितामहाय पानार्थम् इक्षुरसं दत्तवान्, अनेन ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः अभवत्।
(ङ) ऋषभदेवः कदा कुत्र च केवलज्ञानं प्राप्तवान् ?
उत्तर: ऋषभदेवः फाल्गुनमासस्य कृष्णपक्षे एकादश्यां तिथौ प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान्।
(च) जनानां मार्गदर्शनार्थं कं क्रमं रचितवान् ?
उत्तर: ऋषभदेवः जनानां मार्गदर्शनार्थं भिक्षुः भिक्षुणी श्रावकः श्राविका चेति क्रमं रचितवान् (यः जैनसङ्घः इति प्रसिद्धः)।

३. समस्तपदानि लिखत

विग्रहवाक्यम् समस्तपदम् (उत्तरम्)
(क) महान् च असौ राजा चमहाराजः
(ख) प्रजानां सुखम्प्रजासुखम्
(ग) मूलाः समस्याःमूलसमस्याः
(घ) भोजनस्य निर्माणम्भोजननिर्माणम्
(ङ) आर्थिकी स्थितिःआर्थिकस्थितिः
(च) प्राप्तः आनन्दः येन सःप्राप्तानन्दः
(छ) विधिना लिखितम्विधिलिखितम्
(ज) गृहं गृहं प्रतिप्रतिगृहम्
(झ) ब्राह्मीनामा लिपिःब्राह्मीलिपिः

४. वाक्यानि उदाहरणानुसारं परिवर्तयत

(क) महाराजेन राज्यं समर्पितम्। ➔ महाराजः राज्यं समर्पितवान्।
(ख) केनापि तत् न चिन्तितम्। ➔ कोऽपि तत् न चिन्तितवान्।
(ग) ऋषभदेवेन दीर्घकालिकः उपवासः कृतः । ➔ ऋषभदेवः दीर्घकालिकम् उपवासं कृतवान्।
(घ) जनैः जीवनपद्धतिः परिवर्तिता । ➔ जनाः जीवनपद्धतिं परिवर्तितवन्तः।
(ङ) ऋषभेण योजना कृता। ➔ ऋषभः योजनां कृतवान्।

५. सन्धिं कुरुत

सन्धिविच्छेदः सन्धिपदम् (उत्तरम्)
(क) इति + अतःइत्यतः
(ख) च + इतिचेति
(ग) देवस्य + अपिदेवस्यापि
(घ) तथा + एवतथैव
(ङ) इति + एतादृशाःइत्येतादृशाः
(च) ब्राह्मीद्वारा + एवब्राह्मीद्वारैव
(छ) प्रस्थितः + अयम्प्रस्थितोऽयम्

यस्तु क्रियावान् मनुजः स विद्वान् (अतिरिक्त-प्रश्नोत्तराणि)

१. जैनसम्प्रदायानुसारं भोजनपद्धतिं लिखत। (किं खादन्ति ? कस्मिन् समये खादन्ति ?)
उत्तर: जैनसम्प्रदाये सात्त्विकभोजनस्य विधानम् अस्ति। ते मांसाहारं, मद्यं तथा भूमेः अधः उत्पद्यमानानि कन्दमूलानि (यथा- पलाण्डुः, लशुनम्, आलुकम् इत्यादीनि) न खादन्ति। ते सूर्यास्तात् पूर्वम् एव भोजनं कुर्वन्ति अर्थात् रात्रौ भोजनं वर्जितम् अस्ति।
२. पञ्चमहाव्रतानि लिखत ।
उत्तर: पञ्चमहाव्रतानि सन्ति - सत्यम्, अहिंसा, अस्तेयम्, अपरिग्रहः, ब्रह्मचर्यं च।
३. णमोकारमहामन्त्र-दिवसस्य विषये किं जानन्ति इत्युपरि कक्षायां वदत ।
उत्तर: णमोकारमन्त्रः सर्वेषां जैनानां परमपावनः मन्त्रः अस्ति। प्रतिवर्षम् अप्रैल्-मासस्य नवमे दिनाङ्के जैनजनाः सामूहिकरूपेण अस्य मन्त्रस्य जपादिकं कृत्वा उत्सवम् आचरन्ति, अतः अस्य दिवसस्य 'नवकारमहामन्त्रदिवसः' इति ख्यातिः वर्तते।
प्रस्तुति: Sooraj Kumar Tiwari
अधिक जानकारी के लिए विजिट करें: bhagwatdarshan.com

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!