Class 7 Deepakam Chapter 10 – दशमः कः ? | NCERT Solutions, Questions Answers

Sooraj Krishna Shastri
By -
0

१. पाठ-परिचयः (संवादः)

शिक्षकः: अयि भोः! गतसप्‍ताहे संस्कृत-ओलम्पियाड्-परीक्षा अभवत्। तत्र के भागं गृहीतवन्तः?[cite: 10]
हिन्दी अर्थ: अरे! पिछले सप्ताह संस्कृत ओलम्पियाड की परीक्षा हुई थी। उसमें किन-किन लोगों ने भाग लिया था?

छात्राः: महोदय! वयं सर्वे भागं गृहीतवन्तः ।[cite: 10]
हिन्दी अर्थ: महोदय! हम सभी ने भाग लिया था।

शिक्षकः: तत्र कः प्रथमं स्थानं प्राप्‍तवान्?[cite: 10]
हिन्दी अर्थ: उसमें प्रथम स्थान (पहला स्थान) किसने प्राप्त किया?

छात्रः: महोदय! विद्याधरः प्रथमं स्थानं प्राप्‍तवान्।[cite: 10]
हिन्दी अर्थ: महोदय! विद्याधर ने प्रथम स्थान प्राप्त किया।

शिक्षकः: अभिनन्दनम्। तर्हि द्वितीयः कः?[cite: 10]
हिन्दी अर्थ: बधाई हो। तो फिर दूसरा कौन है?

छात्रा: महोदय! हेमलता प्राप्‍तवती ।[cite: 10]
हिन्दी अर्थ: महोदय! हेमलता ने प्राप्त किया है।

शिक्षकः: अरे! बहु सुन्दरम्। तस्याः अपि अभिनन्दनम्। तर्हि तृतीये स्थाने कः का वा अस्ति ?[cite: 10]
हिन्दी अर्थ: अरे! बहुत सुन्दर। उसे भी बधाई। तो फिर तीसरे स्थान पर कौन (छात्र या छात्रा) है?

छात्रा: महोदय! सा प्रीतिः ।[cite: 10]
हिन्दी अर्थ: महोदय! वह प्रीति है।

शिक्षकः: अस्तु, तस्याः अपि अभिनन्दनम्। अन्ये केऽपि किमपि स्थानं प्राप्‍तवन्तः किम्?[cite: 10]
हिन्दी अर्थ: ठीक है, उसे भी बधाई। क्या और किसी ने भी कोई स्थान प्राप्त किया है?

छात्रः १: महोदय! अहं चतुर्थः अस्मि ।[cite: 10]
हिन्दी अर्थ: महोदय! मैं चौथे स्थान पर हूँ।

छात्रः २: महोदय! अहं पञ्चमी अस्मि ।[cite: 10]
हिन्दी अर्थ: महोदय! मैं पाँचवें स्थान पर हूँ।

छात्रः ३: महोदय! अहं नवमी अस्मि ।[cite: 10]
हिन्दी अर्थ: महोदय! मैं नौवें स्थान पर हूँ।

शिक्षकः: अहो उत्तमम्। भवद्भ्यः सर्वेभ्यः आशीर्वादाः । तर्हि दशमः कोऽस्ति भोः?[cite: 10]
हिन्दी अर्थ: अहो! बहुत अच्छा। आप सभी को आशीर्वाद। तो अरे! दसवाँ कौन है?

छात्राः: दशमस्य विषये वयं न जानीमः श्रीमन्![cite: 10]
हिन्दी अर्थ: दसवें के विषय में हम नहीं जानते हैं श्रीमान्!

शिक्षकः: चिन्ता मास्तु, वयम् अद्य दशमस्य विषये एकां कथां पठामः ।[cite: 10]
हिन्दी अर्थ: चिन्ता मत करो, आज हम दसवें के विषय में एक कहानी पढ़ते हैं।

२. कथा - दशमः कः?

एकदा दश बालकाः स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानम् अकुर्वन्। ततः ते तीर्त्वा पारं गताः । तदा तेषां नायकः अपृच्छत् – अपि सर्वे बालकाः नदीम् उत्तीर्णाः?[cite: 10]

हिन्दी अर्थ: एक बार दस बालक नहाने के लिए नदी पर गए। उन्होंने नदी के जल में बहुत देर तक स्नान किया। इसके बाद वे तैरकर पार गए (नदी से बाहर आ गए)। तब उनके नायक (लीडर) ने पूछा - क्या सभी बालकों ने नदी पार कर ली है?

तदा कश्‍चित् बालकः सर्वान् पङ्क्तौ स्थापयित्वा अगणयत् – एकं, द्वे, त्रीणि, चत्वारि‍, पञ्च, षट्, सप्‍त, अष्‍ट, नव इति । सः आत्मानं न अगणयत्। अतः सः अवदत् - अरे वयं नव एव स्मः भोः! दशमः नास्ति ।[cite: 10]

हिन्दी अर्थ: तब किसी बालक ने सभी को पङ्क्ति (लाइन) में खड़ा करके गिना - एक, दो, तीन, चार, पाँच, छः, सात, आठ, नौ। उसने अपने-आप (स्वयं) को नहीं गिना। इसलिए वह बोला - अरे! हम नौ ही हैं! दसवाँ नहीं है।

अपरः अपि बालकः पुनः आत्मानं त्यक्‍त्वा अन्यान् बालकान् अगणयत्। तदा अपि नव एव आसन्। अतः ते निश्‍चयम् अकुर्वन् यत् दशमः नद्यां मग्नः । ते विषण्णाः तूष्णीम् अतिष्ठन्।[cite: 10]

हिन्दी अर्थ: दूसरे बालक ने भी फिर से स्वयं को छोड़कर अन्य (बाकी) बालकों को गिना। तब भी नौ ही थे। इसलिए उन्होंने निश्चय कर लिया (मान लिया) कि दसवाँ नदी में डूब गया। वे दुखी होकर चुपचाप बैठ गए।

तदा कश्‍चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् – अयि बालकाः! युष्माकं दुःखस्य कारणं किम्?[cite: 10]

बालकानां नायकः अकथयत् “वयं दश बालकाः स्नातुम् आगताः । इदानीं नव एव स्मः । एकः नद्यां मग्नः” इति ।[cite: 10]

हिन्दी अर्थ: तब कोई पथिक (यात्री) वहाँ आया। उसने उन बालकों को दुखी देखकर पूछा - अरे बालकों! तुम्हारे दुःख का क्या कारण है?
बालकों के नायक ने कहा - "हम दस बालक नहाने आए थे। अब नौ ही हैं। एक नदी में डूब गया।"

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय । सः नव बालकान् एव अगणयत्। तदा पथिकः अवदत् – दशमः त्वम् असि इति । तत् श्रुत्वा सर्वे प्रहृष्टाः भूत्वा अकथयन् – दशमः प्राप्‍तः दशमः प्राप्‍तः इति । ततः सर्वे मिलित्वा आनन्देन गृहम् अगच्छन्।[cite: 10]

हिन्दी अर्थ: यात्री ने उन्हें गिना। वहाँ दस बालक ही थे। उसने नायक को आदेश दिया - तुम बालकों को गिनो। उसने नौ बालकों को ही गिना। तब यात्री बोला - "दसवें तुम हो।" यह सुनकर सभी प्रसन्न होकर कहने लगे - "दसवाँ मिल गया, दसवाँ मिल गया।" उसके बाद सभी मिलकर आनन्द से घर चले गए।

३. शब्दार्थ-सारणी (Word Meanings)

संस्कृत शब्दः संस्कृत-पर्यायः हिन्दी अर्थः English Meaning
तीर्त्वासन्तरणं कृत्वातैरकरHaving Swum[cite: 10]
स्नानायस्नाननिमित्तम्नहाने के लिएFor bathing[cite: 10]
चिरम्बहुकालपर्यन्तम्देर तकFor a long time[cite: 10]
उत्तीर्णाःपारं गताःपार हुएCrossed over[cite: 10]
अपरःअन्यः / दूसरादूसराAnother[cite: 10]
स्वम्आत्मानम्स्वयं कोOneself[cite: 10]
मग्नःविलीनःडूब गयाDrowned[cite: 10]
विषण्णाःखिन्नाःदुःखी हुएSaddened[cite: 10]
तूष्णीम्निःशब्दम्मौन / चुपचापSilent[cite: 10]
पथिकःमार्गगन्तायात्री / राहगीरTraveller[cite: 10]
अगणयत्गणनां कृतवान्गिनाCounted[cite: 10]
प्रहृष्टाःआनन्दिताःप्रसन्नDelighted[cite: 10]
कतमःकियत्-संख्यात्मकःकौन-साWhich one[cite: 10]

४. अभ्यासः - भाग १ (प्रश्नोत्तराणि १-३)

अत्र इदम् अवधेयम् (यहाँ यह ध्यान दें)

संख्यावाचक-शब्‍दानां पूरणार्थे ‘प्रथमः’, ‘द्वितीयः’, ‘तृतीयः’ इत्यादिशब्दाः भवन्ति ।
(हिन्दी: संख्या बताने वाले शब्दों का क्रम (Order) बताने के लिए प्रथम, द्वितीय, तृतीय आदि शब्दों का प्रयोग होता है।)

यथा – एकम् ➔ पूरणार्थे = प्रथमः / प्रथमा / प्रथमम् ।
द्वे ➔ पूरणार्थे = ि‍द्वतीयः / ि‍द्वतीया / ि‍द्वतीयम् ।
त्रीणि ➔ पूरणार्थे = तृतीयः / तृतीया / तृतीयम् इत्यादयः ।[cite: 10]

१. कोष्ठकात् समीचीनम् उत्तरं चित्वा लिखन्तु—

(हिन्दी: कोष्ठक से सही उत्तर चुनकर लिखें—)

• (क) कति बालकाः स्नातुं गताः ? (पाँच, बारह, दस) ➔ दश[cite: 10]

• (ख) कतमः बालकः नद्यां मग्नः इति निश्‍चयम् अकुर्वन्? (पहला, दसवाँ, पाँचवाँ) ➔ दशमः[cite: 10]

• (ग) दशमः कः आसीत्? (नायक, यात्री, नदी) ➔ नायकः[cite: 10]

• (घ) कः सम्यक् रूपेण बालकान् गणितवान्? (किसने सही से गिना? नायक, यात्री, बालक) ➔ पथिकः[cite: 10]

• (ङ) बालकाः कां तीर्त्वा पारं गताः? (किसको तैरकर पार गए? तालाब, समुद्र, नदी) ➔ नदीम्[cite: 10]

२. पाठस्य आधारेण एकवाक्येन प्रश्‍नानाम् उत्तराणि लिखन्तु—

(हिन्दी: पाठ के आधार पर प्रश्नों के उत्तर एक वाक्य में लिखें—)

• (क) दश बालकाः किमर्थं नदीम् अगच्छन्? (दस बालक किसलिए नदी पर गए थे?)
दश बालकाः स्नानाय नदीम् अगच्छन्।[cite: 10]

• (ख) नायकः किम् अपृच्छत्? (नायक ने क्या पूछा?)
नायकः अपृच्छत् – अपि सर्वे बालकाः नदीम् उत्तीर्णाः?[cite: 10]

• (ग) बालकाः स्नानाय कुत्र अगच्छन्? (बालक नहाने कहाँ गए?)
बालकाः स्नानाय नदीम् अगच्छन्।[cite: 10]

• (घ) बालकाः किं निश्‍चयम् अकुर्वन्? (बालकों ने क्या निश्चय कर लिया?)
बालकाः निश्‍चयम् अकुर्वन् यत् दशमः नद्यां मग्नः ।[cite: 10]

• (ङ) बालकाः कथं गृहम् अगच्छन्? (बालक कैसे घर गए?)
बालकाः प्रहृष्टाः भूत्वा आनन्देन गृहम् अगच्छन्।[cite: 10]

३. पट्टिकातः उचितं विशेषणपदं योजयित्वा वाक्यानि रचयन्तु— (अङ्गुलयः)

(मञ्जूषा: १. अङ्गुष्ठः, २. तर्जनी, ३. मध्यमा, ४. अनामिका, ५. कनिष्ठिका)
(विशेषणपदानि: प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी)

• (क) करे प्रथमा अङ्गुलिः भवति अङ्गुष्ठः[cite: 10]

• (ख) तर्जनी द्वितीया अङ्गुलिः भवति ।[cite: 10]

• (ग) करे तृतीया अङ्गुलिः भवति मध्यमा[cite: 10]

• (घ) अनामिका चतुर्थी अङ्गुलिः भवति ।[cite: 10]

• (ङ) करे पञ्चमी अङ्गुलिः भवति कनिष्ठिका[cite: 10]

५. अभ्यासः - भाग २ (प्रश्नोत्तराणि ४-७)

४. पट्टिकां दृष्‍ट्वा प्रश्‍नानाम् उत्तराणि लिखन्तु— (सप्ताहः)

(प्रथमः दिवसः – रविवासरः, द्वितीयः – सोमवासरः, तृतीयः – मङ्गलवासरः, चतुर्थः – बुधवासरः, पञ्चमः – गुरुवासरः, षष्ठः – शुक्रवासरः, सप्तमः – शनिवासरः)[cite: 10]

• (क) सप्‍ताहस्य प्रथमः दिवसः कः? ➔ रविवासरः[cite: 10]

• (ख) सप्‍ताहस्य कतमः दिवसः रविवासरः अस्ति ? ➔ प्रथमः दिवसः[cite: 10]

• (ग) सप्‍ताहस्य षष्‍ठः दिवसः कः? ➔ शुक्रवासरः[cite: 10]

• (घ) सप्‍ताहस्य कतमः दिवसः शनिवासरः अस्ति ? ➔ सप्तमः दिवसः[cite: 10]

• (ङ) सप्‍ताहस्य अन्तिमः दिवसः कः अस्ति ? ➔ शनिवासरः[cite: 10]

५. वाटिकां दृष्‍ट्वा प्रश्‍नानाम् उत्तराणि लिखन्तु— (भारतीय-द्वादशमासाः)

(चैत्रः, वैशाखः, ज्येष्ठः, आषाढः, श्रावणः, भाद्रपदः, आश्विनः, कार्तिकः, मार्गशीर्षः, पौषः, माघः, फाल्गुनः)[cite: 10]

• (क) मासेषु पञ्चमः मासः कः? ➔ श्रावणः[cite: 10]

• (ख) मार्गशीर्षः कतमः मासः अस्ति ? ➔ नवमः मासः[cite: 10]

• (ग) मासेषु दशमः मासः कः? ➔ पौषः[cite: 10]

• (घ) कार्त्तिकः कतमः मासः अस्ति ? ➔ अष्टमः मासः[cite: 10]

• (ङ) मासेषु अन्तिमः मासः कः? ➔ फाल्गुनः[cite: 10]

६. मञ्जूषां पश्यन्तु, उत्तरं लिखन्तु— (आङ्ग्लमासाः)

(जनवरी, फरवरी, मार्च, अप्रैल, मई, जून, जुलाई, अगस्त, सितम्बर, अक्टूबर, नवम्बर, दिसम्बर)[cite: 10]

• (क) आङ्ग्लमासेषु दशमः मासः ➔ अक्टूबर-मासः[cite: 10]

• (ख) फरवरीमासः द्वितीयः मासः अस्ति ।[cite: 10]

• (ग) आङ्ग्लमासेषु अष्‍टमः मासः ➔ अगस्त-मासः[cite: 10]

• (घ) सितम्बरमासः नवमः मासः अस्ति ।[cite: 10]

• (ङ) आङ्ग्लमासेषु अन्तिमः मासः ➔ दिसम्बर-मासः[cite: 10]

७. अधोलिखिते गद्यांशे अङ्कानां स्थाने संख्यावाचकशब्दान् लिखन्तु—

(हिन्दी: नीचे दिए गए गद्यांश में अंकों (Numbers) की जगह संस्कृत संख्या शब्द लिखें—)

एका (१) पाठशाला अस्ति । तत्र त्रयः (३) अध्यापकाः सन्ति । साहित्यकक्षायां विंशतिः (२०) छात्राः सन्ति । एकस्मिन् दिने एकः (१) निरीक्षकः आगतवान्। तस्मिन् दिने साहित्यकक्षायां पञ्चदश (१५) छात्राः उपस्थिताः । पञ्च (५) अनुपस्थिताः । निरीक्षकः दश (१०) शब्दान् लेखितुम् उक्‍तवान्। द्वौ (२) छात्रौ सप्त (७) शब्दान् सम्यक् लिखितवन्तौ । एकः (१) छात्रः सर्वान् अपि दश (१०) शब्दान् सम्यक् लिखितवान्। अवशिष्टाः द्वादश (१२) छात्राः नव (९) शब्‍दान् सम्यक् लिखितवन्‍तः ।[cite: 10]

६. योग्यताविस्तरः एवं परियोजनाकार्यम्

संख्या-पूरणशब्दाः (१ तः २० पर्यन्तम्)

संख्यापुंलिङ्गम्स्‍त्रीलिङ्गम्नपुंसकलिङ्गम्
१ (एकम्)प्रथमःप्रथमाप्रथमम्
२ (द्वे)द्वितीयःद्वितीयाद्वितीयम्
३ (त्रीणि)तृतीयःतृतीयातृतीयम्
४ (चत्वारि)चतुर्थःचतुर्थीचतुर्थम्
५ (पञ्च)पञ्चमःपञ्चमीपञ्चमम्
६ (षट्)षष्ठःषष्ठीषष्ठम्
७ (सप्‍त)सप्‍तमःसप्‍तमीसप्‍तमम्
८ (अष्‍ट)अष्‍टमःअष्‍टमीअष्‍टमम्
९ (नव)नवमःनवमीनवमम्
१० (दश)दशमःदशमीदशमम्
११ (एकादश)एकादशःएकादशीएकादशम्
१२ (द्वादश)द्वादशःद्वादशीद्वादशम्
१३ (त्रयोदश)त्रयोदशःत्रयोदशीत्रयोदशम्
१४ (चतुर्दश)चतुर्दशःचतुर्दशीचतुर्दशम्
१५ (पञ्चदश)पञ्चदशःपञ्चदशीपञ्चदशम्
१६ (षोडश)षोडशःषोडशीषोडशम्
१७ (सप्‍तदश)सप्‍तदशःसप्‍तदशीसप्‍तदशम्
१८ (अष्‍टादश)अष्‍टादशःअष्‍टादशीअष्‍टादशम्
१९ (नवदश)नवदशःनवदशीनवदशम्
२० (विंशतिः)विंशःविंशीविंशम्
[cite: 10]

सङ्कटनाशनं श्रीगणेशस्तोत्रम्

(पठन्तु गायन्तु च)

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।।
भक्‍तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये।।१।।[cite: 10]

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।।
तृतीयं कृष्णपिङ्गाक्षं गजवक्‍त्रं चतुर्थकम्।।२।।[cite: 10]

लम्बोदरं पञ्चमं च षष्‍ठं विकटमेव च ।।
सप्‍तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्।।३।।[cite: 10]

नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।।४।।[cite: 10]

परियोजनाकार्यम्

१. पाठ्‌यपुस्तकस्य पाठानुक्रमणिकां दृष्‍ट्वा प्रथमपाठतः दशमपाठपर्यन्तं पूरणप्रत्ययान्तशब्दैः क्रमशः पाठानां नामानि लिखन्तु।
(हिन्दी: पुस्तक की विषय-सूची देखकर पहले से दसवें पाठ तक के नामों को क्रम से (पूरण शब्दों के साथ) लिखें।)[cite: 10]

२. सारिण्यां विद्यमानानां संख्यापदानाम् अभ्यासं कुर्वन्तु।[cite: 10]

संख्यापुंलिङ्गम्स्‍त्रीलिङ्गम्नपुंसकलिङ्गम्
एकःएकाएकम्
द्वौद्वेद्वे
त्रयःतिस्रःत्रीणि
चत्वारःचतस्रःचत्वारि
पञ्चपञ्चपञ्च

पञ्चतः आरभ्य संख्याशब्दानां त्रिषु लिङ्गेषु समानरूपाणि भवन्ति ।
(पाँच से लेकर आगे की संख्याओं के रूप तीनों लिङ्गों में एक समान होते हैं।)[cite: 10]

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!