Class 9 Sanskrit Sharda Chapter 6 NCERT Solutions | मनःपूतं समाचरेत् अभ्यास

Sooraj Krishna Shastri
By -
0

अभ्यासाद् जायते सिद्धिः (सम्पूर्ण प्रश्नोत्तर)

१. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत

(क) लोकः कस्य आचरणम् अनुकरोति ?
उत्तर: लोकः श्रेष्ठस्य जनस्य आचरणम् अनुकरोति।
(ख) कीदृशी वाणी वक्तव्या ?
उत्तर: सत्यपूतां वाणीं (वाचं) वक्तव्या (वदेत्)।
(ग) लक्ष्मीः कम् उपैति ?
उत्तर: लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति।
(घ) उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति ?
उत्तर: उत्तमजनाः कार्यं प्रारभ्य विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः (अपि) न परित्यजन्ति।
(ङ) धर्मस्य लक्षणानि कानि ?
उत्तर: धृतिः, क्षमा, दमः, अस्तेयं, शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः चेति दशकं धर्मस्य लक्षणानि सन्ति।
(च) सकलाः कलाः कस्मात् सिध्यन्ति ?
उत्तर: सकलाः कलाः अभ्यासात् सिध्यन्ति।
(छ) सम्पदः कं वृणते ?
उत्तर: सम्पदः विमृश्यकारिणं वृणते।

२. अधोलिखितेषु श्लोकांशेषु रिक्तस्थानानि पूरयत

(क) धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।
(ख) सन्तः परीक्ष्य अन्यतरद भजन्ते ।
(ग) दैवं निहत्य कुरु पौरुषम् आत्मशक्त्या।
(घ) सयत् प्रमाणं कुरुते ।

३. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) नीचैः विघ्नभयेन कार्यं न प्रारभ्यते । ➔ कैः विघ्नभयेन कार्यं न प्रारभ्यते ?
(ख) सकलाः कलाः अभ्यासात् सिध्यन्ति । ➔ सकलाः कलाः कस्मात् सिध्यन्ति ?
(ग) वस्त्रपूतं जलं पिबेत् । ➔ कीदृशं जलं पिबेत् ?
(घ) लक्ष्मीः पुरुषसिंहम् उपैति । ➔ लक्ष्मीः कम् उपैति ?
(ङ) सन्तः परीक्ष्य अन्यतरद् भजन्ते । ➔ के परीक्ष्य अन्यतरद् भजन्ते ?
(च) क्रियां सहसा न विदधीत । ➔ काम् सहसा न विदधीत ?

४. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत् ॥

(क) अस्मिन् श्लोके प्रथमं क्रियापदं किम् ? ➔ न्यसेत्
(ख) कं न्यसेत् ? ➔ पादं (न्यसेत्)
(ग) कीदृशं पादं न्यसेत् ? ➔ दृष्टिपूतं (पादं न्यसेत्)
(घ) द्वितीयं किं क्रियापदम् अस्ति ? ➔ पिबेत्
(ङ) किं पिबेत् ? ➔ जलं (पिबेत्)
(च) कीदृशं जलं पिबेत् ? ➔ वस्त्रपूतं (जलं पिबेत्)
(छ) तृतीयं किं क्रियापदम् अस्ति ? ➔ वदेत्
(ज) कां वदेत् ? ➔ वाचं (वदेत्)
(झ) कीदृशीं वाणीं वदेत् ? ➔ सत्यपूतां (वाचं वदेत्)
(ञ) चतुर्थं किं क्रियापदम् अस्ति ? ➔ समाचरेत्
(ट) कथं समाचरेत् ? ➔ मनः पूतं (समाचरेत्)

५. मञ्जूषातः पदानि चित्वा भावार्थेषु रिक्तस्थानानि पूरयत

(क) लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः पुरुषस्य समीपं स्वयम् आगच्छति। कापुरुषाः तु 'विधिः एव बलीयान्' इति वदन्ति । पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साधयन्ति ते एव धीराः। प्रयत्नं कृत्वा अपि यदि लक्ष्यं न प्राप्तं तर्हि तत्र दोषः नास्ति खलु ।

(ख) पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति । तथैव नूतनम् अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति। येषां बुद्धिः पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव उत्तमं स्वीकुर्वन्ति। किन्तु अज्ञानाः अन्येषाम् अभिप्रायं श्रुत्वा तदनुसारेण प्रवर्तन्ते ।

६. श्लोकानाम् अन्वयेषु रिक्तस्थानानि पूरयत

(क) सर्वाः क्रियाः अभ्यासेन (सिध्यन्ति)। सकलाः कलाः अभ्यासात् (सिध्यन्ति)। ध्यानमौनादि (अपि) अभ्यासात् (सिध्यति)। अभ्यासस्य दुष्करं किम् (अस्ति) ?
(ख) श्रेष्ठः यत् यत् आचरति इतरः जनः तत् तत् एव (आचरति)। सः यत् प्रमाणं कुरुते, लोकः तत् अनुवर्तते

७. यथोचितं मेलनं कुरुत

श्लोकांशः स्रोतोग्रन्थः (उत्तरम्)
(क) पुराणमित्येव न साधु सर्वम४. मालविकाग्निमित्रम्
(ख) प्रारभ्य चोत्तमजनाः न परित्यजन्ति३. नीतिशतकम्
(ग) यद्यदाचरति श्रेष्ठः५. श्रीमद्भगवद्गीता
(घ) धृतिः क्षमा दमोऽस्तेयम्१. मनुस्मृतिः
(ङ) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः२. पञ्चतन्त्रम्

८. रेखा‌ङ्कितेषु पदेषु सन्धिविच्छेदं कुरुत

पदम् सन्धिविच्छेदः (उत्तरम्)
(क) दमोऽस्तेयम्दमः + अस्तेयम्
(ख) पुराणमित्येवपुराणम् + इति + एव
(ग) पुनरपिपुनः + अपि
(घ) चोत्तमजनाःच + उत्तमजनाः
(ङ) विघ्नविहता विरमन्तिविघ्नविहताः + विरमन्ति
(च) लोकस्तदनुवर्ततेलोकः + तत् + अनुवर्तते
(छ) परीक्ष्यान्यतरद्भजन्तेपरीक्ष्य + अन्यतरत् + भजन्ते

९. विग्रहवाक्यानि (समस्तपदानि पाठात् चित्वा लिखत)

विग्रहवाक्यानि समस्तपदानि (उत्तरम्)
(क) विघ्नैः विहताः (कार्यात्) विरमन्ति ।विघ्नविहताः
(ख) वस्त्रेण पूतं जलं पिबेत्।वस्त्रपूतम्
(ग) पुरुषः सिंहः इव तम् उपैति लक्ष्मीः ।पुरुषसिंहम्
(घ) उत्तमाः जनाः न परित्यजन्ति ।उत्तमजनाः
(ङ) न विवेकः परमापदां पदम् ।अविवेकः
प्रस्तुति: Sooraj Kumar Tiwari
अधिक जानकारी के लिए विजिट करें: bhagwatdarshan.com

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!