Class 9 Sanskrit Sharda Chapter 9 NCERT Solutions | कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

Sooraj Krishna Shastri
By -
0

अभ्यासाद् जायते सिद्धिः (सम्पूर्ण प्रश्नोत्तर)

१. अधः प्रदत्तप्रश्नानाम् उत्तराणि एकपदेन लिखत

(क) भीमस्य जननी का ? ➔ कुन्ती
(ख) कुन्त्या निश्चितं कः न समर्थयति ? ➔ युधिष्ठिरः
(ग) पाण्डवानाम् उपकर्ता कः ? ➔ प्रतिवेशी ब्राह्मणः (विप्रः)
(घ) कं चिन्तयन् दुर्योधनः निद्रां न लभते ? ➔ भीमम् (भीमसेनम्)
(ङ) पाण्डवाः कुत्र निवसन्ति स्म ? ➔ एकचक्रनगरे
(च) भरतवंशप्रदीपः कः ? ➔ भीमः (भीमसेनः)
(छ) कः भृशं परिदेवयते ? ➔ तपस्वी विप्रः (एकपुत्रस्तपस्वी)

२. पूर्णवाक्येन उत्तरं लिखत

(क) “भैक्षप्रदानेन........" इति श्लोकानुसारं सनातनः धर्मः कः ?
उत्तर: “भैक्षप्रदानेन........" इति श्लोकानुसारं 'कृतं (उपकारस्य) प्रतिकृतं (प्रत्युपकारः) भूयाद् (भवेत्) एषः धर्मः सनातनः' अस्ति।
(ख) बकनामा दैत्यः कुत्र वसति ?
उत्तर: बकनामा दैत्यः एकचक्रस्य पुरस्यादूरवर्तिनि पर्वते वसति।
(ग) कुन्ती किं प्रतिश्रुतवती ?
उत्तर: कुन्ती प्रतिश्रुतवती यत् मत्पुत्रेषु कोऽपि (बकासुराय) प्रेषयिष्यते इति।
(घ) भीमस्य अग्रजः कः ?
उत्तर: भीमस्य अग्रजः युधिष्ठिरः अस्ति।
(ङ) का प्रत्यादेशं न अर्हति ?
उत्तर: मातुराज्ञा प्रत्यादेशं न अर्हति।
(च) पौराः बकासुराय कथं बलिम् आहरन्ति ?
उत्तर: पौराः पर्यायक्रमेण तस्मै (बकासुराय) बलिम् आहरन्ति।
(छ) क्षत्रियाणां धर्मः कः ?
उत्तर: नररक्षणं नाम भूमिपालानां क्षत्रियाणां धर्मः (अस्ति)।

३. अधस्तात् दत्तानि वाक्यानि केन कं प्रति उक्तानि इति निर्दिशत

वाक्यानि केन / कया (वक्ता) कं / कां प्रति (श्रोता)
१. न हि मातुराज्ञा प्रत्यादेशमर्हतिभीमेनयुधिष्ठिरं प्रति
२. न हि खरदंष्ट्रो मृगाधिपः सहायमपेक्षतेभीमेनअर्जुनं प्रति
३. क्षत्रियाण्या यदुचितं तदनुष्ठितम्भीमेनकुन्तीं प्रति
४. अपि हस्तद्वयेन भोक्ष्यसेसहदेवेनभीमं प्रति
५. तस्य भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ?युधिष्ठिरेणकुन्तीं प्रति
६. नरभक्षणं नाम मांसाशिनां राक्षसानां धर्मःबकासुरेणभीमं प्रति

४. रेखा‌ङ्कितपदेषु सन्धिं विभज्य सन्धिनाम लिखत

पदम् सन्धिविच्छेदः सन्धेः नाम
(क) सम्यगनुष्ठितम्सम्यक् + अनुष्ठितम्व्यञ्जन-सन्धिः
(ख) पुरस्यादूरवर्तिनिपुरस्य + अदूरवर्तिनिदीर्घ-सन्धिः
(ग) दुरात्मनो वृत्तम्दुरात्मनः + वृत्तम्विसर्ग-सन्धिः
(घ) मानुषोऽपिमानुषः + अपिविसर्ग-सन्धिः (पूर्वरूप)
(ङ) नास्त्यत्रन + अस्ति + अत्रदीर्घ + यण्-सन्धिः
(च) तदनुष्ठितम्तत् + अनुष्ठितम्व्यञ्जन-सन्धिः
(छ) खल्वेकपुत्रस्तपस्वीखलु + एकपुत्रः + तपस्वीयण् + विसर्ग-सन्धिः
(ज) धर्मसङ्ग्रहोऽत्रधर्मसङ्ग्रहः + अत्रविसर्ग-सन्धिः (पूर्वरूप)
(झ) राक्षस इतिराक्षसः + इतिविसर्गलोप-सन्धिः

५. पर्यायवाचि-पदानां मेलनं कुरुत

पदम् पर्यायवाची पदम् (उत्तरम्)
(क) आयोधनम्युद्धम्
(ख) विप्रःब्राह्मणः
(ग) असुरःदैत्यः / राक्षसः
(घ) अम्बमातः
(ङ) हुताशनःअग्निः

६. अधोलिखितानां पदानां विपरीतार्थक-शब्दान् लिखत

(क) उपकृतः ➔ अपकृतः
(ख) अग्रजस्य ➔ अनुजस्य
(ग) उचितम् ➔ अनुचितम्
(घ) हर्षः ➔ विषादः / शोकः

७. मञ्जूषातः समुचितं विशेषणपदं चित्वा लिखत

विशेष्यम् समुचितं विशेषणपदम् (उत्तरम्)
(क) मृष्टान्नम्शकटपूरं
(ख) ब्राह्मणःप्रतिवेशी
(ग) मृगाधिपःखरदंष्ट्रः
(घ) भीमःकौन्तेयः
(ङ) कुन्तीक्षत्रियाणी
(च) हुताशनःजठरस्थः

८. समस्तपदानि लिखत

विग्रहवाक्यम् समस्तपदम् (उत्तरम्)
(क) वीरस्य भुजयोः बलम् आश्रित्य वयं सुखं शेमहे।भुजबलम्
(ख) भवता धर्माणां सङ्ग्रहः द्रष्टव्यः ।धर्मसङ्ग्रहः
(ग) नहि मातुः आज्ञा प्रत्यादेशमर्हति ।मातुराज्ञा
(घ) धनुः धरति इति अहम् अनुगमिष्यामि ।धनुर्धरः
(ङ) नहि खरदंष्ट्रः मृगाणाम् अधिपः सहायमपेक्षते ।मृगाधिपः
(च) अस्य पुरस्य न दूरे वर्तते पर्वते वसति बकनामा दैत्यः ।अदूरवर्तिनि

९. अधोलिखितवाक्यानाम् उचितभावैः सह सम्मेलनं कुरुत

वाक्यम् भावः (उत्तरम्)
(क) धनुर्धरोऽहमनुगमिष्यामि।उत्साहः (भ्रातृस्नेहः)
(ख) भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम् ?चिन्ता (क्षोभः)
(ग) अपि हस्तद्वयेन भोक्ष्यसे ?हासः
(घ) हनिष्यामि तं दुरात्मानम्।क्रोधः (वीरभावः)
(ङ) स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते।निराशा (ग्लानिः)
(च) मानुषापसद, परिवेषय मे भोजनम्।अधिकारः

१०. वाच्यपरिवर्तनं कुरुत

कर्मवाच्यम् / भाववाच्यम् कर्तृवाच्यम् (उत्तरम्)
(क) क्षत्रियाण्या अनुष्ठितम्।क्षत्रियाणी अनुष्ठितवती।
(ख) भवत्या सज्जीक्रियताम् ।भवती सज्जीकरोतु।
(ग) भवत्या उपक्षिप्तम्।भवती उपक्षिप्तवती।
(घ) त्वया सङ्कल्पितम्।त्वं सङ्कल्पितवती।
(ङ) भवता धर्मसङ्ग्रहः द्रष्टव्यः ।भवान् धर्मसङ्ग्रहं पश्येत्।
(च) पौरजनैः मानुषः प्रेषयितव्यः ।पौरजनाः मानुषं प्रेषयेयुः।
प्रस्तुति: Sooraj Kumar Tiwari
अधिक जानकारी के लिए विजिट करें: bhagwatdarshan.com

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!