Class 7 deepakam Chapter 11 – Dweepeshu Ramyah Dweepo Andamanah, NCERT Solutions

Sooraj Krishna Shastri
By -
0

१. मूलपाठः सार्थः (सम्वादः एवं हिन्दी-अनुवादः)

अध्यापिका: छात्राः! एतत् चित्रं पश्यन्तु। एतत् आकर्षकं खलु?

हिन्दी अनुवाद: अध्यापिका: छात्रो! इस चित्र को देखिए। यह बहुत आकर्षक है न?

छात्राः: आम् आचार्ये! बहु आकर्षकम् अस्ति।

हिन्दी अनुवाद: छात्र: हाँ शिक्षिका जी! यह बहुत आकर्षक है।

अध्यापिका: सावधानं पश्यन्तु। एतत्स्थानम् अस्माकं देशस्य कश्‍चन रमणीयः द्वीपः अस्ति। एतस्य विषये किञ्चित् अद्य जानीमः। एतत्स्थानं कुत्र अस्ति, भवन्तः जानन्ति किम्?

हिन्दी अनुवाद: अध्यापिका: ध्यान से देखिए। यह स्थान हमारे देश का कोई रमणीय (सुंदर) द्वीप है। आज इसके विषय में कुछ जानते हैं। यह स्थान कहाँ है, क्या आप सब जानते हैं?

अध्यापिका: (भारतस्य मानचित्रे अण्डमान-द्वीपसमूहं दर्शयन्ती) एषः भारतस्य अष्टसु केन्द्रशासितप्रदेशेषु अन्यतमः अण्डमान-द्वीपसमूहः अस्ति। एतस्य राजधानी ‘श्रीविजयपुरम्’ अस्ति। पूर्वम् आङ्ग्लशासनेन अस्य नाम ‘पोर्ट-ब्लेयर’ इति दत्तम् आसीत्।

हिन्दी अनुवाद: अध्यापिका: (भारत के मानचित्र में अण्डमान द्वीप समूह को दिखाते हुए) यह भारत के आठ केन्द्रशासित प्रदेशों में से एक अण्डमान-द्वीपसमूह है। इसकी राजधानी ‘श्रीविजयपुरम्’ है। पहले ब्रिटिश शासन (अंग्रेजों) द्वारा इसका नाम ‘पोर्ट ब्लेयर’ दिया गया था。

सर्वे उत्साहिताः बालाः: महोदये! वयम् एतस्य विषये किञ्चित् अधिकं ज्ञातुम् इच्छामः।

हिन्दी अनुवाद: सभी उत्साहित बच्चे: महोदया! हम इसके विषय में कुछ और अधिक जानना चाहते हैं।

अध्यापिका: अस्तु। भोः सूर्यांश! भवान् किमपि वक्‍तुम् इच्छति? इति प्रतिभाति।

हिन्दी अनुवाद: अध्यापिका: ठीक है। अरे सूर्यांश! आप कुछ कहना चाहते हैं, ऐसा प्रतीत हो रहा है।

सूर्यांशः: सत्यं महोदये! ह्यः भवती एतस्य पाठस्य विषये सङ्केतं दत्तवती। तदा अहं गृहं गत्वा जालपुटे एतस्य अन्वेषणम् अकरवम्।

हिन्दी अनुवाद: सूर्यांश: सच है महोदया! कल आपने इस पाठ के विषय में संकेत दिया था। तब मैंने घर जाकर वेबसाइट पर इसकी खोज की थी।

अध्यापिका: समीचीनं सूर्यांश! भवान् किम् अन्विष्टवान् तत्र?

हिन्दी अनुवाद: अध्यापिका: बहुत अच्छे सूर्यांश! आपने वहाँ क्या खोजा?

सूर्यांशः: महोदये! रामायणकाले अस्य द्वीपस्य नाम ‘हण्डुकमान’ आसीत्। एषः शब्दः प्रायः ‘हनुमान्’ इति शब्दस्य परिवर्तितं रूपम्। प्रथमशताब्द्याम् अस्य नाम ‘अगादेमन’ इति आसीत्। ततः परं ‘अङ्गादेमन’ जातम् इति सर्वकारस्‍य आधिकारिक-जालपुटे अहं दृष्टवान्।

हिन्दी अनुवाद: सूर्यांश: महोदया! रामायण काल में इस द्वीप का नाम ‘हण्डुकमान’ था। यह शब्द प्रायः ‘हनुमान्’ शब्द का ही परिवर्तित रूप है। प्रथम शताब्दी में इसका नाम ‘अगादेमन’ था। उसके बाद ‘अङ्गादेमन’ हुआ, ऐसा मैंने सरकार की आधिकारिक वेबसाइट पर देखा।

दीपेशः: अहो! अस्य नाम्नः इतिहासः अद्भुतः अस्ति। किन्‍नु खलु भारतस्य इतिहासे अस्य द्वीपस्य काचित् विशिष्‍टा भूमिका अस्ति?

हिन्दी अनुवाद: दीपेश: अरे वाह! इसके नाम का इतिहास तो अद्भुत है। क्या भारत के इतिहास में भी इस द्वीप की कोई विशिष्ट भूमिका है?

अध्यापिका: आम्, महती भूमिका अस्ति अस्य द्वीपस्य।

हिन्दी अनुवाद: अध्यापिका: हाँ, इस द्वीप की बहुत बड़ी भूमिका है。

दीपा: कीदृशी भूमिका महोदये! कृपया सूचयतु।

हिन्दी अनुवाद: दीपा: कैसी भूमिका महोदया! कृपया बताइए।

अध्यापिका: अस्मिन् द्वीपे ‘सेल्युलर’ इति कारागारम् अस्ति। अस्य कारागारस्य अपरं नाम ‘कालापानी’ इत्यपि अस्ति।

हिन्दी अनुवाद: अध्यापिका: इस द्वीप में ‘सेल्युलर’ नामक कारागार है। इस कारागार का दूसरा नाम ‘कालापानी’ भी है।

सुधीरः: (साश्‍चर्यम्) आचार्ये! अस्य कः अभिप्रायः?

हिन्दी अनुवाद: सुधीर: (आश्चर्य के साथ) शिक्षिका जी! इसका क्या अभिप्राय है?

सुरेखा: ‘कालापानी’ इति शब्दं श्रुत्वा एव भीतिः भवति।

हिन्दी अनुवाद: सुरेखा: ‘कालापानी’ शब्द सुनते ही डर लगने लगता है।

अध्यापिका: सत्यमेव। भारतस्य स्वातन्त्र्यार्थं युद्धरतानां क्रान्तिकारिणां दमनार्थं ब्रिटिशजनैः निर्मितं त्रितलात्मकम् एतत् कारागारम्। अत्रैव महान् देशभक्तः स्वातन्त्र्यवीरः सावरकरः मातृभूमेः रक्षणाय दश वर्षाणि यावत् कल्पनातीतं घोरं कष्टं सोढवान्।

हिन्दी अनुवाद: अध्यापिका: बिल्कुल सच है। भारत की स्वतंत्रता के लिए संघर्षरत क्रांतिकारियों के दमन के लिए अंग्रेजों द्वारा बनाया गया यह तीन मंजिला कारागार है। यहीं महान देशभक्त स्वातंत्र्यवीर सावरकर ने मातृभूमि की रक्षा के लिए दस वर्षों तक अकल्पनीय घोर कष्ट सहे थे।

मुकुन्दः: अहो! धन्याः ते स्वातन्त्र्यवीराः। तेषां बलिदानेन एव वयं सुखेन जीवामः।

हिन्दी अनुवाद: मुकुन्द: अहो! वे स्वतंत्रता सेनानी धन्य हैं। उनके बलिदान से ही आज हम सुखपूर्वक जी रहे हैं।

सूर्यांशः: आचार्ये! एतत्स्थानं ‘यूनेस्को’-संस्थायाः वैश्‍विकसम्पदः सूच्याम् अपि संरक्षितम्।

हिन्दी अनुवाद: सूर्यांश: शिक्षिका जी! यह स्थान ‘यूनेस्को’ संस्था की विश्व धरोहर सूची में भी संरक्षित है।

ऋचा: महोदये! किम् अस्मिन् द्वीपे जनाः अपि निवसन्ति?

हिन्दी अनुवाद: ऋचा: महोदया! क्या इस द्वीप पर लोग भी निवास करते हैं?

अध्यापिका: आम्, तत्र काश्‍चन अण्डमानी, ओङ्गी, जारवा, सेण्टिनली इत्यादयः विशिष्‍टाः जनजातयः निवसन्ति। अण्डमानी-ओङ्गी-जारवा-जनजातीनाम् आजीविकायै सर्वकारः नारिकेलस्य उद्यानानां निर्माणम् अकरोत्। सेण्टिनली-जनजातीयाः समाजात दूरे तिष्ठन्ति। तेषां जनसङ्ख्या अपि स्वल्पा एव।

हिन्दी अनुवाद: अध्यापिका: हाँ, वहाँ अण्डमानी, ओङ्गी, जारवा, सेण्टिनली आदि कुछ विशिष्ट जनजातियाँ निवास करती हैं। अण्डमानी, ओङ्गी और जारवा जनजातियों की आजीविका के लिए सरकार ने नारियल के बागानों का निर्माण किया। सेण्टिनली जनजाति के लोग समाज से दूर रहते हैं और उनकी जनसंख्या भी बहुत कम है।

सुरुचिः: महोदये! अत्र भ्रमणाय विशिष्‍टानि स्थानानि कानि?

हिन्दी अनुवाद: सुरुचि: महोदया! यहाँ घूमने के लिए प्रमुख दर्शनीय स्थल कौन-कौन से हैं?

अध्यापिका: भवत्सु कोऽपि अस्मिन् विषये कथयितुम् इच्छति?

हिन्दी अनुवाद: अध्यापिका: क्या आप लोगों में से कोई इस विषय में बताना चाहता है?

राजर्षिः: आम् महोदये! अहं वक्तुम् इच्छामि। अहम् एकदा पित्रा सह भ्रमणाय तत्र अगच्छम्। वयं तत्र सर्वत्र प्रकृतेः हारित्यं नीलसमुद्रं च दृष्टवन्तः। वयं महात्मागान्धि-मरीन-राष्ट्रियम् उद्यानम्, नॉर्थ-बे-द्वीपम्, समुद्रिका-नौसेना-समुद्रीय-सङ्ग्रहालयं, कालापत्थर-तटम्, विजयनगर-तटं च दृष्टवन्तः। तत्र भारतस्य समुद्रतटेषु राधानगर-तटस्य अत्यन्तं विशिष्‍टं स्थानम् अस्ति। तत्रत्यः श्वेतरेणुः, नीलं निर्मलं जलम्, पारदर्शि समुद्रतलं च अविस्मरणीयम् अस्ति।

हिन्दी अनुवाद: राजर्षि: हाँ महोदया! मैं बताना चाहता हूँ। मैं एक बार पिता जी के साथ वहाँ घूमने गया था। हमने वहाँ चारों ओर प्रकृति की हरियाली और नीला समुद्र देखा। हमने महात्मा गांधी मरीन राष्ट्रीय उद्यान, नॉर्थ बे द्वीप, समुद्रिका नौसेना समुद्री संग्रहालय, काला पत्थर तट और विजयनगर तट देखा। वहाँ भारत के समुद्र तटों में राधानगर तट का अत्यंत विशिष्ट स्थान है। वहाँ की सफेद रेत, नीला-स्वच्छ जल और पारदर्शी समुद्र तल अविस्मरणीय है।

अध्यापिका: उत्तमम्, राजर्षे! किं भवान् स्वराजद्वीपं दृष्टवान्?

हिन्दी अनुवाद: अध्यापिका: बहुत सुंदर, राजर्षि! क्या आपने स्वराज द्वीप देखा?

राजर्षिः: न स्मरामि महोदये!

हिन्दी अनुवाद: राजर्षि: मुझे याद नहीं आ रहा है महोदया!

अध्यापिका: स्वराजद्वीपे एलीफेण्टा-तटे, नॉर्थ-बे-अन्तरीपे च सिन्धुतलविहारं, स्कूबाडाइविंग, स्नॉर्कलिंग इत्यादयः विविधाः गतिविधयः चलन्ति। समुद्रस्य अन्तर्भागः विविधवर्णैः मत्स्यैः, कच्छपैः, अन्यैः जलचरैः, प्रवालशृङ्खलाभिः च अलङ्कृतः इव दृश्यते।

हिन्दी अनुवाद: अध्यापिका: स्वराज द्वीप के एलिफेंटा तट और नॉर्थ बे अंतरीप पर समुद्र-तल-विहार (सी-वॉक), स्कूबा डाइविंग, स्नॉर्कलिंग आदि अनेक गतिविधियाँ चलती हैं। समुद्र का भीतरी भाग विभिन्न रंगों की मछलियों, कछुओं, अन्य जलचरों और मूँगे की चट्टानों से अलंकृत सा दिखाई देता है।

छात्राः: महोदये! अण्डमान-जनाः आजीविकार्थं किं कुर्वन्ति?

हिन्दी अनुवाद: छात्र: महोदया! अण्डमान के निवासी आजीविका के लिए क्या करते हैं?

अध्यापिका: तत्र मुक्तामालाः, शुक्तिशिल्पानि, नारिकेल-शिल्पानि, उपस्कराः च इत्यादीनाम् उत्पादनेन वाणिज्येन च तेषाम् आजीविका चलति। केचन कृषिकार्येण मत्स्यव्यापारेण च जीविकां निर्वहन्ति।

हिन्दी अनुवाद: अध्यापिका: वहाँ मोतियों की मालाएँ, सीप की कलाकृतियाँ, नारियल के शिल्पोत्पाद, मसाले आदि के उत्पादन और व्यापार से उनकी आजीविका चलती है। कुछ लोग कृषि कार्य और मछली व्यापार से अपनी जीविका चलाते हैं।

छात्राः: आचार्ये! अस्य वर्णनं श्रुत्वा चित्राणि च दृष्ट्वा अस्माकं मनसि तत्र भ्रमणाय उत्सुकता जागरिता।

हिन्दी अनुवाद: छात्र: शिक्षिका जी! इसका वर्णन सुनकर और चित्रों को देखकर हमारे मन में वहाँ घूमने की उत्सुकता जाग गई है।

अध्यापिका: अस्तु, वयम् अवश्यमेव तत्र शैक्षिकभ्रमणार्थं गमिष्यामः। अधुना वयं मिलित्वा गायामः –

हिन्दी अनुवाद: अध्यापिका: ठीक है, हम सब शैक्षिक भ्रमण के लिए वहाँ अवश्य चलेंगे। अब हम सब मिलकर गाते हैं –

हुतात्मनां पूततपःस्थलीयं विनायकादिस्तुति भाजनानाम्।
स्वराष्ट्रधर्मं ननु शिक्षयन्ती सुदर्शनीया भुवि तीर्थकल्पा॥

हिन्दी भावार्थ: यह भूमि विनायक (वीर सावरकर) आदि वंदनीय बलिदानियों की पवित्र तपःस्थली है, जो निश्चित रूप से हमें अपने राष्ट्रधर्म की शिक्षा देती हुई इस पृथ्वी पर तीर्थ के समान अत्यंत दर्शनीय है।

२. शब्दार्थ-सारणी (Word Meanings)

संस्कृत शब्दः संस्कृत-पर्यायः हिन्दी अर्थः English Meaning
द्वीपःअन्तरीपःटापूIsland
आकर्षकम्रमणीयम्मनोहर / सुंदरAttractive
जालपुटेअन्तर्जालेवेबसाइट परOn the website
अन्वेषणम्सन्धानम्खोजSearch
स्वातन्त्र्यार्थम्स्वाधीनतार्थम्स्वतन्त्रता के लिएFor freedom
युद्धरतानाम्सङ्घर्षरतानाम्लड़ाई में लगे हुए लोगों केOf the people engrossed in battle
कल्पनातीतम्विचारातीतम्कल्पना से परेBeyond imagination
घोरम्भीषणम्भयानकTerrific
वैश्‍विकसम्पदःविश्‍वन्यासस्यविश्‍व-धरोहर काOf world heritage
सोढवान्सहनं कृतवान्सहन कियाBore
सूच्याम्तालिकायाम्सूची मेंIn the List
कारागारम्बन्धनगृहम्कारागृह / जेलPrison
त्रितलात्मकम्त्रिस्तरीयम्तीन मंजिलाThree-storied
यावत्पर्यन्तम्तकUntil
जनजातिःगणजातिःवनवासीTribal
श्‍वेतरेणुःधवलधूलिःश्‍वेत बालूWhite sand
पारदर्शीतलदर्शीआर-पार दिखने वालाTransparent
हारित्यम्हरितस्य भावःहरियालीGreenery
मुक्तामालाःमौक्तिकमालाःमोतियों की मालाएँPearl necklaces
नारिकेलम्श्रीफलम्नारियलCoconut
उपस्कराःवेसवाराःमसालेSeasoning
शिल्पानिचित्रकलादि-कर्माणिशिल्पकलाSculpture
कच्छपःकूर्मःकछुआTortoise
प्रवालप्रस्तरैःविद्रुम-शिलाभिःमूँगे की चट्टानों सेBy the coral reefs

३. अभ्यासः - भाग १ (प्रश्नोत्तराणि १-३)

१. पाठं पठित्वा अधोलिखितानि पदानि परस्परं मेलयन्तु:

• (क) हान्दुमान् ➔ अण्डमानः

• (ख) कालापानी ➔ सेल्यूलरकारागारः

• (ग) जारवा ➔ जनजातिः

• (घ) स्वराजद्वीपः ➔ एलीफेण्टा

• (ङ) राधानगरतटः ➔ श्‍वेतरेणुः

• (च) स्वातन्त्र्यवीरः ➔ सावरकरः

२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु:

• (क) रामायणकाले अण्डमानद्वीपस्य नाम किम् आसीत्?
रामायणकाले अण्डमानद्वीपस्य नाम ‘हण्डुकमान’ आसीत्।

• (ख) स्वातन्त्र्यवीरः सावरकरः कति वर्षाणि कष्टं सोढवान्?
स्वातन्त्र्यवीरः सावरकरः मातृभूमेः रक्षणाय दश वर्षाणि यावत् कष्टं सोढवान्।

• (ग) अण्डमानद्वीपे काः जनजातयः निवसन्ति?
अण्डमानद्वीपे अण्डमानी, ओङ्गी, जारवा, सेण्टिनली इत्यादयः विशिष्टाः जनजातयः निवसन्ति।

• (घ) अण्डमानद्वीपे आजीविकार्थं जनाः किं कुर्वन्ति?
अण्डमानद्वीपे मुक्तामालाः, शुक्तिशिल्पानि, नारिकेल-शिल्पानि, उपस्कराः इत्यादीनाम् उत्पादनेन वाणिज्येन, कृषिकार्येण मत्स्यव्यापारेण च जनाः आजीविकां निर्वहन्ति।

• (ङ) अन्ते सर्वे मिलित्वा कं श्लोकं गायन्ति?
अन्ते सर्वे मिलित्वा ‘हुतात्मनां पूततपःस्थलीयं विनायकादिस्तुति भाजनानाम्। स्वराष्ट्रधर्मं ननु शिक्षयन्ती सुदर्शनीया भुवि तीर्थकल्पा॥’ इति श्लोकं गायन्ति।

३. पाठं दृष्ट्वा रिक्तस्थानानि पूरयन्तु:

• (क) अण्डमानद्वीपस्य राजधानी श्रीविजयपुरम् अस्ति।

• (ख) सूर्यांशः गृहं गत्वा जालपुटे अण्डमानस्य अन्वेषणम् अकरोत्।

• (ग) प्रथमशताब्द्याम् अस्य नाम अगादेमन इति आसीत्।

• (घ) अस्मिन् द्वीपे सेल्युलर इति कारागारम् अस्ति।

• (ङ) वयं स्वातन्त्र्यवीराणां बलिदानेन सुखेन जीवामः।

• (च) कालापानी यूनेस्को संस्थायाः वैश्‍विकसम्पदः सूच्यां संरक्षितम्।

• (छ) कृषिकार्येण मत्स्यव्यापारेण च जीविकां निर्वहन्ति।

४. अभ्यासः - भाग २ (प्रश्नोत्तराणि ४-८)

४. अधोलिखितानां विशेषण-विशेष्यपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु:

• (क) नीलम् ➔ समुद्रम्

• (ख) सुन्दरतमेषु ➔ समुद्रतटेषु

• (ग) स्वीयाः ➔ रीतिपरम्पराः

• (घ) विविधवर्णाः ➔ मत्स्याः

• (ङ) स्थानीये ➔ आपणे

• (च) प्रथमम् ➔ स्थानम्

५. पट्टिकातः समुचितानि पदानि चित्वा विशेषणानुसारं विशेष्यपदं लिखन्तु:

• (क) नूतने ➔ गृहे

• (ख) पवित्रं ➔ गुरुकुलम्

• (ग) रक्तायां ➔ शाटिकायाम्

• (घ) उत्तमानि ➔ पुस्तकानि

• (ङ) सुदीर्घः ➔ मार्गः

• (च) सुन्दरी ➔ युवती

• (छ) उन्नतान् ➔ वृक्षान्

• (ज) विशालाम् ➔ पाठशालाम्

• (झ) स्थूलाय ➔ गजाय

• (ञ) तस्य ➔ तटस्य

६. पट्टिकातः सर्वनामविशेषणपदानि चित्वा वाक्यानि पूरयन्तु:

• (क) तत् पुष्पाणाम् उद्यानम् अस्ति।

• (ख) एषा वृद्धा आपणं गच्छति।

• (ग) तस्मिन् चित्रे चन्द्रयानम् अस्ति।

• (घ) सः शिक्षकः संस्कृतं पाठयति।

• (ङ) ते बालकाः जलं पिबन्ति।

• (च) तत् पुष्पम् आकर्षकम् अस्ति।

• (छ) तेन कन्दुकेन क्रीडन्ति।

• (ज) ताः शिक्षिकाः गीतं शिक्षयन्ति।

• (झ) तौ मयूरौ नृत्यतः।

• (ञ) तस्यै बालिकायै पुस्तकानि यच्छ।

७. पाठे प्रयुक्तानि अव्ययपदानि क्रियापदानि च चित्वा समुचिते स्थाने लिखन्तु:

अव्ययानि: कुत्र, खलु, अद्य, ह्यः, तदा, तत्र, अत्रैव, यावत्, अपि, एव, अधुना, ननु।

क्रियापदानि: स्मरामि, पश्यन्तु, अस्ति, जानीमः, इच्छामः, अकरवम्, सोढवान्, निवसन्ति, गमिष्यामः, गायन्ति।

८. निम्नलिखितानां पदानां स्वरूपं दृष्ट्वा उदाहरणानुसारं समस्तपदं लिखन्तु:

यथा – समुद्रस्य मध्ये ➔ समुद्रमध्ये

• (क) द्वीपानां समूहः ➔ द्वीपसमूहः

• (ख) रामायणस्य काले ➔ रामायणकाले

• (ग) भारतस्य भूमिः ➔ भारतभूमिः

• (घ) उद्योगस्य विषयः ➔ उद्योगविषयः

• (ङ) देशस्य भक्तः ➔ देशभक्तः

• (च) समुद्रस्य तलम् ➔ समुद्रतलम्

५. योग्यताविस्तरः, अण्डमान-प्रशस्तिः एवं परियोजनाकार्यम्

✦ योग्यताविस्तरः

  • श्रीविजयपुरम्: भारतीय सरकार द्वारा पोर्ट-ब्लेयर का नाम बदलकर ‘श्रीविजयपुरम्’ किया गया।
  • स्कूबा-डाइविंग: पीठ पर ऑक्सीजन सिलेंडर लगाकर नली द्वारा मुख-नासिका से श्वास लेते हुए गहरे समुद्र में तैरना।
  • स्नॉर्कलिंग: विशेष चश्मा और नली पहनकर समुद्र की सतह float पर तैरना।
  • सिन्धु-तलविहारः (सी-वॉक): इस रोमांचक गतिविधि में पर्यटक समुद्र के धरातल (तल) तक जाते हैं।
  • कोरल-रीफ: समुद्र में मूँगे की चट्टानों के समूह को कोरल-रीफ कहा जाता है।

द्वीपों के प्राचीन एवं नवीन नाम:

पुरातनं नाम (प्राचीन नाम) नूतनं नाम (नया नाम)
रॉस-द्वीपःनेताजीसुभाषचन्द्रबोसद्वीपः
नील-द्वीपःशहीदद्वीपः
हैवलॉक्-द्वीपःस्वराजद्वीपः

✦ अण्डमान-प्रशस्तिः (सार्थ)

विभात्यवाच्याम्बुधि गर्भशोभी पुत्रः कनिष्ठः ननु भारतस्य।
सुनीलवारिश्रितस्निग्धगात्रः द्वीपेषु रम्यः द्वीपोऽण्डमानः॥

हिन्दी अर्थ: दक्षिण समुद्र के गर्भ में सुशोभित, मानो भारत माता का सबसे छोटा पुत्र, जो नीले जल से सिंचित स्निग्ध शरीर वाला है, ऐसा यह अण्डमान सभी द्वीपों में अत्यंत रमणीय है।

राष्ट्रस्य गौरवस्थानमितिहासे महत्स्थलम्।
असकृद्दर्शने योग्यमण्डमानो विराजते॥

हिन्दी अर्थ: यह राष्ट्र का गौरव-स्थल और इतिहास का अत्यंत महत्वपूर्ण स्थान है। बार-बार दर्शन करने योग्य यह अण्डमान सदैव सुशोभित रहता है।

चण्डहिंसा हि स्वदेशार्थं द्रोहिणां खण्डनात्पुरा।
दण्डनैर्यत्र भुक्ताभूदण्डमानो विराजते॥

हिन्दी अर्थ: अपने देश के लिए और देशद्रोहियों (विदेशी शासकों) के संहार हेतु पहले जहाँ हमारे वीरों ने कठोर दंड और घोर यातनाएँ सही थीं, वह अण्डमान आज स्वाभिमान से विराजमान है।

हरितविपिनरम्यैः संवृती द्वीपवृन्दैः लसति परमवाच्यां नीलसिन्धोस्तटस्थः।
प्रथितभुवि निकोबार-सेल्युलर-लोकलोके प्रकृतिकृतिपरोऽयं राजते मेऽण्डमानः॥

हिन्दी अर्थ: हरे-भरे वनों से आच्छादित सुंदर द्वीप समूहों से घिरा हुआ, दक्षिण में नीले समुद्र के तट पर स्थित, संसार में प्रसिद्ध निकोबार एवं सेल्युलर जेल से युक्त तथा प्राकृतिक सुषमा से परिपूर्ण यह अण्डमान सुशोभित है।

✦ परियोजनाकार्यम्

१. ‘अण्डमान’ क्षेत्र के विभिन्न पर्यटन स्थलों और समुद्र तटों के चित्र एकत्रित करके शीर्षक सहित अपनी स्क्रैपबुक (संग्रह-पुस्तिका) में लगाइए।

२. आप अपने माता-पिता अथवा शिक्षकों के साथ किसी पर्वतीय या तटीय प्रदेश के भ्रमण पर गए हों, तो उसका एक अनुच्छेद में वर्णन लिखिए।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!