अभ्यासाद् जायते सिद्धिः (सम्पूर्ण प्रश्नोत्तर)
१. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) वर्णानाम् उत्पत्यर्थं कति आवश्यकानि तत्त्वानि भवन्ति ?
उत्तर: त्रीणि
(ख) कति स्थानानि सन्ति ?
उत्तर: षट्
(ग) आभ्यन्तर-प्रयत्नः कतिविधः ?
उत्तर: पञ्चविधः
(घ) करणं यदा स्थानं स्पष्टरूपेण स्पृशति, तदा करणस्य कः प्रयत्नः भवति ?
उत्तर: स्पृष्ट-प्रयत्नः
(ङ) अवर्णस्य कति उपभेदाः सन्ति ?
उत्तर: त्रयः
(च) संवृत-प्रयत्नः कुत्र भवति ?
उत्तर: कण्ठे (या अ-कारस्य उच्चारणे)
२. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत
(क) आभ्यन्तर-प्रयत्नः कः उच्यते ?
उत्तर: आस्यस्य अभ्यन्तरे करणं येन प्रयत्नेन स्थानं स्पृशति, स्थानस्य समीपं वा याति, सः प्रयत्नः 'आभ्यन्तर प्रयत्नः' इति उच्यते।
(ख) ईषत्स्पृष्ट-प्रयत्नः कदा भवति ?
उत्तर: करणं यदा स्थानं 'स्वल्पम् एव स्पृशति', तदा करणस्य 'ईषत्-स्पृष्ट-प्रयत्नः' भवति।
(ग) करणस्य विवृत-प्रयत्नेन के स्वराः उच्चार्यन्ते ?
उत्तर: करणस्य विवृत-प्रयत्नेन (अ-कारं विहाय अन्ये सर्वे) स्वराः उच्चार्यन्ते।
(घ) आभ्यन्तर प्रयत्नाः कुत्र दृश्यन्ते ?
उत्तर: कण्ठ्य-तालव्य-मूर्धन्य-दन्त्य-ओष्ठ्येषु पञ्च-प्रकारेषु वर्णेषु स्थान-करणयोः मध्ये आभ्यन्तर प्रयत्नाः दृश्यन्ते।
(ङ) आभ्यन्तर प्रयत्ने स्वरेषु विशिष्टः स्वरः कः अस्ति ?
उत्तर: आभ्यन्तर प्रयत्ने स्वरेषु 'अ-कारः' विशिष्टः स्वरः अस्ति।
३. अधोलिखितानां वर्णानां क-स्तम्भेन सह मेलनं कुरुत
| क-स्तम्भः | ख-स्तम्भः (सही उत्तर) |
|---|---|
| (क) विवृत-प्रयत्नः | (३) ऋ |
| (ख) स्पृष्ट-प्रयत्नः | (५) ध् |
| (ग) ईषत्स्पृष्ट-प्रयत्नः | (१) व् |
| (घ) ईषत्विवृत-प्रयत्नः | (२) श् |
| (ङ) संवृत-प्रयत्नः | (४) अ |
४. अधोलिखितानां वाक्यानाम् उत्तराणि आम्/ न इति सन्दर्भानुसारं लिखत
(क) 'ई' वर्णः सन्ध्यक्षरम् अस्ति ।
उत्तर: न
(ख) 'ऐ' वर्णः सन्ध्यक्षरम् अस्ति ।
उत्तर: आम्
(ग) 'झ' वर्णः स्पर्शः अस्ति ।
उत्तर: आम्
(घ) 'र' वर्णः स्पर्शेषु परिगण्यते ।
उत्तर: न
(ङ) 'य, र, ल, व' वर्णाः ऊष्माणः सन्ति ।
उत्तर: न
५. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) स्वराः स्वतन्त्रवर्णाः सन्ति ।
प्रश्न: के स्वतन्त्रवर्णाः सन्ति ?
(ख) व्यञ्जनानि अर्धमात्रिकाणि भवन्ति ।
प्रश्न: व्यञ्जनानि कीदृशानि (या कतिमात्रिकाणि) भवन्ति ?
(ग) स्वराणां द्वौ भेदौ भवतः ।
प्रश्न: स्वराणां कति भेदौ भवतः ?
(घ) ह्रस्वस्य उपभेदाः न भवन्ति ।
प्रश्न: ह्रस्वस्य के न भवन्ति ?
(ङ) व्यञ्जनानां चत्वारो भेदाः भवन्ति ।
प्रश्न: व्यञ्जनानां कति भेदाः भवन्ति ?
६. वर्णसमुच्चयं पाठात् चित्वा लिखत
(क) एकस्थानि-वर्णाः
उत्तर: अ, आ, अ३, इ, ई, इ३, उ, ऊ, उ३, ऋ, ॠ, ऋ३, ऌ, ऌ३ (सर्वाणि समानाक्षराणि)
(ख) स्पर्श-व्यञ्जनानि
उत्तर: क, ख, ग, घ, ङ, च, छ, ज, झ, ञ, ट, ठ, ड, ढ, ण, त, थ, द, ध, न, प, फ, ब, भ, म (२५ वर्णाः)
(ग) अयोगवाह-व्यञ्जनानि
उत्तर: अनुस्वारः (अं), विसर्गः (अः)
(घ) ऊष्म-व्यञ्जनानि
उत्तर: श, ष, स, ह
(ङ) द्विस्थानि-वर्णाः
उत्तर: ए, ऐ, ओ, औ (सन्ध्यक्षराणि)
पाठ 1: सत्यं शिवं सुन्दरं संस्कृतम्
पाठ 2: सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः
पाठ 3: आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
पाठ 4: न खलु वयस्तेजसो हेतुः
पाठ 5: एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी
पाठ 6: मनःपूतं समाचरेत्
पाठ 7: उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्
पाठ 8: अन्नाद् आनन्दं प्रति
पाठ 9: कृतं प्रतिकृतं भूयादेष धर्मः सनातनः
पाठ 10: णमो अरिहन्ताणम्
पाठ 11: वर्णोच्चारण-शिक्षा २
परिशिष्ट (व्याकरण खण्ड)
परिशिष्ट 1: अन्वयः
परिशिष्ट 2: समासः
परिशिष्ट 3: वाच्यम्
परिशिष्ट 4: शब्दरूपाणि
परिशिष्ट 5: धातुरूपाणि
नोट: जिस पाठ का हल (Solution) देखना है, उस पर क्लिक करें।


