Class 9 Sanskrit Sharda Chapter 7 NCERT Solutions | उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् अभ्यास

Sooraj Krishna Shastri
By -
0

अभ्यासाद् जायते सिद्धिः (सम्पूर्ण प्रश्नोत्तर)

१. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत

(क) नरस्य वृत्तं के जानन्ति ?
उत्तर: आदित्यः, चन्द्रः, पवनः, अग्निः, द्यौः (आकाशः), भूमिः, आपः (जलम्), हृदयम्, यमः, अहः (दिनम्), रात्रिः, उभे सन्ध्ये, धर्मः च नरस्य वृत्तं जानन्ति।
(ख) धर्मबुद्धयः किं वीक्षन्ते ?
उत्तर: धर्मबुद्धयः परदारेषु मातृवत्, परद्रव्येषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् वीक्षन्ते।
(ग) कस्य जन्मनः फलं व्यर्थम् ?
उत्तर: येन देशान्तरेषु भ्रमता बहुविधभाषावेषादि न ज्ञातं, तस्य जन्मनः फलं व्यर्थम् (भवति)।
(घ) पापबुद्धिः स्वपितरं किम् उक्तवान् ?
उत्तर: पापबुद्धिः स्वपितरम् उक्तवान्- "तात ! मया धर्मबुद्धेः प्रभूतः अर्थः चोरितः। भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति, अन्यथास्माकं प्राणैः सह यास्यति।"
(ङ) प्राज्ञः किं-किं चिन्तयेत् ?
उत्तर: प्राज्ञः उपायं तथा अपायं च चिन्तयेत्।
(च) मानवः कदा विद्यां वित्तं शिल्पं च प्राप्नोति ?
उत्तर: यावद् मानवः भूमौ हृष्टः (सन्) देशाद् देशान्तरं न व्रजति (भ्रमति), तावत् सः विद्यां वित्तं शिल्पं च सम्यक् न प्राप्नोति।
(छ) पापबुद्धिः किं चिन्तयित्वा देशान्तरं प्रस्थितः ?
उत्तर: पापबुद्धिना चिन्तितं यत्- "अहं तावान् मूर्खः दरिद्रतया पीडितश्च। अतः एनं धर्मबुद्धिं स्वीकृत्य अन्यं देशं गच्छामि, तत्र अस्य आश्रयणेन धनं सम्पादयामि, अनन्तरम् एनमपि वञ्चयित्वा सुखी भवामि" इति चिन्तयित्वा सः देशान्तरं प्रस्थितः।

२. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आश्रित्य प्रश्ननिर्माणं कुरुत

(क) एनम् अपि वञ्चयित्वा सुखी भवामि । ➔ कम् अपि वञ्चयित्वा सुखी भवामि ?
(ख) सर्वं धनं स्वीकृत्य स्वग्रामं गच्छावः । ➔ किम् स्वीकृत्य स्वग्रामं गच्छावः ?
(ग) निशीथे अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान्। ➔ निशीथे कुत्र (कस्याम्) गत्वा तत् सर्वं वित्तम् आनीतवान् ?
(घ) तत् आकर्ण्य सर्वे ते जनाः विस्मयोत्फुल्ललोचनाः सञ्जाताः । ➔ तत् आकर्ण्य के विस्मयोत्फुल्ललोचनाः सञ्जाताः ?
(ङ) अहम् एतत् शमीकोटरं वह्निना प्रज्वालयामि। ➔ अहम् एतत् शमीकोटरं केन प्रज्वालयामि ?

३. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति लिखत

वाक्यम् कः (वक्ता) कं प्रति (श्रोता)
(क) वत्स ! द्रुतं वद येन तद् द्रव्यं स्थिरं तिष्ठेत् ।पितापापबुद्धिं प्रति
(ख) प्रातःकाले युवामस्माभिः सह तत्र वनप्रदेशं गच्छतम् ।धर्माधिकारीपापबुद्धिं धर्मबुद्धिं च प्रति
(ग) त्वया हृतम् एतद्धनं, नान्येन ।पापबुद्धिःधर्मबुद्धिं प्रति
(घ) भोः दुरात्मन् ! मा मैवं वद।धर्मबुद्धिःपापबुद्धिं प्रति
(ङ) एतत् सर्वमपि पापबुद्धेः चेष्टितम्।पिताजनान् (धर्माधिकारिणं वा) प्रति

४. उदाहरणानुसारं भूतकालिकवाक्यानि वर्तमानकालिकवाक्येषु परिवर्तयत

(क) राजपुरुषाः पापबुद्धिं दण्डितवन्तः । ➔ राजपुरुषाः पापबुद्धिं दण्डयन्ति
(ख) (पापबुद्धिः) प्रभूतं धनं सम्पादितवान् । ➔ (पापबुद्धिः) प्रभूतं धनं सम्पादयति
(ग) पापबुद्धिः वनदेवतायाः समीपम् आगतवान् । ➔ पापबुद्धिः वनदेवतायाः समीपम् आगच्छति
(घ) अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान् । ➔ अत्रान्तरे पापबुद्धिः शिरस्ताडयन् वदति (अथवा कथयति)।
(ङ) सर्वे जनाः धर्मबुद्धिं प्रशंसितवन्तः । ➔ सर्वे जनाः धर्मबुद्धिं प्रशंसन्ति

५. श्लोकानां भावार्थान् विचिन्त्य कोष्ठकात् समुचितपदैः रिक्तस्थानानि पूरयत

(क) सूर्यः चन्द्रः पवनः अग्निः आकाशः भूमिः जलं हृदयं यमः दिवसः रात्रिः प्रभातं सायं च मनुष्याणां सर्वविधं व्यवहारं जानन्ति। अतः वयं सर्वदा उत्तमं व्यवहारं कुर्मः।
(ख) यः अन्यदेशेषु न अटति, विविधदेशानां संस्कृतीः भाषाः च न जानाति, पृथिवीपृष्ठे तस्य जन्म व्यर्थं भाति।
(ग) सज्जनाः सर्वासु नारीषु मातरः इव, अन्येषां द्रव्येषु मृत्पिण्डम् इव, सर्वेषु प्राणिषु च स्वयम् इव चिन्तयन्ति।
(घ) बुद्धिमान् मनुष्यः कार्यसाधनस्य मार्गान् समस्यादूरीकरणस्य कौशलानिजानीयात्

६. उदाहरणं दृष्ट्वा अधोलिखितानां पदानां विग्रहं वा कुरुत

समस्तपदम् विग्रहवाक्यम्
(क) गुरुजनाज्ञयागुरुजनानाम् आज्ञया
(ख) वनदेवतावनस्य देवता
(ग) वित्ताभावात्वित्तस्य अभावात्
(घ) बुद्धिप्रभावेणबुद्धेः प्रभावेण
(ङ) धरणीपीठेधरण्याः पीठे

७. अधोलिखितानि वाक्यानि कथाक्रमानुसारं पुनः लिखत

शुद्धः क्रमः:
  • (घ) कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म।
  • (ख) ततस्तौ गुरुजनानाम् अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ ।
  • (ङ) यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ ।
  • (ग) द्वावपि गत्वा तत् स्थानं यावत् खनतः तावद् रिक्तं भाण्डं दृष्टवन्तौ ।
  • (क) भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति ।
  • (च) राजपुरुषाः पापबुद्धिं दण्डितवन्तः ।
प्रस्तुति: Sooraj Kumar Tiwari
अधिक जानकारी के लिए विजिट करें: bhagwatdarshan.com

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!