NCERT Class 7 Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् | Full Exercise Solutions

Sooraj Krishna Shastri
By -
0

१. पाठ-परिचयः

छात्रः: महोदय ! अस्माकं विद्यालयस्य भित्तौ ‘अयोग्य: पुरुषो नास्ति योजकस्तत्र दुर्लभ:’ इति लिखितम् अस्ति। अस्य क: भाव: इति कृपया बोधयतु।

शिक्षकः: भो: सुशीले ! अस्य भावार्थ: अस्ति यत् अस्मिन् जगति कोऽपि अयोग्य: नास्ति। सर्वे योग्याः सन्ति परन्तु प्रेरकस्य मार्गदर्शकस्य च अभावः अस्ति।

छात्रः: मान्यवर! अहम् अपि विद्यालयस्य परिसरे एतादृशं श्लोकं पठितवती। महोदय ! सुभाषितानि इत्यनेन कः अभिप्रायः?

शिक्षकः: रमे! एतानि सुभाषितानि सन्ति। अस्माकं चिन्तनविकासाय एव एतानि सुभाषितानि विद्यालयस्य परिसरे स्थापितानि।

शिक्षकः: वत्स ! मानवानां विविधमूल्यानां विकासाय श्रेष्ठजनै: उक्तानि सुवचनानि एव सुभाषितानि।

छात्रः: श्रीमन्! सुभाषितानां पठनेन कः लाभ:? अहो, वयम् अपि सुभाषितानि पठितुम् इच्छाम: । कृपया अस्मान् पाठयतु।

शिक्षकः: प्रियसुरेश ! सुभाषितानां पठनेन अस्माकं नैतिक: सामाजिक: च विकास: भवति। अस्माभि: किं कर्तव्यं किञ्च न कर्तव्यम् इति सुभाषितानि बोधयन्ति।

छात्रः: समीचीनम्, तर्हि वयं सुभाषितानां रसं पिबाम: ।

२. श्लोकाः (१-५)

श्लोक १

वस्त्रेण वपुषा वाचा विद्यया विनयेन च।
वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः।।१।।

पदच्छेदः: वस्त्रेण वपुषा वाचा विद्यया विनयेन च वकारैः पञ्चभिः युक्तः नरः भवति पूजितः।

अन्वयः: वस्त्रेण वपुषा वाचा विद्यया विनयेन च (इति एतैः) पञ्चभिः वकारैः युक्तः नरः पूजितः भवति।

भावार्थः: यः जनः समुचितानि वस्त्राणि धरति, शरीरेण स्वस्थः अस्ति, सदा सुमधुरं हितकरं च वचनं वदति, सर्वदा अध्ययने संलग्नः भवति, तथा च विनम्रतया च व्यवहरति तादृशः पञ्चभिः वकारैः – वस्त्रं वपुः वाक् विद्या विनयः – इत्येतैः युक्तः मनुष्यः लोके सम्मानं प्राप्नोति।

श्लोक २

षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।२।।

पदच्छेदः: षड् दोषा: पुरुषेण इह हातव्याः भूतिम् इच्छता निद्रा तन्द्रा भयम् क्रोधः आलस्यम् दीर्घसूत्रता ।

अन्वयः: इह भूतिम् इच्छता पुरुषेण निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता (च इत्येते) षड् दोषा: हातव्याः ।

भावार्थः: अस्मासु निद्रादयः षड् दोषाः भवन्ति। एते अस्माकम् ऐश्वर्यस्य उन्नतेश्च अवरोधकाः भवन्ति। अतः यदि मानवः स्वजीवने धनिकः, विद्वान् वा भवितुम् इच्छति, ऐश्वर्यं वैभवं च प्राप्तुं वाञ्छति तर्हि सः अतिनिद्रां, तन्द्रां, भीतिं, क्रोधम्, आलस्यं, विलम्बेन कार्यकरणस्य प्रवृत्तिं च – एतान् षड् दोषान् परित्यजेत्।

श्लोक ३

अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति।।३।।

पदच्छेदः: अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति विद्या-तपोभ्यां भूतात्मा बुद्धिः ज्ञानेन शुध्यति।

अन्वयः: गात्राणि अद्भिः शुध्यन्ति। मनः सत्येन शुध्यति। भूतात्मा विद्यातपोभ्यां शुध्यति। बुद्धिः ज्ञानेन शुध्यति।

भावार्थः: प्रतिदिनं स्नानेन मानवस्य शरीरं स्वच्छं भवति। सत्येन मनः पवित्रं भवति। सत्यकथनेन मनसि द्वन्द्वः भीतिः च न भवति। नित्यं विद्याभ्यासेन परिश्रमेण च जीवस्य शुद्धिः भवति। ज्ञानेन च बुद्धिः निर्मला भवति। अतः मनुष्यः नित्यं स्नानं, सत्यकथनं, विद्याभ्यासं, परिश्रमं, ज्ञानार्जनं च कुर्यात्।

श्लोक ४

उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः।।४।।

पदच्छेदः: उत्तरं यत् समुद्रस्य हिमाद्रेः च एव दक्षिणं वर्षं तद् भारतं नाम भारती यत्र सन्ततिः।

अन्वयः: यत् समुद्रस्य उत्तरं हिमाद्रेः च दक्षिणं तद् एव भारतं नाम वर्षम्, यत्र भारती सन्ततिः (अस्ति)।

भावार्थः: अस्मिन् सुभाषिते सुभाषितकारः भारतस्य भौगोलिकं स्वरूपं वर्णयति। हिन्दमहासागरस्य उत्तरभागे हिमालयस्य च दक्षिणभागे यः भूभागः अस्ति, तस्य भूभागस्य नाम भारतवर्षम्। अत्रत्याः नागरिकाः भारतीयाः इति प्रसिद्धाः।

श्लोक ५

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।।५।।

पदच्छेदः: जलबिन्दु-बिन्दुनिपातेन क्रमशः पूर्यते घटः सः हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।

अन्वयः: घटः क्रमशः जलबिन्दु-बिन्दुनिपातेन पूर्यते, सः हेतुः सर्वविद्यानां धर्मस्य च धनस्य च भवति।

भावार्थः: यथा निरन्तरं जलस्य बिन्दूनां पतनेन रिक्तः अपि घटः पूर्णः भवति तथैव जीवने निरन्तरम् अभ्यासेन सामान्यः अपि मानवः सर्वप्रकारकं ज्ञानं, धर्मं, धनं च लभते।

३. श्लोकाः (६-९)

श्लोक ६

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैः नलिनीदलमिव विस्तारिता बुद्धिः॥६।।

पदच्छेदः: यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति तस्य दिवाकरकिरणैः नलिनीदलम् इव विस्तारिता बुद्धिः।

अन्वयः: यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति च तस्य बुद्धिः दिवाकरकिरणै: नलिनीदलम् इव विस्तारिता भवति।

भावार्थः: अस्माभिः आत्मविकासाय सर्वथा श्रेष्ठजनैः सह सङ्गतिः वासश्च कर्तव्यः। यतो हि यः निरन्तरं पठति (अर्थात् स्वाध्यायं करोति), लिखति, पश्यति, विविधान् प्रश्नान् करोति (स्वस्य संशयं दूरीकरोति), ज्ञानिजनानाम् आश्रये (समीपे) तिष्ठति, तस्य बुद्धिः तथैव वर्धते यथा सूर्यस्य किरणैः कमलं पूर्णतया विकसितं भवति।

श्लोक ७

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ।।७।।

पदच्छेदः: प्रियवाक्य-प्रदानेन सर्वे तुष्यन्ति जन्तवः तस्मात् तद् एव वक्तव्यं वचने का दरिद्रता ।

अन्वयः: सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति, तस्मात् तद् एव वक्तव्यं, वचने का दरिद्रता?

भावार्थः: मधुरभाषणेन सर्वे अपि प्राणिनः, अस्माकं सर्वाणि मित्राणि, माता, पिता, भ्राता इत्यादयः प्रसन्नाः भवन्ति। मधुरभाषणेन कापि हानिः नास्ति। अतः सर्वदा मधुरभाषणम् एव करणीयम्। मधुरभाषणे कदापि सङ्कोचः न करणीयः।

श्लोक ८

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।८।।

पदच्छेदः: आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः न अस्ति उद्यमसमः बन्धुः कृत्वा यं न अवसीदति।

अन्वयः: आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः (अस्ति)। उद्यमसमः बन्धुः नास्ति, (जनः) यं (उद्यमं) कृत्वा न अवसीदति।

भावार्थः: आलस्यम् एव मनुष्यस्य शरीरे विद्यमानः महान् शत्रुः अस्ति। तद् एव अस्माकं कार्यस्य सम्पादने अवरोधकं भवति। परिश्रमः एव अस्माकं वास्तविकं मित्रम् अस्ति। यः परिश्रमं करोति सः कदापि दुःखं न प्राप्नोति।

श्लोक ९

अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्।।९।।

पदच्छेदः: अष्टादश-पुराणेषु व्यासस्य वचन-द्वयं परोपकार: पुण्याय पापाय परपीडनम्।

अन्वयः: अष्टादशपुराणेषु व्यासस्य वचनद्वयम् (अस्ति), परोपकारः पुण्याय परपीडनं पापाय (च भवति)।

भावार्थः: महर्षेः वेदव्यासस्य अष्टादश-पुराणानां सारः वचनद्वये अस्ति – परेषाम् उपकारेण पुण्यं भवति। परेषां पीडनेन पापं भवति इति। अतः अस्माभिः सर्वदा परोपकारः करणीयः। अन्येषां पीडनं कदापि न करणीयम्।

४. शब्दार्थ-सारणी (Word Meanings)

संस्कृत शब्दः संस्कृत-पर्यायः हिन्दी अर्थः English Meaning
उत्थायउत्थानं कृत्वाखड़े होकरHaving got up
प्रेरकःप्रेरणादायक:प्रेरित करने वालाOne who inspires
नैतिकःसदाचारयुक्तःनैतिकMoral/ethical
वपुषाशरीरेणशरीर सेBy physique
सम्मानम्आदरःआदरRespect
हातव्या:त्यक्तव्या:छोड़ना चाहिएWorth discarding
भूतिम्वैभवम्ऐश्वर्यProsperity
तन्द्राअकर्मण्यताकर्महीनताLassitude
दीर्घसूत्रताविलम्बकार्यप्रवृत्तिःकार्य को आगे टालने की प्रवृत्तिProcrastination
अवरोधकाःनिवारकाःरोकनेवालेBarriers
वाञ्छतिइच्छतिचाहता/ती हैWants/Desires
अद्भिःजलै:जल सेBy water
भूतात्माजीवःप्राणीSoul
द्वन्द्वःद्वैधीभावःदुविधाDilemma
वर्षम्भूमेः विभागःमहाद्वीप का विभागA division of continent
सन्ततिःअपत्यम्सन्तानProgeny
निपातेनपतनेनगिरने सेBy falling
हेतुःकारणम्कारणReason
परिपृच्छतिसादरं पृच्छतिविनय से पूछता/ती हैHumbly enquires
उपाश्रयतिसमीपम् गच्छतिपास जाता/जाती हैApproaches
सङ्गतिःसंसर्गःसंगAssociation
तुष्यन्तिसन्तोषम् अनुभवन्तिसंतुष्ट होते हैंFeeling satisfied
रिपुःशत्रुःवैरीEnemy
पुण्यम्सत्कर्मणां फलम्सत्कार्यों के फलFruits of meritorious deeds
परपीडनम्अन्येभ्य: कष्टप्रदानम्दूसरों को पीड़ा देनाBothering others

५. अभ्यासः - भाग १ (प्रश्नोत्तराणि १-३)

१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु:

• (क) नरः कतिभिः वकारैः पूजितः भवति? ➔ पञ्चभिः

• (ख) पुरुषेण कति दोषाः हातव्याः? ➔ षड्

• (ग) बुद्धिः केन शुध्यति? ➔ ज्ञानेन

• (घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते? ➔ घटः

• (ङ) आलस्यं केषां महान् रिपुः अस्ति? ➔ मनुष्याणां

२. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु:

• (क) नरः कथं पूजितो भवति?
नरः वस्त्रेण, वपुषा, वाचा, विद्यया, विनयेन च इति पञ्चभिः वकारैः पूजितो भवति।

• (ख) पुरुषेण के दोषाः हातव्याः?
भूतिम् इच्छता पुरुषेण निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च एते षड् दोषाः हातव्याः।

• (ग) कस्य बुद्धिः विस्तारिता भवति?
यः पठति, लिखति, पश्यति, परिपृच्छति, पण्डितान् उपाश्रयति च तस्य बुद्धिः विस्तारिता भवति।

• (घ) किं कृत्वा मनुष्यः नावसीदति?
उद्यमं (परिश्रमं) कृत्वा मनुष्यः नावसीदति।

• (ङ) व्यासस्य वचनद्वयं किम्?
परोपकारः पुण्याय भवति, परपीडनं च पापाय भवति इति व्यासस्य वचनद्वयम् अस्ति।

३. उदाहरणानुसारं श्लोकांशान् यथोचितं योजयन्तु:

• (क) वस्त्रेण वपुषा वाचा विद्यया विनयेन च। ➔ वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः॥

• (ख) षड् दोषा: पुरुषेणेह हातव्या भूतिमिच्छता । ➔ निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥

• (ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति। ➔ विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति॥

• (घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। ➔ वर्षं तद् भारतं नाम भारती यत्र सन्ततिः॥

• (ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । ➔ स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥

६. अभ्यासः - भाग २ (प्रश्नोत्तराणि ४-८)

४. निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु:

• (क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति। ➔ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

• (ख) परिश्रमेण तुल्यः बान्धवः नास्ति। ➔ नास्त्युद्यमसमो बन्धुः।

• (ग) परोपकारेण मानवस्य पुण्यार्जनं भवति। ➔ परोपकारः पुण्याय।

• (घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम्। ➔ उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद् भारतं नाम।

५. अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु:

यथा – वपुः – शरीरम्

• (क) जलम् – वारि / नीरम् (अद्भिः)

• (ख) लोचनम् – नेत्रम् / नयनम्

• (ग) धनम् – वित्तम् / द्रव्यम्

• (घ) बुद्धिः – प्रज्ञा / मतिः

• (ङ) रिपुः – शत्रुः / वैरी

६. अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु:

• सुधाखण्डेन ➔ सुधाखण्डाभ्याम् ➔ सुधाखण्डैः

• वृक्षेण ➔ वृक्षाभ्याम्वृक्षैः

लतया ➔ लताभ्याम् ➔ लताभिः

देशेन ➔ देशाभ्याम् ➔ देशैः

• पुण्येन ➔ पुण्याभ्याम्पुण्यैः

विनयेनविनयाभ्याम् ➔ विनयैः

७. कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु:

उत्तरम् यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः।।

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यम् वचने का दरिद्रता ।।

८. उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु:

• (क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः。

• (ख) तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ।

• (ग) यः पठति लिखति पृच्छति पण्डितानुपाश्रयति

• (घ) स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।

• (ङ) विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति。

७. योग्यताविस्तरः एवं परियोजनाकार्यम्

पर्यायपदानि (अमरकोशः)

  • वपुः – गात्रं वपुः संहननं शरीरं वर्ष्मविग्रहः॥
  • नराः – मनुष्याः मानुषाः मर्त्याः मनुजाः मानवाः नराः।।
  • भूतिः – विभूतिर्भूतिरैश्वर्यम् (विभूतिः भूतिः ऐश्वर्यम्)।।
  • मनः – चित्तं चेतो हृदयं स्वान्तं हृन्मानसं मनः।।
  • बुद्धिः – बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥
  • धनम् – द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥
  • पण्डितः – विद्वान् विपश्चिद्दोषज्ञः सन् सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः।।
  • दिवाकरः – सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः। भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥
  • जन्तुः – प्राणी तु चेतनो जन्मी जन्तुजन्तुन्युशरीरिणः। जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता॥
  • रिपुः – रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः॥

परियोजनाकार्यम्

१. ‘शुध्’ इति धातोः लट्-लकारस्य रूपाणि स्फोरकपत्रे लिखित्वा आनयन्तु।

२. सुभाषितेषु आगतानि तृतीयाविभक्तिरूपाणि संगृह्य उत्तरपुस्तिकायां लिखन्तु। तेषां प्रयोगं कृत्वा वाक्यानि अपि लिखन्तु।

कार्यकलापः

‘सुभाषितकण्ठपाठविषये’ एकां प्रतियोगितां वर्गे, कक्षायां, विद्यालये च आयोजयन्तु।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!